Arthashastra. Book 4, Chapter 2: Protection of merchants. And the cap on profit margins
Book 4 · Chapter 2
Removal of Thorns
Protection of merchants. And the cap on profit margins
संस्था-अध्यक्षः पण्य-संस्थायां पुराण-भाण्डानां स्व-करण-विशुद्धानां आधानं विक्रयं वा स्थापयेत् ।। ०४.२.०१ ।। तुला-मान-भाण्डानि चावेक्षेत पौतव-अपचारात् ।। ०४.२.०२ ।। परिमाणी-द्रोणयोरर्ध-पल-हीन-अतिरिक्तं अदोषः ।। ०४.२.०३ ।। पल-हीन-अतिरिक्ते द्वादश-पणो दण्डः ।। ०४.२.०४ ।। तेन पल-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०५ ।। तुलायाः कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०६ ।। द्वि-कर्ष-हीन-अतिरिक्ते षट्-पणो दण्डः ।। ०४.२.०७ ।। तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०८ ।। आढकस्यार्ध-कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०९ ।। कर्ष-हीन-अतिरिक्ते त्रि-पणो दण्डः ।। ०४.२.१० ।। तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.११ ।। तुला-मान-विशेषाणां अतोअन्येषां अनुमानं कुर्यात् ।। ०४.२.१२ ।। तुला-मानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि-गुणा दण्डाः ।। ०४.२.१३ ।। गण्य-पण्येष्वष्ट-भागं पण्य-मूल्येष्वपहरतः षण्-णवतिर्दण्डः ।। ०४.२.१४ ।। काष्ठ-लोह-मणि-मयं रज्जु-चर्म-मृण्-मयं सूत्र-वल्क-रोम-मयं वा जात्यं इत्यजात्यं विक्रय-आधानं नयतो मूल्य-अष्ट-गुणो दण्डः ।। ०४.२.१५ ।। सार-भाण्डं इत्यसार-भाण्डं तज्-जातं इत्यतज्-जातं राधा-युक्तं इत्युपधियुक्तं समुद्ग-परिवर्तिमं वा विक्रय-आधानं नयतो हीन-मूल्यं चतुष्पञ्चाशत्-पणो दण्डः । पण-मूल्यं द्वि-गुणो । द्वि-पण-मूल्यं द्वि-शतः ।। ०४.२.१६ ।। तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.१७ ।। कारु-शिल्पिनां कर्म-गुण-अपकर्षं आजीवं विक्रय-क्रय-उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ।। ०४.२.१८ ।। वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः ।। ०४.२.१९ ।। तुला-मान-अन्तरं अर्घ-वर्ण-अन्तरं वा धरकस्य मायकस्य वा पण-मूल्यादष्ट-भागं हस्त-दोषेणऽचरतो द्वि-शतो दण्डः ।। ०४.२.२० ।। तेन द्वि-शत-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.२१ ।। धान्य-स्नेह-क्षार-लवण-गन्ध-भैषज्य-द्रव्याणां सम-वर्ण-उपधाने द्वादश-पणो दण्डः ।। ०४.२.२२ ।। यन्-निषृष्टं उपजीवेयुस्तदेषां दिवस-संजातं संख्याय वणिक्स्थापयेत् ।। ०४.२.२३ ।। क्रेतृ-विक्रेत्रोरन्तर-पतितं आदायादन्यद्भवति ।। ०४.२.२४ ।। तेन धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०४.२.२५ ।। अन्यथा-निचितं एषां पण्य-अध्यक्षो गृह्णीयात् ।। ०४.२.२६ ।। तेन धान्य-पण्य-विक्रये व्यवहरेतानुग्रहेण प्रजानां ।। ०४.२.२७ ।। अनुज्ञात-क्रयादुपरि चएषां स्व-देशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत् । पर-देशीयानां दशकं ।। ०४.२.२८ ।। ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण-शते पञ्च-पणाद्द्वि-शतो दण्डः ।। ०४.२.२९ ।। तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.३० ।। सम्भूय-क्रये चएषां अविक्रीते नान्यं सम्भूय-क्रयं दद्यात् ।। ०४.२.३१ ।। पण्य-उपघाते चएषां अनुग्रहं कुर्यात् ।। ०४.२.३२ ।। पण्य-बाहुल्यात्पण्य-अध्यक्षः सर्व-पण्यान्येक-मुखानि विक्रीणीत ।। ०४.२.३३ ।। तेष्वविक्रीतेषु नान्ये विक्रीणीरन् ।। ०४.२.३४ ।। तानि दिवस-वेतनेन विक्रीणीरन्ननुग्रहेण प्रजानां ।। ०४.२.३५ ।। देश-काल-अन्तरितानां तु पण्यानां प्रक्षेपं पण्य-निष्पत्तिं शुल्कं वृद्धिं अवक्रयं । ।। ०४.२.३६अ ब ।। व्ययानन्यांश्च संख्याय स्थापयेदर्घं अर्घवित् ।। ०४.२.३६च्द् ।।
✦ ✦ ✦
“When a merchant purchases by a false balance a greater quantity of a commodity and sells u…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.