Arthashastra. Book 3, Chapter 7: Selling what is not yours
Book 3 · Chapter 7
Concerning Law
Selling what is not yours
"पर-परिग्रहे बीजं उत्सृष्टं क्षेत्रिणः" इत्याचार्याः ।। ०३.७.०१ ।। "माता भस्त्रा । यस्य रेतस्तस्यापत्यम्" इत्यपरे ।। ०३.७.०२ ।। विद्यमानं उभयं इति कौटिल्यः ।। ०३.७.०३ ।। स्वयं-जातः कृत-क्रियायां औरसः ।। ०३.७.०४ ।। तेन तुल्यः पुत्रिका-पुत्रः ।। ०३.७.०५ ।। सगोत्रेणान्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ।। ०३.७.०६ ।। जनयितुरसत्यन्यस्मिन्पुत्रे स एव द्वि-पितृको द्वि-गोत्रो वा द्वयोरपि स्वधा-रिक्थ-भाग्भवति ।। ०३.७.०७ ।। तत्-सधर्मा बन्धूनां गृहे गूढ-जातस्तु गूढजः ।। ०३.७.०८ ।। बन्धुनाउत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ।। ०३.७.०९ ।। कन्या-गर्भः कानीनः ।। ०३.७.१० ।। सगर्भ-ऊढायाः सह-ऊढः ।। ०३.७.११ ।। पुनर्-भूतायाः पौनर्भवः ।। ०३.७.१२ ।। स्वयं-जातः पितुर्बन्धूनां च दायादः ।। ०३.७.१३ ।। पर-जातः संस्कर्तुरेव न बन्धूनां ।। ०३.७.१४ ।। तत्-सधर्मा माता-पितृभ्यां अद्भिर्मुक्तो दत्तः ।। ०३.७.१५ ।। स्वयं बन्धुभिर्वा पुत्र-भाव-उपगत उपगतः ।। ०३.७.१६ ।। पुत्रत्वेअधिकृतः कृतकः ।। ०३.७.१७ ।। परिक्रीतः क्रीतः इति । ।। ०३.७.१८ ।। औरसे तुउत्पन्ने सवर्णास्तृतीय-अंश-हराः । असवर्णा ग्रास-आच्छादन-भागिनः ।। ०३.७.१९ ।। ब्राह्मण-क्षत्रिययोरनन्तरा-पुत्राः सवर्णाः । एक-अन्तरा असवर्णाः ।। ०३.७.२० ।। ब्राह्मणस्य वैश्यायां अम्बष्ठः । शूद्रायां निषादः पारशवो वा ।। ०३.७.२१ ।। क्षत्रियस्य शूद्रायां उग्रः ।। ०३.७.२२ ।। शूद्र एव वैश्यस्य ।। ०३.७.२३ ।। सवर्णासु चएषां अचरित-व्रतेभ्यो जाता व्रात्याः ।। ०३.७.२४ ।। इत्यनुलोमाः ।। ०३.७.२५ ।। शूद्रादायोगव-क्षत्त-चण्डालाः ।। ०३.७.२६ ।। वैश्यान्मागध-वैदेहकौ ।। ०३.७.२७ ।। क्षत्रियात्सूतः ।। ०३.७.२८ ।। पौराणिकस्त्वन्यः सूतो मागधश्च । ब्रह्म-क्षत्राद्विशेषः ।। ०३.७.२९ ।। त एते प्रतिलोमाः स्वधर्म-अतिक्रमाद्राज्ञः सम्भवन्ति ।। ०३.७.३० ।। उग्रान्नैषाद्यां कुक्कुटः । विपर्यये पुल्कसः ।। ०३.७.३१ ।। वैदेहिकायां अम्बष्ठाद्वैणः । विपर्यये कुशीलवः ।। ०३.७.३२ ।। क्षत्तायां उग्रात्श्व-पाकः ।। ०३.७.३३ ।। इत्येतेअन्ये चान्तरालाः ।। ०३.७.३४ ।। कर्मणा वैश्यो रथ-कारः ।। ०३.७.३५ ।। तेषां स्व-योनौ विवाहः । पूर्व-अपर-गामित्वं वृत्त-अनुवृत्तं च ।। ०३.७.३६ ।। शूद्र-सधर्माणो वा । अन्यत्र चण्डालेभ्यः ।। ०३.७.३७ ।। केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा । नरकं अन्यथा ।। ०३.७.३८ ।। सर्वेषां अन्तरालानां समो विभागः ।। ०३.७.३९ ।। देशस्य जात्याः संघस्य धर्मो ग्रामस्य वाअपि यः । ।। ०३.७.४०अ ब ।। उचितस्तस्य तेनएव दाय-धर्मं प्रकल्पयेत् ।। ०३.७.४०च्द् ।।
✦ ✦ ✦
“One who sells a thing that is not his own. Neither owned, nor entrusted, nor mortgaged to…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.