Arthashastra. Book 3, Chapter 16: Wages owed, wages denied

Book 3 · Chapter 16

Concerning Law

Wages owed, wages denied

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातं ।। ०३.१६.०१ ।। दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत ।। ०३.१६.०२ ।। सर्व-स्वं पुत्र-दारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत् ।। ०३.१६.०३ ।। धर्म-दानं असाधुषु कर्मसु चाउपघातिकेषु वा । अर्थ-दानं अनुपकारिष्वपकारिषु वा । काम-दानं अनर्हेषु च ।। ०३.१६.०४ ।। यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः ।। ०३.१६.०५ ।। दण्ड-भयादाक्रोश-भयादनर्थ-भयाद्वा भय-दानं प्रतिगृह्णतः स्तेय-दण्डः । प्रयच्छतश्च ।। ०३.१६.०६ ।। रोष-दानं पर-हिंसायां । राज्ञां उपरि दर्प-दानं च ।। ०३.१६.०७ ।। तत्रौत्तमो दण्डः ।। ०३.१६.०८ ।। प्रातिभाव्यं दण्ड-शुल्क-शेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थ-हरो दद्यात् इति दत्तस्यानपाकर्म । ।। ०३.१६.०९ ।। अस्वामि-विक्रयस्तु नष्ट-अपहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ।। ०३.१६.१० ।। देश-काल-अतिपत्तौ वा स्वयं गृहीत्वाउपहरेत् ।। ०३.१६.११ ।। धर्मस्थश्च स्वामिनं अनुयुञ्जीत "कुतस्ते लब्धम्" इति ।। ०३.१६.१२ ।। स चेदाचार-क्रमं दर्शयेत । न विक्रेतारं । तस्य द्रव्यस्यातिसर्गेण मुच्येत ।। ०३.१६.१३ ।। विक्रेता चेद्दृश्येत । मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१४ ।। स चेदपसारं अधिगच्छेदपसरेदा-अपसार-क्षयात् ।। ०३.१६.१५ ।। क्षये मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१६ ।। नाष्टिकश्च स्व-करणं कृत्वा नष्ट-प्रत्याहृतं लभेत ।। ०३.१६.१७ ।। स्व-करण-अभावे पञ्च-बन्धो दण्डः ।। ०३.१६.१८ ।। तच्च द्रव्यं राज-धर्म्यं स्यात् ।। ०३.१६.१९ ।। नष्ट-अपहृतं अनिवेद्यौत्कर्षतः स्वामिनः पूर्वः साहस-दण्डः ।। ०३.१६.२० ।। शुल्क-स्थाने नष्ट-अपहृत-उत्पन्नं तिष्ठेत् ।। ०३.१६.२१ ।। त्रि-पक्षादूर्ध्वं अनभिसारं राजा हरेत् । स्वामी वा स्व-करणेन ।। ०३.१६.२२ ।। पञ्च-पणिकं द्विपद-रूपस्य निष्क्रयं दद्यात् । चतुष्पणिकं एक-खुरस्य । द्विपणिकं गोमहिषस्य । पादिकं क्षुद्र-पशूनां ।। ०३.१६.२३ ।। रत्न-सार-फल्गु-कुप्यानां पञ्चकं शतं दद्यात् ।। ०३.१६.२४ ।। पर-चक्र-अटवी-हृतं तु प्रत्यानीय राजा यथा-स्वं प्रयच्छेत् ।। ०३.१६.२५ ।। चोर-हृतं अविद्यमानं स्व-द्रव्येभ्यः प्रयच्छेत् । प्रत्यानेतुं अशक्तो वा ।। ०३.१६.२६ ।। स्वयं-ग्राहेणऽहृतं प्रत्यानीय तन्-निष्क्रयं वा प्रयच्छेत् ।। ०३.१६.२७ ।। पर-विषयाद्वा विक्रमेणऽनीतं यथा-प्रदिष्टं राज्ञा भुञ्जीत । अन्यत्रऽर्य-प्राणेभ्यो देव-ब्राह्मण-तपस्वि-द्रव्येभ्यश्च इत्यस्वामि-विक्रयः । ।। ०३.१६.२८ ।। स्व-स्वामि-सम्बन्धस्तु भोग-अनुवृत्तिरुच्छिन्न-देशानां यथा-स्वं द्रव्याणां ।। ०३.१६.२९ ।। यत्स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत । हीयेतास्य । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.१६.३० ।। विंशति-वर्ष-उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत ।। ०३.१६.३१ ।। ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ पर-वास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राज-श्रोत्रिय-द्रव्याणि च ।। ०३.१६.३२ ।। आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः ।। ०३.१६.३३ ।। अल्पां बाधां सहेरन् ।। ०३.१६.३४ ।। पूर्व-आगतो वा वास-पर्यायं दद्यात् ।। ०३.१६.३५ ।। अप्रदाता निरस्येत ।। ०३.१६.३६ ।। वानप्रस्थ-यति-ब्रह्म-चारिणां आचार्य-शिष्य-धर्म-भ्रातृ-समान-तीर्थ्या रिक्थ-भाजः क्रमेण ।। ०३.१६.३७ ।। विवाद-पदेषु चएषां यावन्तः पणा दण्डास्तावती रात्रीः क्षपण-अभिषेक-अग्नि-कार्य-महा-कच्छ-वर्धनानि राज्ञश्चरेयुः ।। ०३.१६.३८ ।। अहिरण्य-सुवर्णाः पाषढाः साधवः ।। ०३.१६.३९ ।। ते यथा-स्वं उपवास-व्रतैराराधयेयुः । अन्यत्र पारुष्य-स्तेय-साहस-संग्रहणेभ्यः ।। ०३.१६.४० ।। तेषु यथा-उक्ता दण्डाः कार्याः ।। ०३.१६.४१ ।। प्रव्रज्यासु वृथा-आचारान्राजा दण्डेन वारयेत् । ।। ०३.१६.४२अ ब ।। धर्मो ह्यधर्म-उपहतः शास्तारं हन्त्युपेक्षितः ।। ०३.१६.४२च्द् ।।

✦ ✦ ✦

A labourer who has completed the agreed work shall be paid the agreed wage without delay;
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.