Arthashastra. Book 2, Chapter 7: The chief accountant's office
Book 2 · Chapter 7
The Duties of Government Officials
The chief accountant's office
अक्ष-पटलं अध्यक्षः प्रान्-मुखं उदन्-मुखं वा विभक्त-उपस्थानं निबन्ध-पुस्तक-स्थानं कारयेत् ।। ०२.७.०१ ।। तत्राधिकरणानां संख्या-प्रचार-संजात-अग्रम् । कर्म-अन्तानां द्रव्य-प्रयोग-वृद्धि-क्षय-व्यय-प्रयाम-व्याजी-योग-स्थान-वेतन-विष्टि-प्रमाणम् । रत्न-सार-फल्गु-कुप्यानां अर्घ-प्रतिवर्णक-मान-प्रतिमान-उन्मान-अवमान-भाण्डम् । देश-ग्राम-जाति-कुल-संघानां धर्म-व्यवहार-चरित्र-संस्थानम् । राज-उपजीविनां प्रग्रह-प्रदेश-भोग-परिहार-भक्त-वेतन-लाभम् । राज्ञश्च पत्नी-पुत्राणां रत्न-भूमि-लाभं निर्देश-उत्पातिक-प्रतीकार-लाभम् । मित्र-अमित्राणां च संधि-विग्रह-प्रदान-आदानं निबन्ध-पुस्तकस्थं कारयेत् ।। ०२.७.०२ ।। ततः सर्व-अधिकरणानां करणीयं सिद्धं शेषं आय-व्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ।। ०२.७.०३ ।। उत्तम-मध्यम-अवरेषु च कर्मसु तज्-जातिकं अध्यक्षं कुर्यात् । सामुदयिकेष्ववक्लृप्तिकम्(अवक्ल्प्तिकम्) यं उपहत्य राजा नानुतप्येत ।। ०२.७.०४ ।। सहग्राहिणः प्रतिभुवः कर्म-उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्-छेदं वहेयुः ।। ०२.७.०५ ।। त्रि-शतं चतुः-पञ्चाशत् चाहोरात्राणां कर्म-संवत्सरः ।। ०२.७.०६ ।। तं आषाढी-पर्यवसानं ऊनं पूर्णं वा दद्यात् ।। ०२.७.०७ ।। करण-अधिष्ठितं अधिमासकं कुर्यात् ।। ०२.७.०८ ।। अपसर्प-अधिष्ठितंच प्रचारं ।। ०२.७.०९ ।। प्रचार-चरित्र-संस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति । उत्थान-क्लेश-असहत्वादालस्येन । शब्दादिष्विन्द्रिय-अर्थेषु प्रसक्तः प्रमादेन । संक्रोश-अधर्म-अनर्थ-भीरु-भायेन । कार्य-अर्थिष्वनुग्रह-बुद्धिः कामेन । हिंसा-बुद्धिः कोपेन । विद्या-द्रव्य-वल्लभ-अपाश्रयाद्दर्पेण । तुला-मान-तर्क-गणित-अन्तर-उपधानात् लोभेन ।। ०२.७.१० ।। "तेषां आनुपूर्व्या यावानर्थ-उपघातस्तावानेक-उत्तरो दण्डः" इति मानवाः ।। ०२.७.११ ।। "सर्वत्राष्ट-गुणः" इति पाराशराः ।। ०२.७.१२ ।। "दश-गुणः" इति बार्हस्पत्याः ।। ०२.७.१३ ।। "विंशति-गुणः" इत्यौशनसाः ।। ०२.७.१४ ।। यथा-अपराधं इति कौटिल्यः ।। ०२.७.१५ ।। गाणनिक्यानि आषाढीं आगच्छेयुः ।। ०२.७.१६ ।। आगतानां समुद्र-पुस्तक-भाण्ड-नीवीकानां एकत्र-असम्भाषा-अवरोधं कारयेत् ।। ०२.७.१७ ।। आय-व्यय-नीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत् ।। ०२.७.१८ ।। यच्चाग्रादायस्यान्तर-पर्णे नीव्यां वर्धेत व्ययस्य वा यत्परिहापयेत् । तदष्ट-गुणं अध्यक्षं दापयेत् ।। ०२.७.१९ ।। विपर्यये तं एव प्रति स्यात् ।। ०२.७.२० ।। यथा-कालं अनागतानां अपुस्तक-भाण्ड-नीवीकानां वा देय-दश-बन्धो दण्डः ।। ०२.७.२१ ।। कार्मिके चौपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहस-दण्डः ।। ०२.७.२२ ।। विपर्यये कार्मिकस्य द्वि-गुणः ।। ०२.७.२३ ।। प्रचार-समं महा-मात्राः समग्राः श्रावयेयुरविषम-मन्त्राः ।। ०२.७.२४ ।। पृथग्-भूतो मिथ्या-वादी चएषां उत्तमं दण्डं दद्यात् ।। ०२.७.२५ ।। अकृत-अहो-रूप-हरं मासं आकाङ्क्षेत ।। ०२.७.२६ ।। मासादूर्ध्वं मास-द्विशत-उत्तरं दण्डं दद्यात् ।। ०२.७.२७ ।। अल्प-शेष-लेख्य-नीवीकं पञ्च-रात्रं आकाङ्क्षेत ।। ०२.७.२८ ।। ततः परं कोश-पूर्वं अहो-रूप-हरं धर्म-व्यवहार-चरित्र-संस्थान-संकलन-निर्वर्तन-अनुमान-चार-प्रयोगैरवेक्षेत ।। ०२.७.२९ ।। दिवस-पञ्च-रात्र-पक्ष-मास-चातुर्मास्य-संवत्सरैश्च प्रतिसमानयेत् ।। ०२.७.३० ।। व्युष्ट-देश-काल-मुख-उत्पत्ति-अनुवृत्ति-प्रमाण-दायक-दापक-निबन्धक-प्रतिग्राहकैश्चायं समानयेत् ।। ०२.७.३१ ।। व्युष्ट-देश-काल-मुख-लाभ-कारण-देय-योग-प्रमाण-आज्ञापक-उद्धारक-विधातृक-प्रतिग्राहकैश्च व्ययं समानयेत् ।। ०२.७.३२ ।। व्युष्ट-देश-काल-मुख-अनुवर्तन-रूप-लक्षण-प्रमाण-निक्षेप-भाजन-गोपायकैश्च नीवीं समानयेत् ।। ०२.७.३३ ।। राज-अर्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाआज्ञां निबन्धादाय-व्ययं अन्यथा नीवीं अवलिखतो द्वि-गुणः ।। ०२.७.३४ ।। क्रम-अवहीनं उत्क्रमं अविज्ञातं पुनर्-उक्तं वा वस्तुकं अवलिखतो द्वादश-पणो दण्डः ।। ०२.७.३५ ।। नीवीं अवलिखतो द्वि-गुणः ।। ०२.७.३६ ।। भक्षयतोअष्ट-गुणः ।। ०२.७.३७ ।। नाशयतः पञ्च-बन्धः प्रतिदानं च ।। ०२.७.३८ ।। मिथ्या-वादे स्तेय-दण्डः ।। ०२.७.३९ ।। पश्चात्-प्रतिज्ञाते द्वि-गुणः । प्रस्मृत-उत्पन्ने च ।। ०२.७.४० ।। अपराधं सहेताल्पं तुष्येदल्पेअपि चौदये ।। ०२.७.४१अ ब ।। महा-उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ।। ०२.७.४१च्द् ।।
✦ ✦ ✦
“The chief accountant receives the books of every department on a fixed day. He compares re…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.