Arthashastra. Book 4, Chapter 4: Spies sent to uncover hidden criminals
Book 4 · Chapter 4
Removal of Thorns
Spies sent to uncover hidden criminals
समाहर्तृ-प्रणिधौ जन-पद-रक्षणं उक्तं ।। ०४.४.०१ ।। तस्य कण्टक-शोधनं वक्ष्यामः ।। ०४.४.०२ ।। समाहर्ता जन-पदे सिद्ध-तापस-प्रव्रजित-चक्र-चर-चारण-कुहक-प्रच्छन्दक-कार्तान्तिक-नैमित्तिक-मौहूर्तिक-चिकित्सक-उन्मत्त-मूक-बधिर-जड-अन्ध-वैदेहक-कारु-शिल्पि-कुशीलव-वेश-शौण्डिक-आपूपिक-पाक्व-मांसिक-औदनिक-व्यञ्जनान्प्रणिदध्यात् ।। ०४.४.०३ ।। ते ग्रामाणां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०४.४.०४ ।। यं चात्र गूढ-आजीविनं शङ्केत तं सत्त्रिणाअपसर्पयेत् ।। ०४.४.०५ ।। धर्मस्थं विश्वास-उपगतं सत्त्री ब्रूयात् "असौ मे बन्धुरभियुक्तः । तस्यायं अनर्थः प्रतिक्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.०६ ।। स चेत्तथा कुर्यादुपदा-ग्राहक इति प्रवास्येत ।। ०४.४.०७ ।। तेन प्रदेष्टारो व्याख्याताः ।। ०४.४.०८ ।। ग्राम-कूटं अध्यक्षं वा सत्त्री ब्रूयात् "असौ जाल्मः प्रभूत-द्रव्यः । तस्यायं अनर्थः । तेनएनं आहारयस्व" इति ।। ०४.४.०९ ।। स चेत्तथा कुर्यादुत्कोचक इति प्रवास्येत ।। ०४.४.१० ।। कृतक-अभियुक्तो वा कूट-साक्षिणोअभिज्ञात-अनर्थ-वैपुल्येनऽरभेत ।। ०४.४.११ ।। ते चेत्तथा कुर्युः कूट-साक्षिण इति प्रवास्येरन् ।। ०४.४.१२ ।। तेन कूट-श्रावण-कारका व्याख्याताः ।। ०४.४.१३ ।। यं वा मन्त्र-योग-मूल-कर्मभिः श्माशानिकैर्वा संवदन-करकं मन्येत तं सत्त्री ब्रूयात् "अमुष्य भार्यां स्नुषां दुहितरं वा कामये । सा मां प्रतिकामयताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१४ ।। स चेत्तथा कुर्यात्संवदन-कारक इति प्रवास्येत ।। ०४.४.१५ ।। तेन कृत्य-अभिचार-शीलौ व्याख्यातौ ।। ०४.४.१६ ।। यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य-आहार-व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् "असौ मे शत्रुः । तस्यौपघातः क्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१७ ।। स चेत्तथा कुर्याद्रसद इति प्रवास्येत ।। ०४.४.१८ ।। तेन मदन-योग-व्यवहारी व्याख्यातः ।। ०४.४.१९ ।। यं वा नाना-लोह-क्षाराणां अङ्गार-भस्म-असंदंश-मुष्टिक-अधिकरणी-बिम्ब-टङ्क-मूषाणां अभीक्ष्ण-क्रेतारं मषी-भस्म-धूम-दिग्ध-हस्त-वस्त्र-लिङ्गं कर्मार-उपकरण-संसर्गं कूट-रूप-कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ।। ०४.४.२० ।। प्रज्ञातः कूट-रूप-कारक इति प्रवास्येत ।। ०४.४.२१ ।। तेन रागस्यापहर्ता कूट-सुवर्ण-व्यवहारी च व्याख्यातः ।। ०४.४.२२ ।। आरब्धारस्तु हिंसायां गूढ-आजीवास्त्रयोदश । ।। ०४.४.२३अ ब ।। प्रवास्या निष्क्रय-अर्थं वा दद्युर्दोष-विशेषतः ।। ०४.४.२३च्द् ।।
✦ ✦ ✦
“Officers acting in secret shall walk among holy men, monks, traders, and beggars, listenin…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.