Arthashastra. Book 4, Chapter 5: Spotting drift before it becomes crime
Book 4 · Chapter 5
Removal of Thorns
Spotting drift before it becomes crime
सत्त्रि-प्रयोगादूर्ध्वं सिद्ध-व्यञ्जना माणवान्माणव-विद्याभिः प्रलोभयेयुः । प्रस्वापन-अन्तर्-धान-द्वार-अपोह-मन्त्रेण प्रतिरोधकान् । संवदन-मन्त्रेण पारतल्पिकान् ।। ०४.५.०१ ।। तेषां कृत-उत्साहानां महान्तं संघं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतक-स्त्री-पुरुषं गत्वा ब्रूयुः "इहएव विद्या-प्रभावो दृश्यतां । कृच्छ्रः पर-ग्रामो गन्तुम्" इति ।। ०४.५.०२ ।। ततो द्वार-अपोह-मन्त्रेण द्वाराण्यपोह्य "प्रविश्यताम्" इति ब्रूयुः ।। ०४.५.०३ ।। अन्तर्-धान-मन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवानतिक्रामयेयुः ।। ०४.५.०४ ।। प्रस्वापन-मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः संचारयेयुः ।। ०४.५.०५ ।। संवदन-मन्त्रेण भार्या-व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ।। ०४.५.०६ ।। उपलब्ध-विद्या-प्रभावाणां पुरश्चरणा-आद्यादिशेयुरभिज्ञान-अर्थं ।। ०४.५.०७ ।। कृत-लक्षण-द्रव्येषु वा वेश्मसु कर्म कारयेयुः ।। ०४.५.०८ ।। अनुप्रविष्टा वाएकत्र ग्राहयेयुः ।। ०४.५.०९ ।। कृत-लक्षण-द्रव्य-क्रय-विक्रय-आधानेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१० ।। गृहीतान्पूर्व-अपदान-सहायाननुयुञ्जीत ।। ०४.५.११ ।। पुराण-चोर-व्यञ्जना वा चोराननुप्रविष्टास्तथाएव कर्म कारयेयुर्ग्राहयेयुश्च ।। ०४.५.१२ ।। गृहीतान्समाहर्ता पौर-जानपदानां दर्शयेत् "चोर-ग्रहणीं विद्यां अधीते राजा । तस्यौपदेशादिमे चोरा गृहीताः । भूयश्च ग्रहीष्यामि । वारयितव्यो वः स्व-जनः पाप-आचारह्" इति ।। ०४.५.१३ ।। यं चात्रापसर्प-उपदेशेन शम्या-प्रतोद-आदीनां अपहर्तारं जानीयात्तं एषां प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ।। ०४.५.१४ ।। पुराण-चोर-गो-पालक-व्याध-श्व-गणिनश्च वन-चोर-आटविकाननुप्रविष्टाः प्रभूत-कूट-हिरण्य-कुप्य-भाण्डेषु सार्थ-व्रज-ग्रामेष्वेनानभियोजयेयुः ।। ०४.५.१५ ।। अभियोगे गूढ-बलैर्घातयेयुः । मदन-रस-युक्तेन वा पथ्य्-अदनेन ।। ०४.५.१६ ।। गृहीत-लोप्त्र-भारानायत-गत-परिश्रान्तान्प्रस्वपतः प्रहवणेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१७ ।। पूर्ववच्च गृहीत्वाएनान्समाहर्ता प्ररूपयेत् । ।। ०४.५.१८अ ब ।। सर्वज्ञ-ख्यापनं राज्ञः कारयन्राष्ट्र-वासिषु ।। ०४.५.१८च्द् ।।
✦ ✦ ✦
“Some men live beyond their visible means, keep company with known offenders, or vanish fro…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.