Arthashastra. Book 3, Chapter 11: Witnesses, oaths, and how the court tells truth from lies
Book 3 · Chapter 11
Concerning Law
Witnesses, oaths, and how the court tells truth from lies
सपाद-पणा धर्म्या मास-वृद्धिः पण-शतस्य । पञ्च-पणा व्यावहारिकी । दश-पणा कान्तारगाणाम् । विंशति-पणा सामुद्राणां ।। ०३.११.०१ ।। ततः परं कर्तुः कारयितुश्च पूर्वः साहस-दण्डः । श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डः ।। ०३.११.०२ ।। राजन्ययोग-क्षेम-आवहे तु धनिक-धारणिकयोश्चरित्रं अवेक्षेत ।। ०३.११.०३ ।। धान्य-वृद्धिः सस्य-निष्पत्तावुपार्धा । परं मूल्य-कृता वर्धेत ।। ०३.११.०४ ।। प्रक्षेप-वृद्धिरुदयादर्धं सम्निधान-सन्ना वार्षिकी देया ।। ०३.११.०५ ।। चिर-प्रवासः स्तम्भ-प्रविष्टो वा मूल्य-द्वि-गुणं दद्यात् ।। ०३.११.०६ ।। अकृत्वा वृद्धिं साधयतो वर्धयतो वा । मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्ध-चतुर्-गुणो दण्डः ।। ०३.११.०७ ।। तुच्छ-श्रावणायां अभूत-चतुर्-गुणः ।। ०३.११.०८ ।। तस्य त्रि-भागं आदाता दद्यात् । शेषं प्रदाता ।। ०३.११.०९ ।। दीर्घ-सत्त्र-व्याधि-गुरु-कुल-उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत ।। ०३.११.१० ।। मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादश-पणो दण्डः ।। ०३.११.११ ।। कारण-अपदेशेन निवृत्त-वृद्धिकं अन्यत्र तिष्ठेत् ।। ०३.११.१२ ।। दश-वर्ष-उपेक्षितं ऋणं अप्रतिग्राह्यम् । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.११.१३ ।। प्रेतस्य पुत्राः कुसीदं दद्युः । दायादा वा रिक्थ-हराः । सह-ग्राहिणः । प्रतिभुवो वा ।। ०३.११.१४ ।। न प्रातिभाव्यं अन्यत् ।। ०३.११.१५ ।। असारं बाल-प्रातिभाव्यं ।। ०३.११.१६ ।। असंख्यात-देश-कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ।। ०३.११.१७ ।। जीवित-विवाह-भूमि-प्रातिभाव्यं असंख्यात-देश-कालं तु पुत्राः पौत्रा वा वहेयुः ।। ०३.११.१८ ।। नानाऋण-समवाये तु नएकं द्वौ युगपदभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् ।। ०३.११.१९ ।। तत्रापि गृहीत-आनुपूर्व्या राज-श्रोत्रिय-द्रव्यं वा पूर्वं प्रतिपादयेत् ।। ०३.११.२० ।। दम्पत्योः पिता-पुत्रयोः भ्रातृऋणां चाविभक्तानां परस्पर--कृतं ऋणं असाध्यं ।। ०३.११.२१ ।। अग्राह्याः कर्म-कालेषु कर्षका राज-पुरुषाश्च ।। ०३.११.२२ ।। स्त्री चाप्रतिश्राविणी पति-कृतं ऋणम् । अन्यत्र गो-पालक-अर्ध-सीतिकेभ्यः ।। ०३.११.२३ ।। पतिस्तु ग्राह्यः स्त्री-कृतं ऋणम् । अप्रति-विधाय प्रोषित इति ।। ०३.११.२४ ।। सम्प्रतिपत्तावुत्तमः ।। ०३.११.२५ ।। अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोअनुमता वा त्रयोअवर-अर्ध्याः ।। ०३.११.२६ ।। पक्ष-अनुमतौ वा द्वौ । ऋणं प्रति न त्वेवएकः ।। ०३.११.२७ ।। प्रतिषिद्धाः स्याल-सहाय-अन्वर्थि-धनिक-धारणिक-वैरि-न्यङ्ग-धृत-दण्डाः । पूर्वे चाव्यवहार्याः ।। ०३.११.२८ ।। राज-श्रोत्रिय-ग्राम-भृतक-कुष्ठि-व्रणिनः पतित-चण्डाल-कुत्सित-कर्माणोअन्ध-बधिर-मूक-अहं-वादिनः स्त्री-राज-पुरुषाश्च । अन्यत्र स्व-वर्गेभ्यः ।। ०३.११.२९ ।। पारुष्य-स्तेय-संग्रहणेषु तु वैरि-स्याल-सहाय-वर्जाः ।। ०३.११.३० ।। रहस्य-व्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राज-तापस-वर्जं ।। ०३.११.३१ ।। स्वामिनो भृत्यानां ऋत्विग्-आचार्याः शिष्याणां माता-पितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः । तेसां इतरे वा ।। ०३.११.३२ ।। परस्पर-अभियोगे चएषां उत्तमाः परा-उक्ता दश-बन्धं दद्युः । अवराः पञ्च-बन्धं इति साक्ष्य्-अधिकारः ।। ०३.११.३३ ।। ब्राह्मण-उद-कुम्भ-अग्नि-सकाशे साक्षिणः परिगृह्णीयात् ।। ०३.११.३४ ।। तत्र ब्राह्मणं ब्रूयात्"सत्यं ब्रूहि" इति ।। ०३.११.३५ ।। राजन्यं वैश्यं वा "मा तवैष्टा-पूर्त-फलम् । कपाल-हस्तः शत्रु-कुलं भिक्षा-अर्थी गच्छेः" इति ।। ०३.११.३६ ।। शूद्रं "जन्म-मरण-अन्तरे यद्वः पुण्य-फलं तद्राजानं गच्छेद् । राज्ञश्च किल्बिषं युष्मानन्यथा-वादे । दण्डश्चानुबद्धः । पश्चादपि ज्ञायेत यथा-दृष्ट-श्रुतम् । एक-मन्त्राः सत्यं उपहरत" इति ।। ०३.११.३७ ।। अनुपहरतां सप्त-रात्रादूर्ध्वं द्वादश-पणो दण्डः । त्रि-पक्षादूर्ध्वं अभियोगं दद्युः ।। ०३.११.३८ ।। साक्षि-भेदे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः ।। ०३.११.३९ ।। तद्वा द्रव्यं राजा हरेत् ।। ०३.११.४० ।। साक्षिणश्चेदभियोगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् ।। ०३.११.४१ ।। अतिरिक्तं वा ब्रूयुस्तद्-अतिरिक्तं राजा हरेत् ।। ०३.११.४२ ।। बालिश्यादभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेत-अभिनिवेशं वा समीक्ष्य साक्षि-प्रत्ययं एव स्यात् ।। ०३.११.४३ ।। "साक्षि-बालिष्येष्वेव पृथग्-अनुयोगे देश-काल-कार्याणां पूर्व-मध्यम-उत्तमा दण्डाः" इत्यौशनसाः ।। ०३.११.४४ ।। "कूट-साक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुस्तद्दश-गुणं दण्डं दद्युः" इति मानवाः ।। ०३.११.४५ ।। "बालिश्याद्वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः ।। ०३.११.४६ ।। नैति कौटिल्यः ।। ०३.११.४७ ।। ध्रुवं हि साक्षिभिः श्रोतव्यं ।। ०३.११.४८ ।। अशृण्वतां चतुर्-विंशति-पणो दण्डः । ततोअर्धं अब्रुवाणानां ।। ०३.११.४९ ।। देश-काल-अविदूरस्थान्साक्षिणः प्रतिपादयेत् । ।। ०३.११.५०अ ब ।। दूरस्थानप्रसारान्वा स्वामि-वाक्येन साधयेत् ।। ०३.११.५०च्द् ।।
✦ ✦ ✦
“It is obligatory to produce three witnesses who are reliable, honest and respected. At lea…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.