Arthashastra. Book 3, Chapter 13: Slaves and labourers. The limits of bondage
Book 3 · Chapter 13
Concerning Law
Slaves and labourers. The limits of bondage
उदर-दास-वर्जं आर्य-प्राणं अप्राप्त-व्यवहारं शूद्रं विक्रय-आधानं नयतः स्व-जनस्य द्वादश-पणो दण्डः । वैश्यं द्वि-गुणः । क्षत्रियं त्रि-गुणः । ब्राह्मणं चतुर्-गुणः ।। ०३.१३.०१ ।। पर-जनस्य पूर्व-मध्यम-उत्तम-वधा दण्डाः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.०२ ।। म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा ।। ०३.१३.०३ ।। न त्वेवऽर्यस्य दास-भावः ।। ०३.१३.०४ ।। अथवाआर्यं आधाय कुल-बन्धन आर्याणां आपदि । निष्क्रयं चाधिगम्य बालं साहाय्य-दातारं वा पूर्वं निष्क्रीणीरन् ।। ०३.१३.०५ ।। सकृद्-आत्म-आधाता निष्पतितः सीदेत् । द्विरन्येनऽहितकः । सकृदुभौ पर-विषय-अभिमुखौ ।। ०३.१३.०६ ।। वित्त-अपहारिणो वा दासस्यऽर्य-भावं अपहरतोअर्ध-दण्डः ।। ०३.१३.०७ ।। निष्पतित-प्रेत-व्यसनिनां आधाता मूल्यं भजेत ।। ०३.१३.०८ ।। प्रेत-विण्-मूत्र-उच्छिष्ट-ग्राहणं आहितस्य नग्न-स्नापनं दण्ड-प्रेषणं अतिक्रमणं च स्त्रीणां मूल्य-नाश-करं । धात्री-परिचारिक-अर्ध-सीतिक-उपचारिकाणां च मोक्ष-करं ।। ०३.१३.०९ ।। सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणं ।। ०३.१३.१० ।। धात्रीं आहितिकां वाअकामां स्व-वशां गच्छतः पूर्वः साहस-दण्डः । पर-वशां मध्यमः ।। ०३.१३.११ ।। कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्य-नाशः शुल्कं तद्-द्वु-गुणश्च दण्डः ।। ०३.१३.१२ ।। आत्म-विक्रयिणः प्रजां आर्यां विद्यात् ।। ०३.१३.१३ ।। आत्म-अधिगतं स्वामि-कर्म-अविरुद्धं लभेत । पित्र्यं च दायं ।। ०३.१३.१४ ।। मूल्येन चऽर्यत्वं गच्छेत् ।। ०३.१३.१५ ।। तेनौदर-दास-आहितकौ व्याख्यातौ ।। ०३.१३.१६ ।। प्रक्षेप-अनुरूपश्चास्य निष्क्रयः ।। ०३.१३.१७ ।। दण्ड-प्रणीतः कर्मणा दण्डं उपनयेत् ।। ०३.१३.१८ ।। आर्य-प्राणो ध्वज-आहृतः कर्म-काल-अनुरूपेण मूल्य-अर्धेन वा विमुच्येत ।। ०३.१३.१९ ।। गृहे-जात-दाय-आगत-लब्ध-क्रीतानां अन्यतमं दासं ऊन-अष्ट-वर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहित-गर्भ-भर्मण्यां विक्रय-आधानं नयतः पूर्वः साहस-दण्डः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.२० ।। दासं अनुरूपेण निष्क्रयेणऽर्यं अकुर्वतो द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१३.२१ ।। दास-द्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ।। ०३.१३.२२ ।। स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात् ।। ०३.१३.२३ ।। गृह्या चेत्कुटुम्ब-अर्थ-चिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः ।। ०३.१३.२४ ।। दासं दासीं वा निष्क्रीय पुनर्विक्रय-आधानं नयतो द्वादश-पणो दण्डः । अन्यत्र स्वयं-वादिभ्यः इति दास-कल्पः । ।। ०३.१३.२५ ।। कर्म-करस्य कर्म-सम्बन्धं आसन्ना विद्युः ।। ०३.१३.२६ ।। यथा-सम्भाषितं वेतनं लभेत । कर्म-काल-अनुरूपं असम्भाषित-वेतनः ।। ०३.१३.२७ ।। कर्षकः सस्यानां गो-पालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दश-भागं असम्भाषित-वेतनो लभेत ।। ०३.१३.२८ ।। सम्भाषित-वेतनस्तु यथा-सम्भाषितं ।। ०३.१३.२९ ।। कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-परिचारक-आदिराशा-कारिक-वर्गस्तु यथाअन्यस्तद्-विधः कुर्याद्यथा वा कुशलाः कल्पयेयुस्तथा वेतनं लभेत ।। ०३.१३.३० ।। साक्षि-प्रत्ययं एव स्यात् ।। ०३.१३.३१ ।। साक्षिणां अभावे यतः कर्म ततोअनुयुञ्जीत ।। ०३.१३.३२ ।। वेतन-आदाने दश-बन्धो दण्डः । षट्-पणो वा ।। ०३.१३.३३ ।। अपव्ययमाने द्वादश-पणो दण्डः । पञ्च-बन्धो वा ।। ०३.१३.३४ ।। नदी-वेग-ज्वाला-स्तेन-व्याल-उपरुद्धः सर्व-स्व-पुत्र-दार-आत्म-दानेनऽर्तस्त्रातारं आहूय निष्तीर्णः कुशल-प्रदिष्टं वेतनं दद्यात् ।। ०३.१३.३५ ।। तेन सर्वत्रऽर्त-दान-अनुशया व्याख्याताः ।। ०३.१३.३६ ।। लभेत पुंश्चली भोगं संगमस्यौपलिङ्गनात् । ।। ०३.१३.३७अ ब ।। अतियाच्ना तु जीयेत दौर्मत्य-अविनयेन वा ।। ०३.१३.३७च्द् ।।
✦ ✦ ✦
“But never shall an Arya be subjected to slavery. But if in order to tide over family troub…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.