Arthashastra. Book 2, Chapter 9: On supervising officials
Book 2 · Chapter 9
The Duties of Government Officials
On supervising officials
अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ।। ०२.९.०१ ।। कर्मसु चएषां नित्यं परीक्षां कारयेत् । चित्त-अनित्यत्वात् मनुष्यानां ।। ०२.९.०२ ।। अश्व-सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ।। ०२.९.०३ ।। तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं चएषु विद्यात् ।। ०२.९.०४ ।। ते यथा-संदेशं असंहता अविगृहीताः कर्माणि कुर्युः ।। ०२.९.०५ ।। संहता भक्षयेयुः । विगृहीता विनाशयेयुः ।। ०२.९.०६ ।। न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः । अन्यत्रऽपत्-प्रतीकारेभ्यः ।। ०२.९.०७ ।। प्रमाद-स्थानेषु चएषां अत्ययं स्थापयेद्दिवस-वेतन-व्यय-द्वि-गुणं ।। ०२.९.०८ ।। यश्चएषां यथा-आदिष्टं अर्थं सविशेषं वा करोति स स्थान-मानौ लभेत ।। ०२.९.०९ ।। "अल्प-आयतिश्चेत् महा-व्ययो भक्षयति ।। ०२.९.१० ।। विपर्यये यथा-आयति-व्ययश्च न भक्षयति" इत्याचार्याः ।। ०२.९.११ ।। अपसर्पेणएवौपलभ्येतैति कौटिल्यः ।। ०२.९.१२ ।। यः समुदयं परिहापयति स राज-अर्थं भक्षयति ।। ०२.९.१३ ।। स चेदज्ञान-आदिभिः परिहापयति तदेनं यथा-गुणं दापयेत् ।। ०२.९.१४ ।। यः समुदयं द्वि-गुणं उद्भावयति स जन-पदं भक्षयति ।। ०२.९.१५ ।। स चेद्राज-अर्थं उपनयत्यल्प-अपराधे वारयितव्यः । महति यथा-अपराधं दण्डयितव्यः ।। ०२.९.१६ ।। यः समुदयं व्ययं उपनयति स पुरुष-कर्माणि भक्षयति ।। ०२.९.१७ ।। स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा-अपराधं दण्डयितव्यः ।। ०२.९.१८ ।। तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आय-व्ययौ च व्यास-समासाभ्यां आचक्षीत ।। ०२.९.१९ ।। मूल-हर-तादात्विक-कदर्यांश्च प्रतिषेधयेत् ।। ०२.९.२० ।। यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः ।। ०२.९.२१ ।। यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ।। ०२.९.२२ ।। यो भृत्य-आत्म-पीडाभ्यां उपचिनोत्यर्थं स कदर्यः ।। ०२.९.२३ ।। स पक्षवांश्चेदनादेयः । विपर्यये पर्यादातव्यः ।। ०२.९.२४ ।। यो महत्यर्थ-समुदये स्थितः कदर्यः सम्निधत्तेअवनिधत्तेअवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षं आगतिं गतिं च द्रव्याणां उपलभेत ।। ०२.९.२५ ।। यश्चास्य पर-विषये संचारं कुर्यात्तं अनुप्रविश्य मन्त्रं विद्यात् ।। ०२.९.२६ ।। सुविदिते शत्रु-शासन-अपदेशेनएनं घातयेत् ।। ०२.९.२७ ।। तस्मादस्याध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ।। ०२.९.२८ ।। उत्तर-अध्यक्षा हस्ति-अश्व-रथ-आरोहाः ।। ०२.९.२९ ।। तेषां अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनां अपसर्पाः ।। ०२.९.३० ।। बहु-मुख्यं अनित्यं चाधिकरणं स्थापयेत् ।। ०२.९.३१ ।। यथा ह्यनास्वादयितुं न शक्यम् जिह्वा-तलस्थं मधु७ वा विषं वा ।। ०२.९.३२अ ब ।। अर्थस्तथा ह्यर्थ-चरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ।। ०२.९.३२च्द् ।। मत्स्या यथाअन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । ।। ०२.९.३३अ ब ।। युक्तास्तथा कार्य-विधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः ।। ०२.९.३३च्द् ।। अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणां । ।। ०२.९.३४अ ब ।। न तु प्रच्छन्न-भावानां युक्तानां चरतां गतिः ।। ०२.९.३४च्द् ।। आस्रावयेच्चौपचितान्विपर्यस्येच्च कर्मसु । ।। ०२.९.३५अ ब ।। यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ।। ०२.९.३५च्द् ।। न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । ।। ०२.९.३६अ ब ।। नित्य-अधिकाराः कार्यास्ते राज्ञः प्रिय-हिते रताः ।। ०२.९.३६च्द् ।।
✦ ✦ ✦
“Just as it is impossible not to taste honey or poison placed on the tip of the tongue, so…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.