Arthashastra. Book 3, Chapter 5: Division of inheritance. The rules for what survives the father
Book 3 · Chapter 5
Concerning Law
Division of inheritance. The rules for what survives the father
अनीश्वराः पितृमन्तः स्थित-पितृ-मातृकाः पुत्राः ।। ०३.५.०१ ।। तेषां ऊर्ध्वं पितृतो दाय-विभागः पितृ-द्रव्याणां ।। ०३.५.०२ ।। स्वयं-आर्जितं अविभाज्यम् । अन्यत्र पितृ-द्रव्यादुत्थितेभ्यः ।। ०३.५.०३ ।। पितृ-द्रव्यादविभक्त-उपगतानां पुत्राः पौत्रा वा आ-चतुर्थादित्यंश-भाजः ।। ०३.५.०४ ।। तावदविच्छिन्नः पिण्डो भवति ।। ०३.५.०५ ।। विच्छिन्न-पिण्डाः सर्वे समं विभजेरन् ।। ०३.५.०६ ।। अपितृ-द्रव्या विभक्त-पितृ-द्रव्या वा सह जीवन्तः पुनर्विभजेरन् ।। ०३.५.०७ ।। यतश्चौत्तिष्ठेत स द्व्य्-अंशं लभेत ।। ०३.५.०८ ।। द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सह-जीविनो वा हरेयुः कन्याश्च ।। ०३.५.०९ ।। रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ।। ०३.५.१० ।। तद्-अभावे पिता धरमाणः ।। ०३.५.११ ।। पित्र्-अभावे भ्रातरो भ्रातृ-पुत्राश्च ।। ०३.५.१२ ।। अपितृका बहवोअपि च भ्रातरो भ्रातृ-पुत्राश्च पितुरेकं अंशं हरेयुः ।। ०३.५.१३ ।। सोदर्याणां अनेक-पितृकाणां पितृतो दाय-विभागः ।। ०३.५.१४ ।। पितृ-भ्रातृ-पुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते । ज्येष्ठे च कनिष्ठं अर्थ-ग्राहिणं ।। ०३.५.१५ ।। जीवद्-विभागे पिता नएकं विशेषयेत् ।। ०३.५.१६ ।। न चएकं अकारणान्निर्विभजेत ।। ०३.५.१७ ।। पितुरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृह्णीयुः । अन्यत्र मिथ्या-वृत्तेभ्यः ।। ०३.५.१८ ।। प्राप्त-व्यवहाराणां विभागः ।। ०३.५.१९ ।। अप्राप्त-व्यवहाराणां देय-विशुद्धं मातृ-बन्धुषु ग्राम-वृद्धेषु वा स्थापयेयुः आ-व्यवहार-प्रापणात् । प्रोषितस्य वा ।। ०३.५.२० ।। सम्निविष्ट-समं असम्निविष्टेभ्यो नैवेशनिकं दद्युः । कन्याभ्यश्च प्रादानिकं ।। ०३.५.२१ ।। ऋण-रिक्थयोः समो विभागः ।। ०३.५.२२ ।। "उद-पात्राण्यपि निष्किंचना विभजेरन्" इत्याचार्याः ।। ०३.५.२३ ।। छलं एतदिति कौटिल्यः ।। ०३.५.२४ ।। सतोअर्थस्य विभागो नासतः ।। ०३.५.२५ ।। एतावानर्थः सामान्यस्तस्यएतावान्प्रत्य्-अंश इत्यनुभाष्य ब्रुवन्साक्षिषु विभागं कारयेत् ।। ०३.५.२६ ।। दुर्विभक्तं अन्योन्य-अपहृतं अन्तर्हितं अविज्ञात-उत्पन्नं वा पुनर्विभजेरन् ।। ०३.५.२७ ।। अदायादकं राजा हरेत्स्त्री-वृत्ति-प्रेत-कार्य-वर्जम् । अन्यत्र श्रोत्रिय-द्रव्यात् ।। ०३.५.२८ ।। तत्त्रैवेद्येभ्यः प्रयच्छेत् ।। ०३.५.२९ ।। पतितः पतिताज्जातः क्लीबश्चानंशाः । जड-उन्मत्त-अन्ध-कुष्ठिनश्च ।। ०३.५.३० ।। सति भार्य-अर्थे तेषां अपत्यं अतद्-विधं भागं हरेत् ।। ०३.५.३१ ।। ग्रास-आच्छादनं इतरे पतित-वर्जाः ।। ०३.५.३२ ।। तेषां च कृत-दाराणां लुप्ते प्रजनने सति । ।। ०३.५.३३अ ब ।। सृजेयुर्बान्धवाः पुत्रांस्तेषां अंशान्प्रकल्पयेत् ।। ०३.५.३३च्द् ।।
✦ ✦ ✦
“After their time, division of ancestral property among descendants from the same ancestor…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.