Arthashastra. Book 2, Chapter 6: Revenue, expenditure, and net balance. The state as a ledger
Book 2 · Chapter 6
The Duties of Government Officials
Revenue, expenditure, and net balance. The state as a ledger
समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्-पथं चावेक्षेत ।। ०२.६.०१ ।। शुल्कं दण्डः पौतवं नागरिको लक्षण-अध्यक्षो मुद्रा-अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतं वास्तुकं कारु-शिल्पि-गणो देवता-अध्यक्षो द्वार-बहिरिका-आदेयं च दुर्गं ।। ०२.६.०२ ।। सीता भागो बलिः करो वणिक्नदी-पालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोर-रज्जुश्च राष्ट्रं ।। ०२.६.०३ ।। सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ।। ०२.६.०४ ।। पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ।। ०२.६.०५ ।। पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहो वनं ।। ०२.६.०६ ।। गो-महिषं अज-अविकं खर-उष्त्रं अश्व-अश्वतरं च व्रजः ।। ०२.६.०७ ।। स्थल-पथो वारि-पथश्च वणिक्-पथः ।। ०२.६.०८ ।। इत्याय-शरीरं ।। ०२.६.०९ ।। मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चऽय-मुखं ।। ०२.६.१० ।। देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तो । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहो । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाश्चैति व्यय-शरीरं ।। ०२.६.११ ।। राज-वर्षं मासः पक्षो दिवसश्च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणां तृतीय-सप्तमा दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथग्-अधिमासकः । इति कालः ।। ०२.६.१२ ।। करणीयं सिद्धं शेषं आय-व्ययौ नीवी च ।। ०२.६.१३ ।। संस्थानं प्रचारः शरीर-अवस्थापनं आदानं सर्व-समुदय-पिण्डः संजातं एतत्करणीयं ।। ०२.६.१४ ।। कोश-अर्पितं राज-हारः पुर-व्ययश्च प्रविष्टं परम-संवत्सर-अनुवृत्तं शासन-मुक्तं मुख-आज्ञप्तं चापातनीयं एतत्सिद्धं ।। ०२.६.१५ ।। सिद्धि-कर्म-योगः दण्ड-शेषं आहरणीयं बलात्-कृत-प्रतिष्टब्धं अवमृष्टं च प्रशोध्यं एतत्शेषम् । असारं अल्प-सारं च ।। ०२.६.१६ ।। वर्तमानः पर्युषितोअन्य-जातश्चऽयः ।। ०२.६.१७ ।। दिवस-अनुवृत्तो वर्तमानः ।। ०२.६.१८ ।। परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ।। ०२.६.१९ ।। नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ।। ०२.६.२० ।। विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.६.२१ ।। विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ।। ०२.६.२२ ।। नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ।। ०२.६.२३ ।। दिवस-अनुवृत्तो नित्यः ।। ०२.६.२४ ।। पक्ष-मास-संवत्सर-लाभो लाभः ।। ०२.६.२५ ।। तयोरुत्पन्नो नित्य-उत्पादिको लाभ-उत्पादिक इति व्ययः ।। ०२.६.२६ ।। संजातादाय-व्यय-विशुद्धा नीवी । प्राप्ता चानुवृत्ता च ।। ०२.६.२७ ।। एवं कुर्यात्समुदयं वृद्धिं चऽयस्य दर्शयेत् । ।। ०२.६.२८अ ब ।। ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ।। ०२.६.२८च्द् ।।
✦ ✦ ✦
“The Collector General shall attend to the collection of revenue from forts, country parts,…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.