Arthashastra. Book 3, Chapter 20: The state run casino. Gamblers must be supplied with honest dice

Book 3 · Chapter 20

Concerning Law

The state run casino. Gamblers must be supplied with honest dice

द्यूत-अध्यक्षो द्यूतं एक-मुखं कारयेत् ।। ०३.२०.०१ ।। अन्यत्र दीव्यतो द्वादश-पणो दण्डो गूढ-आजीवि-ज्ञापन-अर्थं ।। ०३.२०.०२ ।। "द्यूत-अभियोगे जेतुः पूर्वः साहस-दण्डः । पराजितस्य मध्यमः ।। ०३.२०.०३ ।। बालिश-जातीयो ह्येष जेतु-कामः पराजयं न क्षमते" इत्याचार्याः ।। ०३.२०.०४ ।। नैत्य्कौटिल्यः ।। ०३.२०.०५ ।। पराजितश्चेद्द्वि-गुण-दण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति ।। ०३.२०.०६ ।। प्रायशो हि कितवाः कूट-देविनः ।। ०३.२०.०७ ।। तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः ।। ०३.२०.०८ ।। काकण्य्-अक्षाणां अन्य-उपधाने द्वादश-पणो दण्डः । कूट-कर्मणि पूर्वः साहस-दण्डो जित-प्रत्यादानम् । उपधौ स्तेय-दण्डश्च ।। ०३.२०.०९ ।। जित-द्रव्यादध्यक्षः पञ्चकं शतं आददीत । काकण्य्-अक्ष-अराला-शलाका-अवक्रयं उदक-भूमि-कर्म-क्रयं च ।। ०३.२०.१० ।। द्रव्याणां आधानं विक्रयं च कुर्यात् ।। ०३.२०.११ ।। अक्ष-भूमि-हस्त-दोषाणां चाप्रतिषेधने द्वि-गुणो दण्डः ।। ०३.२०.१२ ।। तेन समाह्वयो व्याख्यातः । अन्यत्र विद्या-शिल्प-समाह्वयात् इति ।। ०३.२०.१३ ।। प्रकीर्णकं तु याचितक-अवक्रीतक-आहितक-निक्षेपकाणां यथा-देश-कालं अदाने । यामच्-छाया-समुपवेश-संस्थितीनां वा देश-काल-अतिपातने । गुल्मतर-देयं ब्राह्मणं साधयतः । प्रतिवेश-अनुवेशयोरुपरि निमन्त्रणे च द्वादश-पणो दण्डः ।। ०३.२०.१४ ।। संदिष्टं अर्थं अप्रयच्छतो । भ्रातृ-भार्यां हस्तेन लङ्घयतो । रूप-आजीवां अन्य-उपरुद्धां गच्छतः । पर-वक्तव्यं पण्यं क्रीणानस्य । समुद्रं गृहं उद्भिन्दतः । सामन्त-चत्वारिंशत्-कुल्य-आबाधां आचरतश्चाष्ट-चत्वारिंशत्-पणो दण्डः ।। ०३.२०.१५ ।। कुल-नीवी-ग्राहकस्यापव्ययने । विधवां छन्द-वासिनीं प्रसह्याधिचरतः । चण्डालस्यऽर्यां स्पृशतः । प्रत्यासन्नं आपद्यनभिधावतो । निष्कारणं अभिधावनं कुर्वतः । शाक्य-आजीवक-आदीन्वृषल-प्रव्रजितान्देव-पितृ-कार्येषु भोजयतः शत्यो दण्डः ।। ०३.२०.१६ ।। शपथ-वाक्य-अनुयोगं अनिषृष्टं कुर्वतः । युक्त-कर्म चायुक्तस्य । क्षुद्र-पशु-वृषाणां पुंस्त्व-उपघातिनः । दास्या गर्भं औषधेन पातयतश्च पूर्वः साहस-दण्डः ।। ०३.२०.१७ ।। पिता-पुत्रयोर्दम्पत्योर्भ्रातृ-भगिन्योर्मातुल-भगिनेययोः शिष्य-आचार्ययोर्वा परस्परं अपतितं त्यजतः । सार्थ-आभिप्रयातं ग्राम-मध्ये वा त्यजतः पूर्वः साहस-दण्डः । कान्तारे मध्यमः । तन्-निमित्तं भ्रेषयत उत्तमः । सह-प्रस्थायिष्वन्येष्वर्ध-दण्डाः ।। ०३.२०.१८ ।। पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो । बालं अप्राप्त-व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ।। ०३.२०.१९ ।। पुरुष-अपराध-विशेषेण दण्ड-विशेषः कार्यः ।। ०३.२०.२० ।। तीर्थ-करस्तपस्वी व्याधितः क्षुत्-पिपासा-अध्व-क्लान्तस्तिरो-जन-पदो दण्ड-खेदी निष्किंचनश्चानुग्राह्याः ।। ०३.२०.२१ ।। देव-ब्राह्मण-तपस्वि-स्त्री-बाल-वृद्ध-व्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देश-काल-भोगच्-छलेनातिहरेयुः ।। ०३.२०.२२ ।। पूज्या विद्या-बुद्धि-पौरुष-अभिजन-कर्म-अतिशयतश्च पुरुषाः ।। ०३.२०.२३ ।। एवं कार्याणि धर्मस्थाः कुर्युरच्छल-दर्शिनः । ।। ०३.२०.२४अ ब ।। समाः सर्वेषु भावेषु विश्वास्या लोक-सम्प्रियाः ।। ०३.२०.२४च्द् ।।

✦ ✦ ✦

With a view to find out spies or thieves, the Superintendent of gambling shall, under the
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.