Arthashastra. Book 3, Chapter 18: Defamation. Words carry a measurable cost
Book 3 · Chapter 18
Concerning Law
Defamation. Words carry a measurable cost
वाक्-पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति ।। ०३.१८.०१ ।। शरीर-प्रकृति-श्रुत-वृत्ति-जन-पदानां शरीर-उपवादे काण-खञ्ज-आदिभिः सत्ये त्रि-पणो दण्डः । मिथ्या-उपवादे षट्-पणो दण्डः ।। ०३.१८.०२ ।। "शोभन-अक्षिमन्तः" इति काण-खञ्ज-आदीनां स्तुति-निन्दायां द्वादश-पणो दण्डः ।। ०३.१८.०३ ।। कुष्ठ-उन्माद-क्लैब्य-आदिभिः कुत्सायां च सत्य-मिथ्या-स्तुति-निन्दासु द्वादश-पण-उत्तरा दण्डास्तुल्येषु ।। ०३.१८.०४ ।। विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१८.०५ ।। कुष्ठ-उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं । क्लीब-भावे स्त्रियो मूत्र-फेनोअप्सु विष्ठा-निमज्जनं च ।। ०३.१८.०६ ।। प्रकृत्य्-उपवादे ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-अन्त-अवसायिनां अपरेण पूर्वस्य त्रि-पण-उत्तरा दण्डाः । पूर्वेणापरस्य द्वि-पण-अधराः । कुब्राह्मण-आदिभिश्च कुत्सायां ।। ०३.१८.०७ ।। तेन श्रुत-उपवादो वाग्-जीवनानां । कारु-कुशीलवानां वृत्त्य्-उपवादः । प्राज्जूणक-गान्धार-आदीनां च जन-पद-उपवादा व्याख्याताः ।। ०३.१८.०८ ।। यः परं "एवं त्वां करिष्यामि" इति करणेनाभिभर्त्सयेद् । अकरणे यस्तस्य करणे दण्डस्ततोअर्ध-दण्डं दद्यात् ।। ०३.१८.०९ ।। अशक्तः कोपं मदं मोहं वाअपदिशेद्द्वादश-पणं दण्डं दद्यात् ।। ०३.१८.१० ।। जात-वैर-आशयः शक्तश्चापकर्तुं यावज्-जीविक-अवस्थं दद्यात् ।। ०३.१८.११ ।। स्व-देश-ग्रामयोः पूर्वं मध्यमं जाति-संघयोः । ।। ०३.१८.१२अ ब ।। आक्रोशाद्देव-चैत्यानां उत्तमं दण्डं अर्हति ।। ०३.१८.१२च्द् ।।
✦ ✦ ✦
“Whoever calumniates another with a falsehood. Touching his caste, his craft, his body, or…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.