Arthashastra. Book 2, Chapter 8: Forty ways to embezzle. Kautilya's audit manual

Book 2 · Chapter 8

The Duties of Government Officials

Forty ways to embezzle. Kautilya's audit manual

कोश-पूर्वाः सर्व-आरम्भाः ।। ०२.८.०१ ।। तस्मात्पूर्वं कोशं अवेक्षेत ।। ०२.८.०२ ।। प्रचार-समृद्धिश्चरित्र-अनुग्रहश्चोर-निग्रहो युक्त-प्रतिषेधः सस्य-सम्पत्पण्य-बाहुल्यं उपसर्ग-प्रमोक्षः परिहार-क्षयो हिरण्य-उपायनं इति कोश-वृद्धिः ।। ०२.८.०३ ।। प्रतिबन्धः प्रयोगो व्यवहारोअवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्चैति कोश-क्षयः ।। ०२.८.०४ ।। सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः ।। ०२.८.०५ ।। तत्र दश-बन्धो दण्डः ।। ०२.८.०६ ।। कोश-द्रव्याणां वृद्धि-प्रयोगाः प्रयोगः ।। ०२.८.०७ ।। पण्य-व्यवहारो व्यवहारः ।। ०२.८.०८ ।। तत्र फल-द्वि-गुणो दण्डः ।। ०२.८.०९ ।। सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वाइत्यवस्तारः ।। ०२.८.१० ।। तत्र पञ्च-बन्धो दण्डः ।। ०२.८.११ ।। क्लृप्तम्(क्ल्प्तम्) आयं परिहापयति व्ययं वा विवर्धयतिइति परिहापणं ।। ०२.८.१२ ।। तत्र हीन-चतुर्-गुणो दण्डः ।। ०२.८.१३ ।। स्वयं अन्यैर्वा राज-द्रव्याणां उपभोजनं उपभोगः ।। ०२.८.१४ ।। तत्र रत्न-उपभोगे घातः । सार-उपभोगे मध्यमः साहस-दण्डः । फल्गु-कुप्य-उपभोगे तच्च तावत् च दण्डः ।। ०२.८.१५ ।। राज-द्रव्याणां अन्य-द्रव्येनऽदानं परिवर्तनं ।। ०२.८.१६ ।। तदुपभोगेन व्याख्यातं ।। ०२.८.१७ ।। सिद्धं आयं न प्रवेशयति । निबद्धं व्ययं न प्रयच्छति । प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः ।। ०२.८.१८ ।। तत्र द्वादश-गुणो दण्डः ।। ०२.८.१९ ।। तेषां हरण-उपायाश्चत्वारिंशत् ।। ०२.८.२० ।। पूर्वं सिद्धं पश्चादवतारितम् । पश्चात्सिद्धं पूर्वं अवतारितम् । साध्यं न सिद्धम् । असाध्यं सिद्धम् । सिद्धं असिद्धं कृतम् । असिद्धं सिद्धं कृतम् । अल्प-सिद्धं बहु कृतम् । बहु-सिद्धं अल्पं कृतम् । अन्यत्सिद्धं अन्यत्कृतम् । अन्यतः सिद्धं अन्यतः कृतम् । ।। ०२.८.२१अ ।। देयं न दत्तम् । अदेयं दत्तम् । काले न दत्तम् । अकाले दत्तम् । अल्पं दत्तं बहु कृतम् । बहु दत्तं अल्पं कृतम् । अन्यद्दत्तं अन्यत्कृतम् । अन्यतो दत्तं अन्यतः कृतम् । ।। ०२.८.२१ब ।। प्रविष्टं अप्रविष्टं कृतम् । अप्रविष्टं प्रविष्टं कृतम् । कुप्यं अदत्त-मूल्यं प्रविष्टम् । दत्त-मूल्यं न प्रविष्टं ।। ०२.८.२१क ।। संक्षेपो विक्षेपः कृतः । विक्षेपः संक्षेपो वा । महा-अर्घं अल्प-अर्घेण परिवर्तितम् । अल्प-अर्घं महा-अर्घेण वा ।। ०२.८.२१ड ।। समारोपितोअर्घः । प्रत्यवरोपितो वा । संवत्सरो मास-विषमः कृतः । मासो दिवस-विषमो वा । समागम-विषमः । मुख-विषमः । कार्मिक-विषमः ।। ०२.८.२१ए ।। निर्वर्तन-विषमः । पिण्ड-विषमः । वर्ण-विषमः । अर्घ-विषमः । मान-विषमः । मापन-विषमः । भाजन-विषमः इति हरण-उपायाः ।। ०२.८.२१फ़् ।। तत्रौपयुक्त-निधायक-निबन्धक-प्रतिग्राहक-दायक-दापक-मन्त्रि-वैयावृत्य-करानेक-एकशोअनुयुञ्जीत ।। ०२.८.२२ ।। मिथ्या-वादे चएषां युक्त-समो दण्डः ।। ०२.८.२३ ।। प्रचारे चावघोषयेत्"अमुना प्रकृतेनौपहताः प्रज्ञापयन्तु" इति ।। ०२.८.२४ ।। प्रज्ञापयतो यथा-उपघातं दापयेत् ।। ०२.८.२५ ।। अनेकेषु चाभियोगेष्वपव्ययमानः सकृदेव पर-उक्तः सर्वं भजेत ।। ०२.८.२६ ।। वैषम्ये सर्वत्रानुयोगं दद्यात् ।। ०२.८.२७ ।। महत्यर्थ-अपहारे चाल्पेनापि सिद्धः सर्वं भजेत ।। ०२.८.२८ ।। कृत-प्रतिघात-अवस्थः सूचको निष्पन्न-अर्थः षष्ठं अंशं लभेत । द्वादशं अंशं भृतकः ।। ०२.८.२९ ।। प्रभूत-अभियोगादल्प-निष्पत्तौ निष्पन्नस्यांशं लभेत ।। ०२.८.३० ।। अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत । न चानुग्राह्यः ।। ०२.८.३१ ।। निष्पत्तौ निक्षिपेद्वादं आत्मानं वाअपवाहयेत् । ।। ०२.८.३२अ ब ।। अभियुक्त-उपजापात्तु सूचको वधं आप्नुयात् ।। ०२.८.३२च्द् ।।

✦ ✦ ✦

There are about forty ways of embezzlement: what is realised earlier is entered later on;
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.