Arthashastra. Book 2, Chapter 36: Collector general. The district revenue officer's brief

Book 2 · Chapter 36

The Duties of Government Officials

Collector general. The district revenue officer's brief

समाहर्तृवन्नागरिको नगरं चिन्तयेत् ।। ०२.३६.०१ ।। दश-कुलीं गोपो विंशति-कुलीं चत्वारिंशत्-कुलीं वा ।। ०२.३६.०२ ।। स तस्यां स्त्री-पुरुषाणां जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रं आय-व्ययौ च विद्यात् ।। ०२.३६.०३ ।। एवं दुर्ग-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३६.०४ ।। धर्म-आवसथिनः पाषण्डि-पथिकानावेद्य वासयेयुः । स्व-प्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ।। ०२.३६.०५ ।। कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनं वासयेयुः । वैदेहकाश्चान्योन्यं स्व-कर्म-स्थानेषु ।। ०२.३६.०६ ।। पण्यानां अदेश-काल-विक्रेतारं अस्वकरणं च निवेदयेयुः ।। ०२.३६.०७ ।। शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातं आवासयेयुः ।। ०२.३६.०८ ।। अतिव्यय-कर्तारं अत्याहित-कर्माणं च निवेदयेयुः ।। ०२.३६.०९ ।। चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारं अपथ्य-कारिणं च गृह-स्वामी च निवेद्य गोप-स्थानिकयोर्मुच्येत । अन्यथा तुल्य-दोषः स्यात् ।। ०२.३६.१० ।। प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषं भजेत ।। ०२.३६.११ ।। क्षेम-रात्रिषु त्रि-पणं दद्यात् ।। ०२.३६.१२ ।। पथिक-उत्पथिकाश्च बहिर्-अन्तश्च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु सव्रणं अनिष्ट-उपकरणं उद्भाण्डी-कृतं आविग्नं अतिस्वप्नं अध्व-क्लान्तं अपूर्वं वा गृह्णीयुः ।। ०२.३६.१३ ।। एवं अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयं कुर्युः ।। ०२.३६.१४ ।। अग्नि-प्रतीकारं च ग्रीष्मे ।। ०२.३६.१५ ।। मध्यमयोरह्नश्चतुर्-भागयोरष्ट-भागोअग्नि-दण्डः ।। ०२.३६.१६ ।। बहिर्-अधिश्रयणं वा कुर्युः ।। ०२.३६.१७ ।। पादः पञ्च-घटीनां कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनां चाकरणे ।। ०२.३६.१८ ।। तृण-कटच्-छन्नान्यपनयेत् ।। ०२.३६.१९ ।। अग्नि-जीविन एकस्थान्वासयेत् ।। ०२.३६.२० ।। स्व-गृह-प्रद्वारेषु गृह-स्वामिनो वसेयुः असम्पातिनो रात्रौ ।। ०२.३६.२१ ।। रथ्यासु कुट-व्रजाः सहस्रं तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ।। ०२.३६.२२ ।। प्रदीप्तं अनभिधावतो गृह-स्वामिनो द्वादश-पणो दण्डः । षट्-पणोअवक्रयिणः ।। ०२.३६.२३ ।। प्रमादाद्दीप्तेषु चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.३६.२४ ।। प्रदीपिकोअग्निना वध्यः ।। ०२.३६.२५ ।। पांसु-न्यासे रथ्यायां अष्ट-भागो दण्डः । पङ्क-उदक-सम्निरोधे पादः ।। ०२.३६.२६ ।। राज-मार्गे द्वि-गुणः ।। ०२.३६.२७ ।। पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तरा विष्टा-दण्डाः । मूत्रेष्वर्ध-दण्डाः ।। ०२.३६.२८ ।। भैषज्य-व्याधि-भय-निमित्तं अदण्ड्याः ।। ०२.३६.२९ ।। मार्जार-श्व-नकुल-सर्प-प्रेतानां नगरस्य-अन्तर्-उत्सर्गे त्रि-पणो दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानां षट्-पणः । मनुष्य-प्रेतानां पञ्चाशत्-पणः ।। ०२.३६.३० ।। मार्ग-विपर्यासे शव-द्वारादन्यतश्च शव-निर्णयने पूर्वः साहस-दण्डः ।। ०२.३६.३१ ।। द्वाः-स्थानां द्विशतं ।। ०२.३६.३२ ।। श्मशानादन्यत्र न्यासे दहने च द्वादश-पणो दण्डः ।। ०२.३६.३३ ।। विषण्ण-अलिकं उभयतोरात्रं याम-तूर्यं ।। ०२.३६.३४ ।। तूर्य-शब्दे राज्ञो गृह-अभ्याशे स-पाद-पणं-अक्षण-ताडनं प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकं द्वि-गुणम् । अन्तश्-चतुर्-गुणं ।। ०२.३६.३५ ।। शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतं अनुयुञ्जीत ।। ०२.३६.३६ ।। राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ।। ०२.३६.३७ ।। सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तं मुद्राभिश्चाग्राह्याः ।। ०२.३६.३८ ।। चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिता दण्ड-शस्त्र-हस्ताश्च मनुष्या दोषतो दण्ड्याः ।। ०२.३६.३९ ।। रक्षिणां अवार्यं वारयतां वार्यं चऽवारयतां क्षण-द्वि-गुणो दण्डः ।। ०२.३६.४० ।। स्त्रियं दासीं अधिमेहयतां पूर्वः साहस-दण्डः । अदासीं मध्यमः । कृत-अवरोधां उत्तमः । कुल-स्त्रियं वधः ।। ०२.३६.४१ ।। चेतन-अचेतनिकं रात्रि-दोषं अशंसतो नागरिकस्य दोष-अनुरूपो दण्डः । प्रमाद-स्थाने च ।। ०२.३६.४२ ।। नित्यं उदक-स्थान-मार्ग-भ्रमच्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणं नष्ट-प्रस्मृत-अपसृतानां च रक्षणं ।। ०२.३६.४३ ।। बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानां जात-नक्षत्र-पौर्णमासीषु विसर्गः ।। ०२.३६.४४ ।। पण्य-शीलाः समय-अनुबद्धा वा दोष-निष्क्रयं दद्युः ।। ०२.३६.४५ ।। दिवसे पञ्च-रात्रे वा बन्धनस्थान्विशोधयेत् । ।। ०२.३६.४६अ ब ।। कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ।। ०२.३६.४६च्द् ।। अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ।। ०२.३६.४७अ ब ।। पुत्र-जन्मनि वा मोक्षो बन्धनस्य विधीयते ।। ०२.३६.४७च्द् ।।

✦ ✦ ✦

The collector general supervises the districts under his charge. Their headmen, their acco
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.