Arthashastra. Book 4, Chapter 1: Artisans must keep their contracts

Book 4 · Chapter 1

Removal of Thorns

Artisans must keep their contracts

प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टक-शोधनं कुर्युः ।। ०४.१.०१ ।। अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणा निक्षेपं गृह्णीयुः ।। ०४.१.०२ ।। विपत्तौ श्रेणी निक्षेपं भजेत ।। ०४.१.०३ ।। निर्दिष्ट-देश-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-देश-कालं कार्य-अपदेशं ।। ०४.१.०४ ।। काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०५ ।। अन्यत्र भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वाअभ्यावहेयुः ।। ०४.१.०६ ।। कार्यस्यान्यथा-करणे वेतन-नाशस्तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०७ ।। तन्तु-वाया दश-एकादशिकं सूत्रं वर्धयेयुः ।। ०४.१.०८ ।। वृद्धिच्-छेदे छेद-द्वि-गुणो दण्डः ।। ०४.१.०९ ।। सूत्र-मूल्यं वान-वेतनं । क्षौम-कौशेयानां अध्यर्ध-गुणं । पत्त्र-ऊर्णा-कम्बल-दुकूलानां द्वि-गुणं ।। ०४.१.१० ।। मान-हीने हीन-अवहीनं वेतनं तद्-द्वि-गुणश्च दण्डः । तुला-हीने हीन-चतुर्-गुणो दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ।। ०४.१.११ ।। तेन द्वि-पट-वानं व्याख्यातं ।। ०४.१.१२ ।। ऊर्णा-तुलायाः पञ्च-पलिको विहननच्-छेदो रोमच्-छेदश्च ।। ०४.१.१३ ।। रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ।। ०४.१.१४ ।। अन्यत्र नेनिजतो वस्त्र-उपघातं षट्-पणं च दण्डं दद्युः ।। ०४.१.१५ ।। मुद्गर-अङ्कादन्यद्वासः परिदधानास्त्रि-पणं दण्डं दद्युः ।। ०४.१.१६ ।। पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणो दण्डः । परिवर्तने मूल्य-द्वि-गुणो वस्त्र-दानं च ।। ०४.१.१७ ।। मुकुल-अवदातं शिला-पट्ट-शुद्धं धौत-सूत्र-वर्णं प्रमृष्ट-श्वेतं चएक-रात्र-उत्तरं दद्युः ।। ०४.१.१८ ।। पञ्च-रात्रिकं तनु-रागं । षड्-रात्रिकं नीलं । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तं गुरु-परिकर्म यत्न-उपचार्यं जात्यं वासः सप्त-रात्रिकं ।। ०४.१.१९ ।। ततः परं वेतन-हानिं प्राप्नुयुः ।। ०४.१.२० ।। श्रद्धेया राग-विवादेषु वेतनं कुशलाः कल्पयेयुः ।। ०४.१.२१ ।। परार्ध्यानां पणो वेतनं । मध्यमानां अर्ध-पणः । प्रत्यवराणां पादः । स्थूलकानां माषक-द्वि-माषकं । द्वि-गुणं रक्तकानां ।। ०४.१.२२ ।। प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ।। ०४.१.२३ ।। तेनौत्तरं व्याख्यातं ।। ०४.१.२४ ।। रजकैस्तुन्न-वाया व्याख्याताः ।। ०४.१.२५ ।। सुवर्ण-काराणां अशुचि-हस्ताद्रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्-विंशति-पणः । चोर-हस्तादष्ट-चत्वारिंशत्-पणः ।। ०४.१.२६ ।। प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ।। ०४.१.२७ ।। सुवर्णान्माषकं अपहरतो द्वि-शतो दण्डः । रूप्य-धरणान्माषकं अपहरतो द्वादश-पणः ।। ०४.१.२८ ।। तेनौत्तरं व्याख्यातं ।। ०४.१.२९ ।। वर्ण-उत्कर्षं अपसारणं योगं वा साधयतः पञ्च-शतो दण्डः ।। ०४.१.३० ।। तयोरपचरणे रागस्यापहारं विद्यात् ।। ०४.१.३१ ।। माषको वेतनं रूप्य-धरणस्य । सुवर्णस्याष्ट-भागः ।। ०४.१.३२ ।। शिक्षा-विशेषेण द्वि-गुणो वेतन-वृद्धिः ।। ०४.१.३३ ।। तेनौत्तरं व्याख्यातं ।। ०४.१.३४ ।। ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानां पञ्चकं शतं वेतनं ।। ०४.१.३५ ।। ताम्र-पिण्डो दश-भाग-क्षयः ।। ०४.१.३६ ।। पल-हीने हीन-द्वि-गुणो दण्डः ।। ०४.१.३७ ।। तेनौत्तरं व्याख्यातं ।। ०४.१.३८ ।। सीस-त्रपु-पिण्डो विंशति-भाग-क्षयः ।। ०४.१.३९ ।। काकणी चास्य पल-वेतनं ।। ०४.१.४० ।। काल-आयस-पिण्डः पञ्च-भाग-क्षयः ।। ०४.१.४१ ।। काकणी-द्वयं चास्य पल-वेतनं ।। ०४.१.४२ ।। तेनौत्तरं व्याख्यातं ।। ०४.१.४३ ।। रूप-दर्शकस्य स्थितां पण-यात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादश-पणो दण्डः ।। ०४.१.४४ ।। व्याजी-परिशुद्धौ पण-यात्रा ।। ०४.१.४५ ।। पणान्माषकं उपजीवतो द्वादश-पणो दण्डः ।। ०४.१.४६ ।। तेनौत्तरं व्याख्यातं ।। ०४.१.४७ ।। कूट-रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः । कोशे प्रक्षिपतो वधः ।। ०४.१.४८ ।। चरक-पांसु-धावकाः सार-त्रि-भागं । द्वौ राजा रत्नं च ।। ०४.१.४९ ।। रत्न-अपहार उत्तमो दण्डः ।। ०४.१.५० ।। खनि-रत्न-निधि-निवेदनेषु षष्ठं अंशं निवेत्ता लभेत । द्वादशं अंशं भृतकः ।। ०४.१.५१ ।। शत-सहस्रादूर्ध्वं राज-गामी निधिः ।। ०४.१.५२ ।। ऊने षष्ठं अंशं दद्यात् ।। ०४.१.५३ ।। पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व-करणेन समग्रं लभेत ।। ०४.१.५४ ।। स्व-करण-अभावे पञ्च-शतो दण्डः । प्रच्छन्न-आदाने सहस्रं ।। ०४.१.५५ ।। भिषजः प्राण-आबाधिकं अनाख्यायौपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ।। ०४.१.५६ ।। मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यं विद्यात् ।। ०४.१.५७ ।। कुशीलवा वर्षा-रात्रं एकस्था वसेयुः ।। ०४.१.५८ ।। काम-दानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः ।। ०४.१.५९ ।। तस्यातिक्रमे द्वादश-पणो दण्डः ।। ०४.१.६० ।। कामं देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ।। ०४.१.६१ ।। कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ।। ०४.१.६२ ।। तेषां अयः-शूलेन यावतः पणानभिवदेयुस्तावन्तः शिफा-प्रहारा दण्डाः ।। ०४.१.६३ ।। शेषाणां कर्मणां निष्पत्ति-वेतनं शिल्पिनां कल्पयेत् ।। ०४.१.६४ ।। एवं चोरानचोर-आख्यान्वणिक्-कारु-कुशीलवान् । ।। ०४.१.६५अ ब ।। भिक्षुकान्कुहकांश्चान्यान्वारयेद्देश-पीडनात् ।। ०४.१.६६च्द् ।।

✦ ✦ ✦

Artisans shall, in accordance with their agreement as to time, place, and form of work, fu
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.