Arthashastra. Book 3, Chapter 19: Words wound, hands wound, both are priced

Book 3 · Chapter 19

Concerning Law

Words wound, hands wound, both are priced

दण्ड-पारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति ।। ०३.१९.०१ ।। नाभेरधः-कायं हस्त-पङ्क-भस्म-पांसुभिरिति स्पृशतस्त्रि-पणो दण्डः । तैरेवामेध्यैः पाद-ष्ठीविकाभ्यां च षट्-पणः । छर्दि-मूत्र-पुरीष-आदिभिर्द्वादश-पणः ।। ०३.१९.०२ ।। नाभेरुपरि द्वि-गुणाः । शिरसि चतुर्-गुणाः समेषु ।। ०३.१९.०३ ।। विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१९.०४ ।। पाद-वस्त्र-हस्त-केश-अवलम्बनेषु षट्-पण-उत्तरा दण्डाः ।। ०३.१९.०५ ।। पीडन-आवेष्टन-अञ्चन-प्रकर्षण-अध्यासनेषु पूर्वः साहस-दण्डः ।। ०३.१९.०६ ।। पातयित्वाअपक्रामतोअर्ध-दण्डः ।। ०३.१९.०७ ।। शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात्तदस्यच्छेदयेत् ।। ०३.१९.०८ ।। अवगूर्णे निष्क्रयः । स्पर्शेअर्ध-दण्डः ।। ०३.१९.०९ ।। तेन चण्डाल-अशुचयो व्याख्यातः ।। ०३.१९.१० ।। हस्तेनावगूर्णे त्रि-पण-अवरो द्वादश-पण-परो दण्डः । पादेन द्वि-गुणः । दुःख-उत्पादनेन द्रव्येण पूर्वः साहस-दण्डः । प्राण-आबाधिकेन मध्यमः ।। ०३.१९.११ ।। काष्ठ-लोष्ट-पाषाण-लोह-दण्ड-रज्जु-द्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशति-पणो दण्डः । शोणित-उत्पादने द्वि-गुणः । अन्यत्र दुष्ट-शोणितात् ।। ०३.१९.१२ ।। मृत-कल्पं अशोणितं घ्नतो हस्त-पाद-पारञ्चिकं वा कुर्वतः पूर्वः साहस-दण्डः । पाणि-पाद-दन्त-भङ्गे कर्ण-नास-आच्छेदने व्रण-विदारणे च्च । अन्यत्र दुष्ट-व्रणेभ्यः ।। ०३.१९.१३ ।। सक्थि-ग्रीव-आभञ्जने नेत्र-भेदने वा वाक्य-चेष्टा-भोजन-उपरोधेषु च मध्यमः साहस-दण्डः समुत्थान-व्ययश्च ।। ०३.१९.१४ ।। विपत्तौ कण्टक-शोधनाय नीयेत ।। ०३.१९.१५ ।। महा-जनस्यएकं घ्नतः प्रत्येकं द्वि-गुणो दण्डः ।। ०३.१९.१६ ।। "पर्युषितः कलहोअनुप्रवेशो वा नाभियोज्यः" इत्याचार्याः ।। ०३.१९.१७ ।। नास्त्यपकारिणो मोक्ष इति कौटिल्यः ।। ०३.१९.१८ ।। "कलहे पूर्व-आगतो जयति । अक्षममाणो हि प्रधावति" इत्याचार्याः ।। ०३.१९.१९ ।। नैति कौटिल्यः ।। ०३.१९.२० ।। पूर्वं पश्चाद्वाअभिगतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलह-उपलिङ्गनं वा ।। ०३.१९.२१ ।। घात-अभियोगं अप्रतिब्रुवतस्तदहरेव पश्चात्-कारः ।। ०३.१९.२२ ।। कलहे द्रव्यं अपहरतो दश-पणो दण्डः । क्षुद्रक-द्रव्य-हिंसायां तच्च तावच्च दण्डः । स्थूलक-द्रव्य-हिंसायां तच्च द्वि-गुणश्च दण्डः । वस्त्र-आभरण-हिरण्य-सुवर्ण-भाण्ड-हिंसायां तच्च पूर्वश्च साहस-दण्डः ।। ०३.१९.२३ ।। पर-कुड्यं अभिघातेन क्षोभयतस्त्रि-पणो दण्डः । छेदन-भेदने षट्-पणः । प्रतीकारश्च ।। ०३.१९.२४ ।। दुःख-उत्पादनं द्रव्यं अन्य-वेश्मनि प्रक्षिपतो द्वादश-पणो दण्डः । प्राण-आबाधिकं पूर्वः साहस-दण्डः ।। ०३.१९.२५ ।। क्षुद्र-पशूनां काष्ठ-आदिभिर्दुःख-उत्पादने पणो द्वि-गुणो वा दण्डः । शोणित-उत्पादने द्वि-गुणः ।। ०३.१९.२६ ।। महा-पशूनां एतेष्वेव स्थानेष्व्द्वि-गुणो दण्डः समुत्थान-व्ययश्च ।। ०३.१९.२७ ।। पुर-उपवन-वनस्पतीनां पुष्प-फलच्-छायावतां प्ररोहच्-छेदने षट्-पणः । क्षुद्र-शाखाच्-छेदने द्वादश-पणः । पीन-शाखाच्-च्छेदने चतुर्-विंशति-पणः । स्कन्ध-वधे पूर्वः साहस-दण्डः । समुच्छित्तौ मध्यमः ।। ०३.१९.२८ ।। पुष्प-फलच्-छायावद्-गुल्म-लतास्वर्ध-दण्डाः । पुण्य-स्थान-तपो-वन-श्मशान-द्रुमेषु च ।। ०३.१९.२९ ।। सीम-वृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । ।। ०३.१९.३०अ ब ।। त एव द्वि-गुणा दण्डाः कार्या राज-वनेषु च ।। ०३.१९.३०च्द् ।।

✦ ✦ ✦

Insult and assault are not the same wrong, but neither is free. A word that mocks a defect
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.