Arthashastra. Book 3, Chapter 10: Trespass, grazing, and stolen water
Book 3 · Chapter 10
Concerning Law
Trespass, grazing, and stolen water
कर्म-उदक-मार्गं उचितं रुन्धतः कुर्वतोअनुचितं वा पूर्वः साहस-दण्डः । सेतु-कूप-पुण्य-स्थान-चैत्य-देव-आयतनानि च पर-भूमौ निवेशयतः ।। ०३.१०.०१ ।। पूर्व-अनुवृत्तं धर्म-सेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस-दण्डः । श्रोतृऋणां उत्तमः । अन्यत्र भग्न-उत्सृष्टात् ।। ०३.१०.०२ ।। स्वाम्यभावे ग्रामाः पुण्य-शीला वा प्रतिकुर्युः ।। ०३.१०.०३ ।। पथि-प्रमाणं दुर्ग-निवेशे व्याख्यातं ।। ०३.१०.०४ ।। क्षुद्र-पशु-मनुष्य-पथं रुन्धतो द्वादश-पणो दण्डः । महा-पशु-पथं चतुर्-विंशति-पणः । हस्ति-क्षेत्र-पथं चतुष्-पञ्चाशत्-पणः । सेतु-वन-पथं षट्-शतः । श्मशान-ग्राम-पथं द्विशतः । द्रोण-मुख-पथं पञ्च-शतः । स्थानीय-राष्ट्र-विवीत-पथं साहस्रः ।। ०३.१०.०५ ।। अतिकर्षणे चएषां दण्ड-चतुर्था दण्डाः ।। ०३.१०.०६ ।। कर्षणे पूर्व-उक्ताः ।। ०३.१०.०७ ।। क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीज-काले द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१०.०८ ।। करदाः करदेष्वाधानं विक्रयं वा कुर्युः । ब्रह्म-देयिका ब्रह्म-देयिकेषु ।। ०३.१०.०९ ।। अन्यथा पूर्वः साहस-दण्डः ।। ०३.१०.१० ।। करदस्य वाअकरद-ग्रामं प्रविशतः ।। ०३.१०.११ ।। करदं तु प्रविशतः सर्व-द्रव्येषु प्राकाम्यं स्यात् । अन्यत्रागारात् ।। ०३.१०.१२ ।। तदप्यस्मै दद्यात् ।। ०३.१०.१३ ।। अनादेयं अकृषतोअन्यः पञ्च-वर्षाण्युपभुज्य प्रयास-निष्क्रयेण दद्यात् ।। ०३.१०.१४ ।। अकरदाः परत्र वसन्तो भोगं उपजीवेयुः ।। ०३.१०.१५ ।। ग्राम-अर्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः ।। ०३.१०.१६ ।। अननुगच्छन्तः पण-अर्ध-पणिकं योजनं दद्युः ।। ०३.१०.१७ ।। ग्रामिकस्य ग्रामादस्तेन-पारदारिकं निरस्यतश्चतुर्-विंशति-पणो दण्डः । ग्रामस्यौत्तमः ।। ०३.१०.१८ ।। निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः ।। ०३.१०.१९ ।। स्तम्भैः समन्ततो ग्रामाद्धनुः-शत-अपकृष्टं उपसालं कारयेत् ।। ०३.१०.२० ।। पशु-प्रचार-अर्थं विवीतं आलवनेनौपजीवेयुः ।। ०३.१०.२१ ।। विवीतं भक्षयित्वाअपसृतानां उष्ट्र-महिषाणां पादिकं रूपं गृह्णीयुः । गव-अश्व-खराणां चार्ध-पादिकम् । क्षुद्र-पशूनां षोडश-भागिकं ।। ०३.१०.२२ ।। भक्षयित्वा निषण्णानां एत एव द्वि-गुणा दण्डाः । परिवसतां चतुर्-गुणाः ।। ०३.१०.२३ ।। ग्राम-देव-वृषा वाअनिर्दश-अहा वा धेनुरुक्षाणो गो-वृषाश्चादण्ड्याः ।। ०३.१०.२४ ।। सस्य-भक्षणे सस्य-उपघातं निष्पत्तितः परिसंख्याय द्वि-गुणं दापयेत् ।। ०३.१०.२५ ।। स्वामिनश्चानिवेद्य चारयतो द्वादश-पणो दण्दः । प्रमुञ्चतश्चतुर्-विंशति-पणः ।। ०३.१०.२६ ।। पालिनां अर्ध-दण्डाः ।। ०३.१०.२७ ।। तदेव षण्ड-भक्षणे कुर्यात् ।। ०३.१०.२८ ।। वाट-भेदे द्वि-गुणः वेश्म-खल-वलय-गतानां च धान्यानां भक्षणे ।। ०३.१०.२९ ।। हिंसा-प्रतीकारं कुर्यात् ।। ०३.१०.३० ।। अभय-वन-मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाअवध्यास्तथा प्रतिषेद्धव्याः ।। ०३.१०.३१ ।। पशवो रश्मि-प्रतोदाभ्यां वारयितव्याः ।। ०३.१०.३२ ।। तेषां अन्यथा हिंसायां दण्ड-पारुष्य-दण्डाः ।। ०३.१०.३३ ।। प्रार्थयमाना दृष्ट-अपराधा वा सर्व-उपायैर्नियन्तव्याः इति क्षेत्र-पथ-हिंसा । ।। ०३.१०.३४ ।। कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ।। ०३.१०.३५ ।। कर्म-अकरणे कर्म-वेतन-द्वि-गुणम् । हिरण्य-अदाने प्रत्यंश-द्वि-गुणम् । भक्ष्य-पेय-अदाने च प्रहवणेषु द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३६ ।। प्रेक्षायां अनंशदः । सस्व-जनो न प्रेक्षेत ।। ०३.१०.३७ ।। प्रच्छन्न-श्रवण-ईक्षणे च सर्व-हिते च कर्मणि निग्रहेण द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३८ ।। सर्व-हितं एकस्य ब्रुवतः कुर्युराज्ञां ।। ०३.१०.३९ ।। अकरणे द्वादश-पणो दण्डः ।। ०३.१०.४० ।। तं चेत्सम्भूय वा हन्युः पृथगेषां अपराध-द्वि-गुणो दण्डः ।। ०३.१०.४१ ।। उपहन्तृषु विशिष्टः ।। ०३.१०.४२ ।। ब्राह्मणश्चएषां ज्यैष्ठ्यं नियम्येत ।। ०३.१०.४३ ।। प्रहवणेषु चएषां ब्राह्मणा नाकामाः कुर्युः । अंशं च लभेरन् ।। ०३.१०.४४ ।। तेन देश-जाति-कुल-संघानां समयस्यानपाकर्म व्याख्यातं ।। ०३.१०.४५ ।। राजा देश-हितान्सेतून्कुर्वतां पथि संक्रमान् । ।। ०३.१०.४६अ ब ।। ग्राम-शोभाश्च रक्षाश्च तेषां प्रिय-हितं चरेत् ।। ०३.१०.४६च्द् ।।
✦ ✦ ✦
“Where one farmer's cattle stray into another's field, the damage is to be assessed and pai…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.