Arthashastra. Book 2, Chapter 4: Where a fort should stand
Book 2 · Chapter 4
The Duties of Government Officials
Where a fort should stand
त्रयः प्राचीना राज-मार्गास्त्रय उदीचीना इति वास्तु-विभागः ।। ०२.४.०१ ।। स द्वादश-द्वारो युक्त-उदक-भ्रमच्-छन्न-पथः ।। ०२.४.०२ ।। चतुर्-दण्ड-अन्तरा रथ्याः ।। ०२.४.०३ ।। राज-मार्ग-द्रोण-मुख-स्थानीय-राष्ट्र-विवीत-पथाः सम्यानीय-व्यूह-श्मशान-ग्राम-पथाश्चाष्ट-दण्डाः ।। ०२.४.०४ ।। चतुर्-दण्डः सेतु-वन-पथः । द्वि-दण्डो हस्ति-क्षेत्र-पथः । पञ्च-अरत्नयो रथ-पथः । चत्वारः पशु-पथः । द्वौ क्षुद्र-पशु-मनुष्य-पथः ।। ०२.४.०५ ।। प्रवीरे वास्तुनि राज-निवेशश्चातुर्वर्ण्य-समाजीवे ।। ०२.४.०६ ।। वास्तु-हृदयादुत्तरे नव-भागे यथा-उक्त-विधानं अन्तःपुरं प्रान्-मुखं उदन्-मुखं वा कारयेत् ।। ०२.४.०७ ।। तस्य पूर्व-उत्तरं भागं आचार्य-पुरोहित-इज्या-तोय-स्थानं मन्त्रिणश्चऽवसेयुः । पूर्व-दक्षिणं भागं महानसं हस्ति-शाला कोष्ठ-अगारं च ।। ०२.४.०८ ।। ततः परं गन्ध-माल्य-रस-पण्याः प्रसाधन-कारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः ।। ०२.४.०९ ।। दक्षिण-पूर्वं भागं भाण्ड-अगारं अक्ष-पटलं कर्म-निषद्याश्च । दक्षिण-पश्चिमं भागं कुप्य-गृहं आयुध-अगारं च ।। ०२.४.१० ।। ततः परं नगर-धान्य-व्यावहारिक-कार्मान्तिक-बल-अध्यक्षाः पक्व-अन्न-सुरा-मांस-पण्या रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः ।। ०२.४.११ ।। पश्चिम-दक्षिणं भागं खर-उष्ट्र-गुप्ति-स्थानं कर्म-गृहं च । पश्चिम-उत्तरं भागं यान-रथ-शालाः ।। ०२.४.१२ ।। ततः परं ऊर्णा-सूत्र-वेणु-चर्म-वर्म-शस्त्र-आवरण-कारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः ।। ०२.४.१३ ।। उत्तर-पश्चिमं भागं पण्य-भैषज्य-गृहम् । उत्तर-पूर्वं भागं कोशो गव-अश्वं च ।। ०२.४.१४ ।। ततः परं नगर-राज-देवता-लोह-मणि-कारवो ब्राह्मणाश्चौत्तरां दिशं अधिवसेयुः ।। ०२.४.१५ ।। वास्तुच्-छिद्र-अनुशालेषु श्रेणी-प्रपणि-निकाया आवसेयुः ।। ०२.४.१६ ।। अपर-अजित-अप्रतिहत-जयन्त-वैजयन्त-कोष्ठान्शिव-वैश्रवण-अश्वि-श्री-मदिरा-गृहाणि च पुर-मध्ये कारयेत् ।। ०२.४.१७ ।। यथा-उद्देशं वास्तु-देवताः स्थापयेत् ।। ०२.४.१८ ।। ब्राह्म-ऐन्द्र-याम्य-सैनापत्यानि द्वाराणि ।। ०२.४.१९ ।। बहिः परिखाया धनुः-शत-अपकृष्टाश्चैत्य-पुण्य-स्थान-वन-सेतु-बन्धाः कार्याः । यथा-दिशं च दिग्-देवताः ।। ०२.४.२० ।। उत्तरः पूर्वो वा श्मशान-भागो वर्ण-उत्तमानाम् । दक्षिणेन श्मशानं वर्ण-अवराणां ।। ०२.४.२१ ।। तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०२.४.२२ ।। पाषण्ड-चण्डालानां श्मशान-अन्ते वासः ।। ०२.४.२३ ।। कर्म-अन्त-क्षेत्र-वशेन कुटुम्बिनां सीमानं स्थापयेत् ।। ०२.४.२४ ।। तेषु पुष्प-फल-वाटान्धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०२.४.२५ ।। दश-कुली-वाटं कूप-स्थानं ।। ०२.४.२६ ।। सर्व-स्नेह-धान्य-क्षार-लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयाननेक-वर्ष-उपभोग-सहान्कारयेत् ।। ०२.४.२७ ।। नवेनानवं शोधयेत् ।। ०२.४.२८ ।। हस्ति-अश्व-रथ-पादातं अनेक-मुख्यं अवस्थापयेत् ।। ०२.४.२९ ।। अनेक-मुख्यं हि परस्पर-भयात्पर-उपजापं नौपैति ।। ०२.४.३० ।। एतेनान्त-पाल-दुर्ग-संस्कारा व्याख्याताः ।। ०२.४.३१ ।। न च बाहिरिकान्कुर्यात्पुरे राष्ट्र-उपघातकान् । ।। ०२.४.३२अ ब ।। क्षिपेज्जन-पदे चएतान्सर्वान्वा दापयेत्करान् ।। ०२.४.३२च्द् ।।
✦ ✦ ✦
“A fort is not placed where the king pleases. It is placed where the river bends, where the…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.