Arthashastra. Book 3, Chapter 12: Deposits. What the keeper owes the owner

Book 3 · Chapter 12

Concerning Law

Deposits. What the keeper owes the owner

उपनिधिरृणेन व्याख्यातः ।। ०३.१२.०१ ।। पर-चक्र-आटविकाभ्यां दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैर्वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्न्य्-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायां मुषितायां वा स्वयं उपरूढो नौपनिधिं अभ्यावहेत् ।। ०३.१२.०२ ।। उपनिधि-भोक्ता देश-काल-अनुरूपं भोग-वेतनं दद्यात् । द्वादश-पणं च दण्डं ।। ०३.१२.०३ ।। उपभोग-निमित्तं नष्टं विनष्टं वाअभ्यावहेत् । चतुर्-विंशति-पणश्च दण्डः । अन्यथा वा निष्पतने ।। ०३.१२.०४ ।। प्रेतं व्यसन-गतं वा नौपनिधिं अभ्यावहेत् ।। ०३.१२.०५ ।। आधान-विक्रय-अपव्ययनेषु चास्य चतुर्-गुण-पञ्च-बन्धो दण्डः ।। ०३.१२.०६ ।। परिवर्तने निष्पातने वा मूल्य-समः ।। ०३.१२.०७ ।। तेनऽधि-प्रणाश-उपभोग-विक्रय-आधान-अपहारा व्याख्याताः ।। ०३.१२.०८ ।। नऽधिः सौपकारः सीदेत् । न चास्य मूल्यं वर्धेत । अन्यत्र निसर्गात् ।। ०३.१२.०९ ।। निरुपकारः सीदेत् । मूल्यं चास्य वर्धेत ।। ०३.१२.१० ।। उपस्थितस्यऽधिं अप्रयच्छतो द्वादशण्पणो दण्डः ।। ०३.१२.११ ।। प्रयोजक-असम्निधाने वा ग्राम-वृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत ।। ०३.१२.१२ ।। निवृत्त-वृद्धिको वाआधिस्तत्-काल-कृत-मूल्यस्तत्रएवावतिष्ठेत । अनाश-विनाश-करण-अधिष्ठितो वा ।। ०३.१२.१३ ।। धारणिक-असम्निधाने वा विनाश-भयादुद्गत-अर्घं धर्मस्थ-अनुज्ञातो विक्रीणीत । आधि-पाल-प्रत्ययो वा ।। ०३.१२.१४ ।। स्थावरस्तु प्रयास-भोग्यः फल-भोग्यो वा प्रक्षेप-वृद्धि-मूल्य-शुद्धं आजीवं अमूल्य-क्षयेणौपनयेत् ।। ०३.१२.१५ ।। अनिसृष्ट-उपभोक्ता मूल्य-शुद्धं आजीवं बन्धं च दद्यात् ।। ०३.१२.१६ ।। शेषं उपनिधिना व्याख्यातं ।। ०३.१२.१७ ।। एतेनऽदेशोअन्वाधिश्च व्याख्यातौ ।। ०३.१२.१८ ।। सार्थेनान्वाधि-हस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न-उत्सृष्टो वा नान्वाधिं अभ्यावहेत् ।। ०३.१२.१९ ।। अन्तरे वा मृतस्य दायादोअपि नाभ्यावहेत् ।। ०३.१२.२० ।। शेषं उपनिधिना व्यकह्यातं ।। ०३.१२.२१ ।। याचितकं अवक्रीतकं वा यथा-विधं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०३.१२.२२ ।। भ्रेष-उपनिपाताभ्यां देश-काल-उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः ।। ०३.१२.२३ ।। शेषं उपनिधिना व्याख्यातं ।। ०३.१२.२४ ।। वैयावृत्य-विक्रयस्तु वैयावृत्य-करा यथा-देश-कालं विक्रीणानाः पण्यं यथा-जातं मूल्यं उदयं च दद्युः ।। ०३.१२.२५ ।। देश-काल-अतिपातने वा परिहीणं सम्प्रदान-कालिकेनार्घेण मूल्यं उदयं च दद्युः ।। ०३.१२.२६ ।। यथा-सम्भाषितं वा विक्रीणाना नौदयं अधिगच्छेयुः । मूल्यं एव दद्युः ।। ०३.१२.२७ ।। अर्घ-पतने वा परिहीणं यथा-परिहीणं मूल्यं ऊनं दद्युः ।। ०३.१२.२८ ।। सांव्यवहारिकेषु वा प्रात्ययिकेष्वराज-वाच्येषु भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः ।। ०३.१२.२९ ।। देश-काल-अन्तरितानां तु पण्यानां क्षय-व्यय-विशुद्धं मूल्यं उदयं च दद्युः । पण्य-समवायानां च प्रत्यंशं ।। ०३.१२.३० ।। शेषं उपनिधिना व्याख्यातं ।। ०३.१२.३१ ।। एतेन वैयावृत्य-विक्रयो व्याख्यातः ।। ०३.१२.३२ ।। निक्षेपश्चौपनिधिना ।। ०३.१२.३३ ।। तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत ।। ०३.१२.३४ ।। निक्षेप-अपहारे पूर्व-अपदानं निक्षेप्तारश्च प्रमाणं ।। ०३.१२.३५ ।। अशुचयो हि कारवः ।। ०३.१२.३६ ।। नएषां करण-पूर्वो निक्षेप-धर्मः ।। ०३.१२.३७ ।। करण-हीनं निक्षेपं अपव्ययमानं गूढ-भित्ति-न्यस्तान्साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत् । वन-अन्ते वा मद्य-प्रहवण-विश्वासेन ।। ०३.१२.३८ ।। रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत् ।। ०३.१२.३९ ।। तस्य प्रतिदेशेन पुत्रो भ्राता वाअभिगम्य निक्षेपं याचेत ।। ०३.१२.४० ।। दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४१ ।। प्रव्रज्या-अभिमुखो वा श्रद्धेयः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत ।। ०३.१२.४२ ।। ततः काल-अन्तर-आगतो याचेत ।। ०३.१२.४३ ।। दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४४ ।। कृत-लक्षणेन वा द्रव्येण प्रत्यानयेदेनं ।। ०३.१२.४५ ।। बालिश-जातीयो वा रात्रौ राज-दायिका-क्षण-भीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत् ।। ०३.१२.४६ ।। स एनं बन्धन-अगार-गतो याचेत ।। ०३.१२.४७ ।। दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४८ ।। अभिज्ञानेन चास्य गृहे जनं उभयं याचेत ।। ०३.१२.४९ ।। अन्यतर्त-आदाने यथा-उक्तं पुरस्तात् ।। ०३.१२.५० ।। द्रव्य-भोगानां आगमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्यवहार-उपलिङ्गनम् । अभियोक्तुश्चार्थ-सामर्थ्यं ।। ०३.१२.५१ ।। एतेन मिथः-समवायो व्याख्यातः ।। ०३.१२.५२ ।। तस्मात्साक्षिमदच्छन्नं कुर्यात्सम्यग्-विभाषितं । ।। ०३.१२.५३अ ब ।। स्वे परे वा जने कार्यं देश-काल-अग्र-वर्णतः ।। ०३.१२.५३च्द् ।।

✦ ✦ ✦

Property handed over for safekeeping does not change owner. The keeper is a guardian, not
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.