Arthashastra. Book 2, Chapter 5: What stands inside the walls
Book 2 · Chapter 5
The Duties of Government Officials
What stands inside the walls
सम्निधाता कोश-गृहं पण्य-गृहं कोष्ठ-अगारं कुप्य-गृहं आयुध-अगारं बन्धन-अगारं च कारयेत् ।। ०२.५.०१ ।। चतुर्-अश्रां वापीं अनुदक-उपस्नेहां खानयित्वा पृथु-शिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सार-दारु-पञ्जरं भूमि-समं त्रि-तलं अनेक-विधानं कुट्टिम-देश-स्थान-तलं एक-द्वारं यन्त्र-युक्त-सोपानं भूमि-गृहं कारयेत् ।। ०२.५.०२ ।। तस्यौपरिउभयतो-निषेधं सप्रग्रीवं ऐष्टकं भाण्ड-वाहिनी-परिक्षिप्तं कोश-गृहं कारयेत् । प्रासादं वा ।। ०२.५.०३ ।। जन-पद-अन्ते ध्रुव-निधिं आपद्-अर्थं अभित्यक्तैः कारयेत् ।। ०२.५.०४ ।। पक्व-इष्टका-स्तम्भं चतुः-शालं एक-द्वारं अनेक-स्थान-तलं विवृत-स्तम्भ-अपसारं उभयतः पण्य-गृहं कोष्ठ-अगारं च ।। ०२.५.०५अ ।। दीर्घ-बहु-शालं कक्ष्य-आवृत-कुड्यं अन्तः कुप्य-गृहम् । तदेव भूमि-गृह-युक्तं आयुध-अगारं ।। ०२.५.०५ब ।। पृथग्-धर्म-स्थीयं महा-मात्रीयं विभक्त-स्त्री-पुरुष-स्थानं अपसारतः सुगुप्त-कक्ष्यं बन्धन-अगारं कारयेत् ।। ०२.५.०५क ।। सर्वेषां शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ।। ०२.५.०६ ।। कोष्ठ-अगारे वर्षमानं अरत्नि-मुखं कुण्डं स्थापयेत् ।। ०२.५.०७ ।। तत्-जात-करण-अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ।। ०२.५.०८ ।। तत्र रत्न-उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ।। ०२.५.०९ ।। रूप-दर्शक-विशुद्धं हिरण्यं प्रतिगृह्णीयात् ।। ०२.५.१० ।। अशुद्धं छेदयेत् ।। ०२.५.११ ।। आहर्तुः पूर्वः साहस-दण्डः ।। ०२.५.१२ ।। शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात् ।। ०२.५.१३ ।। विपर्यये मूल्य-द्विगुणो दण्डः ।। ०२.५.१४ ।। तेन पण्यं कुप्यं आयुधं च व्याख्यातं ।। ०२.५.१५ ।। सर्व-अधिकरणेषु युक्त-उपयुक्त-तत्पुरुषाणां पण-आदि-चतुष्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधा दण्डाः ।। ०२.५.१६ ।। कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ।। ०२.५.१७ ।। तद्-वैयावृत्य-कराणां अर्ध-दण्डाः ।। ०२.५.१८ ।। परिभाषणं अविज्ञाते ।। ०२.५.१९ ।। चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०२.५.२० ।। तस्मादाप्त-पुरुWअ-अधिष्ठितः सम्निधाता निचयाननुतिष्ठेत् ०२.५.२२अ ।। ०२.५.२१ ।। यथा पृष्टो न सज्जेत व्यये शेषे च संचये ।। ०२.५.२२ब ।।
✦ ✦ ✦
“Within the fort, every building has its assigned ground. The treasury sits where the palac…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.