Arthashastra. Book 3, Chapter 9: How villages settle their boundary lines
Book 3 · Chapter 9
Concerning Law
How villages settle their boundary lines
ज्ञाति-सामन्त-धनिकाः क्रमेण भूमि-परिग्रहान्क्रेतुं अभ्याभवेयुः ।। ०३.९.०१ ।। ततोअन्ये बाह्याः ।। ०३.९.०२ ।। सामन्त-चत्वारिंशत्-कुल्येषु गृह-प्रतिमुखे वेश्म श्रावयेयुः । सामन्त-ग्राम-वृद्धेषु क्षेत्रं आरामं सेतु-बन्धं तटाकं आधारं वा मर्यादासु यथा-सेतु-भोगं "अनेनार्घेण कः क्रेता" इति ।। ०३.९.०३ ।। त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत ।। ०३.९.०४ ।। स्पर्धया वा मूल्य-वर्धने मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०३.९.०५ ।। विक्रय-प्रतिक्रोष्टा शुल्कं दद्यात् ।। ०३.९.०६ ।। अस्वामि-प्रतिक्रोशे चतुर्-विंशति-पणो दण्डः ।। ०३.९.०७ ।। सप्त-रात्रादूर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ।। ०३.९.०८ ।। प्रतिक्रुष्ट-अतिक्रमे वास्तुनि द्विशतो दण्डः । अन्यत्र चतुर्-विंशति-पणो दण्डः इति वास्तु-विक्रयः । ।। ०३.९.०९ ।। सीम-विवादं ग्रामयोरुभयोः सामन्ता पञ्च-ग्रामी दश-ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् ।। ०३.९.१० ।। कर्षक-गो-पालक-वृद्धाः पूर्व-भुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीम-सेतून्विपरीत-वेषाः सीमानं नयेयुः ।। ०३.९.११ ।। उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः । ।। ०३.९.१२ ।। तदेव नीते सीम-अपहारिणां सेतुच्-छिदां च कुर्यात् ।। ०३.९.१३ ।। प्रनष्ट-सेतु-भोगं वा सीमानं राजा यथा-उपकारं विभजेत् इति सीम-विवादः । ।। ०३.९.१४ ।। क्षेत्र-विवादं सामन्त-ग्राम-वृद्धाः कुर्युः ।। ०३.९.१५ ।। तेषां द्वैधी-भावे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ।। ०३.९.१६ ।। तद्-उभय-परा-उक्तं वास्तु राजा हरेत् । प्रनष्ट-स्वामिकं च ।। ०३.९.१७ ।। यथा-उपकारं वा विभजेत् ।। ०३.९.१८ ।। प्रसह्य-आदाने वास्तुनि स्तेय-दण्डः ।। ०३.९.१९ ।। कारण-आदाने प्रयासं आजीवं च परिसंख्याय बन्धं दद्यात् इति क्षेत्र-विवादः । ।। ०३.९.२० ।। मर्यादा-अपहरणे पूर्वः साहस-दण्डः ।। ०३.९.२१ ।। मर्यादा-भेदे चतुर्-विंशति-पणः ।। ०३.९.२२ ।। तेन तपो-वन-विवीत-महा-पथ-श्मशान-देव-कुल-यजन-पुण्य-स्थान-विवादा व्याख्याताः इति मर्यादा-स्थापनं । ।। ०३.९.२३ ।। सर्व एव विवादाः सामन्त-प्रत्ययाः ।। ०३.९.२४ ।। विवीत-स्थल-केदार-षण्ड-खल-वेश्म-वाहन-कोष्ठानां पूर्वं-पूर्वं आबाधं सहेत ।। ०३.९.२५ ।। ब्रह्म-सोम-अरण्य-देव-यजन-पुण्य-स्थान-वर्जाः स्थल-प्रदेशाः ।। ०३.९.२६ ।। आधार-परिवाह-केदार-उपभोगैः पर-क्षेत्र-कृष्ट-बीज-हिंसायां यथा-उपघातं मूल्यं दद्युः ।। ०३.९.२७ ।। केदार-आराम-सेतु-बन्धानां परस्पर-हिंसायां हिंसा-द्वि-गुणो दण्डः ।। ०३.९.२८ ।। पश्चान्-निविष्टं अधर-तटाकं नौपरि-तटाकस्य केदारं उदकेनऽप्लावयेत् ।। ०३.९.२९ ।। उपरि-निविष्टं नाधर-तटाकस्य पूर-आस्रावं वारयेद् । अन्यत्र त्रि-वर्ष-उपरत-कर्मणः ।। ०३.९.३० ।। तस्यातिक्रमे पूर्वः साहस-दण्डः । तटाक-वामनं च ।। ०३.९.३१ ।। पञ्च-वर्ष-उपरत-कर्मणः सेतु-बन्धस्य स्वाम्यं लुप्येत । अन्यत्रऽपद्भ्यः ।। ०३.९.३२ ।। तटाक-सेतु-बन्धानां नव-प्रवर्तने पाञ्चवर्षिकः परिहारः । भग्न-उत्सृष्टानां चातुर्वर्षिकः । समुपारूढानां त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः ।। ०३.९.३३ ।। स्व-आत्म-आधाने विक्रये च ।। ०३.९.३४ ।। खात-प्रावृत्तिं अनदी-निबन्ध-आयतन-तटाक-केदार-आराम-षण्ड-वापानां सस्य-वर्ण-भाग-उत्तरिकं अन्येभ्यो वा यथा-उपकारं दद्युः ।। ०३.९.३५ ।। प्रक्रय-अवक्रय-अधिभाग-भोगनिषृष्ट-उपभोक्तारश्चएषां प्रतिकुर्युः ।। ०३.९.३६ ।। अर्पतीकारे हीन-द्वि-गुणो दण्डः ।। ०३.९.३७ ।। सेतुभ्यो मुञ्चतस्तोयं अवारे षट्-पणो दमः । ।। ०३.९.३८अ ब ।। वारे वा तोयं अन्येषां प्रमादेनौपरुन्धतः ।। ०३.९.३८च्द् ।।
✦ ✦ ✦
“When neighbours quarrel over a line of land, the court does not trust either tongue. It ca…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.