Arthashastra. Book 3, Chapter 6: When a gift can be taken back
Book 3 · Chapter 6
Concerning Law
When a gift can be taken back
एक-स्त्री-पुत्राणां ज्येष्ठ-अंशः ब्राह्मणानां अजाः । क्षत्रियाणां अश्वाः । वैश्यानां गावः । शूद्राणां अवयः ।। ०३.६.०१ ।। काण-लङ्गास्तेषां मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ।। ०३.६.०२ ।। चतुष्पद-अभावे रत्न-वर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत् ।। ०३.६.०३ ।। प्रतिमुक्त-स्वधा-पाशो हि भवति ।। ०३.६.०४ ।। इत्यौशनसो विभागः ।। ०३.६.०५ ।। पितुः परिवापाद्यानं आभरणं च ज्येष्ठ-अंशः । शयन-आसनं भुक्त-कांस्यं च मध्यम-अंशः । कृष्णं धान्य-आयसं गृह-परिवापो गो-शकटं च कनिष्ठ-अंशः ।। ०३.६.०६ ।। शेष-द्रव्याणां एक-द्रव्यस्य वा समो विभागः ।। ०३.६.०७ ।। अदायादा भगिन्यः । मातुः परिवापाद्भुक्त-कांस्य-आभरण-भागिन्यः ।। ०३.६.०८ ।। मानुष-हीनो ज्येष्ठस्तृतीयं अंशं ज्येष्ठ-अंशाल्लभेत । चतुर्थं अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यो वा ।। ०३.६.०९ ।। काम-आचारः सर्वं जीयेत ।। ०३.६.१० ।। तेन मध्यम-कनिष्ठौ व्याख्यातौ ।। ०३.६.११ ।। तयोर्मानुष-उपेतो ज्येष्ठ-अंशादर्धं लभेत ।। ०३.६.१२ ।। नाना-स्त्री-पुत्राणां तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्व-जन्मना ज्येष्ठ-भावः ।। ०३.६.१३ ।। सूत-मागध-व्रात्य-रथ-काराणां ऐश्वर्यतो विभागः ।। ०३.६.१४ ।। शेषास्तं उपजीवेयुः ।। ०३.६.१५ ।। अनीश्वराः सम-विभागाः ।। ०३.६.१६ ।। चातुर्वर्ण्य-पुत्राणां ब्राह्मणी-पुत्रश्चतुरोअंशान्हरेत् । क्षत्रिया-पुत्र-स्त्रीनंशान् । वैश्या-पुत्रो द्वावंशौ । एकं शूद्रा-पुत्रः ।। ०३.६.१७ ।। तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोर्व्याख्यातः ।। ०३.६.१८ ।। ब्राह्मणस्यानन्तरा-पुत्रस्तुल्य-अंशः ।। ०३.६.१९ ।। क्षत्रिय-वैश्ययोरर्ध-अंशः तुल्य-अंशो वा मानुष-उपेतः ।। ०३.६.२० ।। तुल्य-अतुल्ययोरेक-पुत्रः सर्वं हरेत् । बन्धूंश्च बिभृयात् ।। ०३.६.२१ ।। ब्राह्मणानां तु पारशवस्तृतीयं अंशं लभेत । द्वावंशौ सपिण्डः कुल्यो वाआसन्नः । स्वधा-दान-हेतोः ।। ०३.६.२२ ।। तद्-अभावे पितुराचार्योअन्तेवासी वा ।। ०३.६.२३ ।। क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतं । ।। ०३.६.२४अ ब ।। मातृ-बन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनं ।। ०३.६.२४च्द् ।।
✦ ✦ ✦
“A gift, once delivered with the giver's free will and the receiver's acceptance, is not li…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.