Arthashastra. Book 4, Chapter 9: Graduated theft fines. And the state that polices itself

Book 4 · Chapter 9

Removal of Thorns

Graduated theft fines. And the state that polices itself

समाहर्तृ-प्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्ष-पुरुषाणां च नियमनं कुर्युः ।। ०४.९.०१ ।। खनि-सार-कर्म-अन्तेभ्यः सारं रत्नं वाअपहरतः शुद्ध-वधः ।। ०४.९.०२ ।। फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहस-दण्डः ।। ०४.९.०३ ।। पण्य-भूमिभ्यो वा राज-पण्यं माष-मूल्यादूर्ध्वं आपाद-मूल्यादित्यपहरतो द्वादश-पणो दण्डः । आ-द्वि-पाद-मूल्यादिति चतुर्-विंशति-पणः । आ-त्रि-पाद-मूल्यादिति षट्-त्रिंशत्-पणः । आ-पण-मूल्यादित्यष्ट-चत्वारिंशत्-पणः । आ-द्वि-पण-मूल्यादिति पूर्वः साहस-दण्डः । आ-चतुष्पण-मूल्यादिति मध्यमः । आ-अष्ट-पण-मूल्यादित्युत्तमः । आ-दश-पण-मूल्याद् इति वधः ।। ०४.९.०४ ।। कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेष्वर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.०५ ।। कोश-भाण्ड-अगार-अक्ष-शालाभ्यश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.०६ ।। चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०४.९.०७ ।। इति राज-परिग्रहेषु व्याख्यातं ।। ०४.९.०८ ।। बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ।। ०४.९.०९ ।। प्रसह्य दिवा रात्रौ वाआन्तर्यामिकं अपहरतोअर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.१० ।। प्रसह्य दिवा रात्रौ वा सशस्त्रस्यापहरतश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.११ ।। कुटुंबिक-अध्यक्ष-मुख्य-स्वामिनां कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधा दण्डाः । यथा-अपराधं वा ।। ०४.९.१२ ।। धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहस-दण्डं कुर्यात् । वाक्-पारुष्ये द्वि-गुणं ।। ०४.९.१३ ।। पृच्छ्यं न पृच्छति । अपृच्छ्यं पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वं ददाति वा । इति मध्यमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१४ ।। देयं देशं न पृच्छति । अदेयं देशं पृच्छति । कार्यं अदेशेनातिवाहयति । छलेनातिहरति । काल-हरणेन श्रान्तं अपवाहयति । मार्ग-आपन्नं वाक्यं उत्क्रमयति । मति-साहाय्यं साक्षिभ्यो ददाति । तारित-अनुशिष्टं कार्यं पुनरपि गृह्णाति । उत्तमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१५ ।। पुनर्-अपराधे द्वि-गुणं स्थानाद्व्यवरोपणं च ।। ०४.९.१६ ।। लेखकश्चेदुक्तं न लिखति । अनुक्तं लिखति । दुरुक्तं उपलिखति । सूक्तं उल्लिखति । अर्थ-उत्पत्तिं वा विकल्पयति । इति पूर्वं अस्मै साहस-दण्डं कुर्याद् । यथा-अपराधं वा ।। ०४.९.१७ ।। धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डं अदण्ड्ये क्षिपति क्षेप-द्वि-गुणं अस्मै दण्डं कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणं वा ।। ०४.९.१८ ।। शरीर-दण्डं क्षिपति शारीरं एव दण्डं भजेत । निष्क्रय-द्वि-गुणं वा ।। ०४.९.१९ ।। यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्-अष्ट-गुणं दण्डं दद्यात् ।। ०४.९.२० ।। धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तरा दण्डाः कर्तुः कारयितुश्च ।। ०४.९.२१ ।। चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस-दण्डः । अभियोग-दानं च । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२२ ।। बन्धन-अगार-अध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्-विंशति-पणो दण्डः । कर्म कारयतो द्वि-गुणः । स्थान-अन्यत्वं गमयतोअन्न-पानं वा रुन्धतः षण्-णवतिर्दण्डः । परिक्लेशयत उत्कोटयतो वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ।। ०४.९.२३ ।। परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्यां मध्यमः । संरुद्धिकां आर्यां उत्तमः ।। ०४.९.२४ ।। संरुद्धस्य वा तत्रएव घातः ।। ०४.९.२५ ।। तदेवाक्षण-गृहीतायां आर्यायां विद्यात् । दास्यां पूर्वः साहस-दण्डः ।। ०४.९.२६ ।। चारकं अभित्त्वा निष्पातयतो मध्यमः । भित्त्वा वधः । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२७ ।। एवं अर्थ-चरान्पूर्वं राजा दण्डेन शोधयेत् । ।। ०४.९.२८अ ब ।। शोधयेयुश्च शुद्धास्ते पौर-जानपदान्दमैः ।। ०४.९.२८च्द् ।।

✦ ✦ ✦

Commissioners appointed by the Collector general shall first check the proceedings of Supe
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.