Arthashastra. Book 3, Chapter 1: Which agreements the court will honour

Book 3 · Chapter 1

Concerning Law

Which agreements the court will honour

धर्मस्थास्त्रयस्त्रयोअमात्या जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकानर्थान्कुर्युः ।। ०३.१.०१ ।। तिरोहित-अन्तर्-अगार-नक्त-अरण्य-उपध्य्-उपह्वर-कृतांश्च व्यवहारान्प्रतिषेधयेयुः ।। ०३.१.०२ ।। कर्तुः कारयितुः पूर्वः साहस-दण्डः ।। ०३.१.०३ ।। श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डाः ।। ०३.१.०४ ।। श्रद्धेयानां तु द्रव्य-व्यपनयः ।। ०३.१.०५ ।। परोक्षेणाधिक-ऋण-ग्रहणं अवक्तव्य-करा वा तिरोहिताः सिध्येयुः ।। ०३.१.०६ ।। दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढ-संज्ञानां अन्तर्-अगार-कृताः सिध्येयुः ।। ०३.१.०७ ।। साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणां च रात्रि-कृताः सिध्येयुः ।। ०३.१.०८ ।। सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येष्वरण्य-चराणां अरण्य-कृताः सिध्येयुः ।। ०३.१.०९ ।। गूढ-आजीविषु चौपधि-कृताः सिध्येयुः ।। ०३.१.१० ।। मिथः-समवाये चौपह्वर-कृताः सिध्येयुः ।। ०३.१.११ ।। अतोअन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेनाविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिश्च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ।। ०३.१.१२ ।। तत्रापि क्रुद्धेनऽर्तेन मत्तेन-उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ।। ०३.१.१३ ।। कर्तृ-कारयितृ-श्रोतृऋणां पृथग्यथा-उक्ता दण्डाः ।। ०३.१.१४ ।। स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशा दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ।। ०३.१.१५ ।। पश्चिमं चएषां करणं आदेश-आधिवर्जं श्रद्धेयं इति व्यवहार-स्थापना । ।। ०३.१.१६ ।। संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोर्देश-ग्राम-जाति-गोत्र-नाम-कर्माणि चाभिलिख्य वादि-प्रतिवादि-प्रश्नानर्थ-आनुपूर्व्या निवेशयेत् ।। ०३.१.१७ ।। निविष्टांश्चावेक्षेत ।। ०३.१.१८ ।। निबद्धं वादं उत्सृज्यान्यं वादं संक्रामति । पूर्व-उक्तं पश्चिमेनार्थेन नाभिसंधत्ते । पर-वाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशैत्युक्ते न निर्दिशति । हीन-देशं अदेशं वा निर्दिशति । निर्दिष्टाद्देशादन्यं देशं उपस्थापयति । उपस्थिते देशेअर्थ-वचनं नएवं इत्यपव्ययते । साक्षिभिरवधृतं नैच्छति । ।। ०३.१.१९ ।। ।। असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते । इति परा-उक्त-हेतवः ।। परा-उक्त-दण्डः पञ्च-बन्धः ।। ०३.१.२० ।। स्वयं-वादि-दण्डो दश-बन्धः ।। ०३.१.२१ ।। पुरुष-भृतिरष्ट-अंशः ।। ०३.१.२२ ।। पथि-भक्तं अर्घ-विशेषतः ।। ०३.१.२३ ।। तदुभयं नियम्यो दद्यात् ।। ०३.१.२४ ।। अभियुक्तो न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ।। ०३.१.२५ ।। न चाभियुक्तेअभियोगेअस्ति ।। ०३.१.२६ ।। अभियोक्ता चेत्प्रत्युक्तस्तद्-अहरेव न प्रतिब्रूयात्परा-उक्तः स्यात् ।। ०३.१.२७ ।। कृत-कार्य-विनिश्चयो ह्यभियोक्ता नाभियुक्तः ।। ०३.१.२८ ।। तस्याप्रतिब्रुवतस्त्रि-रात्रं सप्त-रात्रं इति ।। ०३.१.२९ ।। अत ऊर्ध्वं त्रि-पण-अवर-अर्ध्यं द्वादश-पण-परं दण्डं कुर्यात् ।। ०३.१.३० ।। त्रि-पक्षादूर्ध्वं अप्रतिब्रुवतः परा-उक्त-दण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद् । अन्यत्र वृत्त्य्-उपकरणेभ्यः ।। ०३.१.३१ ।। तदेव निष्पततोअभियुक्तस्य कुर्यात् ।। ०३.१.३२ ।। अभियोक्तुर्निष्पात-सम-कालः परा-उक्त-भावः ।। ०३.१.३३ ।। प्रेतस्य व्यसनिनो वा साक्षि-वचनं असारं ।। ०३.१.३४ ।। अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ।। ०३.१.३५ ।। आधिं वा स कामं प्रवेशयेत् ।। ०३.१.३६ ।। रक्षोघ्न-रक्षितं वा कर्मणा प्रतिपादयेद् । अन्यत्र ब्राह्मणात् ।। ०३.१.३७ ।। चतुर्-वर्ण-आश्रमस्यायं लोकस्यऽचार-रक्षणात् । ।। ०३.१.३८अ ब ।। नश्यतां सर्व-धर्माणां राजा धर्म-प्रवर्तकः ।। ०३.१.३८च्द् ।। धर्मश्च व्यवहारश्च चरित्रं राज-शासनं । ।। ०३.१.३९अ ब ।। विवाद-अर्थश्चतुष्पादः पश्चिमः पूर्व-बाधकः ।। ०३.१.३९च्द् ।। तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ।। ०३.१.४०अ ब ।। चरित्रं संग्रहे पुंसां राज्ञां आज्ञा तु शासनं ।। ०३.१.४०च्द् ।। राज्ञः स्व-धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ।। ०३.१.४१अ ब ।। अरक्षितुर्वा क्षेप्तुर्वा मिथ्या-दण्डं अतोअन्यथा ।। ०३.१.४१च्द् ।। दण्डो हि केवलो लोकं परं चैमं च रक्षति । ।। ०३.१.४२अ ब ।। राज्ञा पुत्रे च शत्रौ च यथा-दोषं समं धृतः ।। ०३.१.४२च्द् ।। अनुशासद्द्हि धर्मेण व्यवहारेण संस्थया । ।। ०३.१.४३अ ब ।। न्यायेन च चतुर्थेन चतुर्-अन्तां वा महीं जयेत् ।। ०३.१.४३च्द् ।। संस्था या धर्म-शास्त्रेण शास्त्रं वा व्यावहारिकं । ।। ०३.१.४४अ ब ।। यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ।। ०३.१.४४च्द् ।। शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ।। ०३.१.४५अ ब ।। न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ।। ०३.१.४५च्द् ।। दृष्ट-दोषः स्वयं-वादः स्व-पक्ष-पर-पक्षयोः । ।। ०३.१.४६अ ब ।। अनुयोग-आर्जवं हेतुः शपथश्चार्थ-साधकः ।। ०३.१.४६च्द् ।। पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ।। ०३.१.४७अ ब ।। चार-हस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ।। ०३.१.४७च्द् ।।

✦ ✦ ✦

They shall hold as void agreements entered into in seclusion, inside the houses, in the de
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.