Arthashastra. Book 3, Chapter 14: Pledges held in trust, not in private use
Book 3 · Chapter 14
Concerning Law
Pledges held in trust, not in private use
गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१४.०१ ।। अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाअनुशयं लभेत । परेण वा कारयितुं ।। ०३.१४.०२ ।। तस्य-व्यय-कर्मणा लभेत भर्ता वा कारयितुं ।। ०३.१४.०३ ।। "नान्यस्त्वया कारयितव्यो । मया वा नान्यस्य कर्तव्यम्" इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादश-पणो दण्डः ।। ०३.१४.०४ ।। कर्म-निष्ठापने भर्तुरन्यत्र गृहीत-वेतनो नासकामः कुर्यात् ।। ०३.१४.०५ ।। "उपस्थितं अकारयतः कृतं एव विद्याद्" इत्याचार्याः ।। ०३.१४.०६ ।। नैति कौटिल्यः ।। ०३.१४.०७ ।। कृतस्य वेतनं नाकृतस्यास्ति ।। ०३.१४.०८ ।। स चेदल्पं अपि कारयित्वा न कारयेत्कृतं एवास्य विद्यात् ।। ०३.१४.०९ ।। देश-काल-अतिपातनेन कर्मणां अन्यथा-करणे वा नासकामः कृतं अनुमन्येत ।। ०३.१४.१० ।। सम्भाषितादधिक-क्रियायां प्रयासं न मोघं कुर्यात् ।। ०३.१४.११ ।। तेन संघ-भृता व्याख्याताः ।। ०३.१४.१२ ।। तेषां आधिः सप्त-रात्रं आसीत ।। ०३.१४.१३ ।। ततोअन्यं उपस्थापयेत् । कर्म-निष्पाकं च ।। ०३.१४.१४ ।। न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ।। ०३.१४.१५ ।। तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.१४.१६ ।। संघेन परिहृतस्यार्ध-दण्डः इति भृतक-अधिकारः ।। ०३.१४.१७ ।। संघ-भृताः सम्भूय-समुत्थातारो वा यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.१८ ।। कर्षण-वैदेहका वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा-कृतस्य कर्मणः प्रत्यंशं दद्युः ।। ०३.१४.१९ ।। पुरुष-उपस्थाने समग्रं अंशं दद्युः ।। ०३.१४.२० ।। संसिद्धे तुउद्धृत-पण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः ।। ०३.१४.२१ ।। सामान्या हि पथि-सिद्धिश्चासिद्धिश्च ।। ०३.१४.२२ ।। प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादश-पणो दण्डः ।। ०३.१४.२३ ।। न च प्राकाम्यं अपक्रमणे ।। ०३.१४.२४ ।। चोरं त्वभय-पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद् । दद्यात्प्रत्यंशं अभयं च ।। ०३.१४.२५ ।। पुनः-स्तेये प्रवासनम् । अन्यत्र-गमने च ।। ०३.१४.२६ ।। महा-अपराधे तु दूष्यवदाचरेत् ।। ०३.१४.२७ ।। याजकाः स्वा-प्रचार-द्रव्य-वर्जं यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.२८ ।। अग्निष्टोम-आदिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयं अंशं । मध्यम-उपसद ऊर्ध्वं अर्धं अंशं । सुत्ये प्रातः-सवनादूर्ध्वं पाद-ऊनं अंशं ।। ०३.१४.२९ ।। माध्यन्दिनात्सवनादूर्ध्वं समग्रं अंशं लभेत ।। ०३.१४.३० ।। नीता हि दक्षिणा भवन्ति ।। ०३.१४.३१ ।। बृहस्पति-सव-वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ।। ०३.१४.३२ ।। तेनाहर्-गण-दक्षिणा व्याख्याताः ।। ०३.१४.३३ ।। सनानां आ-दश-अहो-रात्रात्शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ।। ०३.१४.३४ ।। कर्मण्यसमाप्ते तु यजमानः सीदेद् । ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ।। ०३.१४.३५ ।। असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस-दण्डः ।। ०३.१४.३६ ।। अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ।। ०३.१४.३७अ ब ।। सुरापो वृषली-भर्ता ब्रह्महा गुरु-तल्पगः ।। ०३.१४.३७च्द् ।। असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ।। ०३.१४.३८अ ब ।। अदोषस्त्यक्तुं अन्योन्यं कर्म-संकर-निश्चयात् ।। ०३.१४.३८च्द् ।।
✦ ✦ ✦
“An article handed over as pledge or deposit is held in trust by the receiver. He may not u…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.