Arthashastra. Book 4, Chapter 6: Sudden wealth invites lawful inquiry

Book 4 · Chapter 6

Removal of Thorns

Sudden wealth invites lawful inquiry

सिद्ध-प्रयोगादूर्ध्वं शङ्का-रूप-कर्म-अभिग्रहः ।। ०४.६.०१ ।। क्षीण-दाय-कुटुम्बम् । अल्प-निर्वेशं । विपरीत-देश-जाति-गोत्र-नाम-कर्म-अपदेशं । प्रच्छन्न-वृत्ति-कर्माणं । ।। ०४.६.०२अ ।। मांस-सुरा-भक्ष्य-भोजन-गन्ध-माल्य-वस्त्र-विभूषणेषु प्रसक्तम् । अतिव्यय-कर्तारं । पुंश्चली-द्यूत-शौण्डिकेषु प्रसक्तम् । ।। ०४.६.०२ब ।। अभीक्ष्ण-प्रवासिनम् । अविज्ञात-स्थान-गमनम् । एकान्त-अरण्य-निष्कुट-विकाल-चारिणं । प्रच्छन्ने स-आमिषे वा देशे बहु-मन्त्र-संनिपातं । ।। ०४.६.०२क ।। सद्यः-क्षत-व्रणानां गूढ-प्रतीकार-कारयितारम् । अन्तर्-गृह-नित्यम् । अभ्यधिगन्तारं । कान्ता-परं । ।। ०४.६.०२ड ।। पर-परिग्रहाणां पर-स्त्री-द्रव्य-वेश्मनां अभीक्ष्ण-प्रष्टारं । कुत्सित-कर्म-शास्त्र-उपकरण-संसर्गं । ।। ०४.६.०२ए ।। विरात्रे छन्न-कुड्यच्-छाया-संचारिणं । विरूप-द्रव्याणां अदेश-काल-विक्रेतारं । जात-वैरशयं । हीन-कर्म-जातिं । ।। ०४.६.०२फ़् ।। विगूहमान-रूपं । लिङ्गेनऽलिङ्गिनं । लिङ्गिनं वा भिन्न-आचारं । पूर्व-कृत-अपदानं । स्व-कर्मभिरपदिष्टं । ।। ०४.६.०२ग् ।। नागरिक-महा-मात्र-दर्शने गुहमानं अपसरन्तं अनुच्छ्वास-उपवेशिनं आविग्नं शुष्क-भिन्न-स्वर-मुख-वर्णं । ।। ०४.६.०२ह् ।। शस्त्र-हस्त-मनुष्य-सम्पात-त्रासिनं । हिंस्र-स्तेन-निधि-निक्षेप-अपहार-पर-प्रयोग-गूढ-आजीविनां अन्यतमं शङ्केत इति शङ्का-अभिग्रहः ।। ०४.६.०२इ ।। रूप-अभिग्रहस्तु नष्ट-अपहृतं अविद्यमानं तज्-जात-व्यवहारिषु निवेदयेत् ।। ०४.६.०३ ।। तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्य-कर-दोषं आप्नुयुः ।। ०४.६.०४ ।। अजानन्तोअस्य द्रव्यस्यातिसर्गेण मुच्येरन् ।। ०४.६.०५ ।। न चानिवेद्य संस्था-अध्यक्षस्य पुराण-भाण्डानां आधानं विक्रयं वा कुर्युः ।। ०४.६.०६ ।। तच्चेन्निवेदितं आसाद्येत । रूप-अभिगृहीतं आगमं पृच्छेत्"कुतस्ते लब्धम्" इति ।। ०४.६.०७ ।। स चेत्ब्रूयात्"दायाद्यादवाप्तम् । अमुष्माल्लब्धं क्रीतं कारितं आधि-प्रच्छन्नम् । अयं अस्य देशः कालश्चौपसम्प्राप्तेः । अयं अस्यार्घः प्रमाणं लक्षणं मूल्यं च" इति । तस्यऽगम-समाधौ मुच्येत ।। ०४.६.०८ ।। नाष्टिकश्चेत्तदेव प्रतिसंदध्यात् । यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यं इति विद्यात् ।। ०४.६.०९ ।। चतुष्पद-द्विपदानां अपि हि रूप-लिङ्ग-सामान्यं भवति । किं अङ्ग पुनरेक-योनि-द्रव्य-कर्तृ-प्रसूतानां कुप्य-आभरण-भाण्डानां इति ।। ०४.६.१० ।। स चेद्ब्रूयात्"याचितकं अवक्रीतकं आहितकं निक्षेपं उपनिधिं वैयावृत्य-कर्म वाअमुष्य" इति । तस्यापसार-प्रतिसंधानेन मुच्येत ।। ०४.६.११ ।। "नएवम्" इत्यपसारो वा ब्रूयात् । रूप-अभिगृहीतः परस्य दान-कारणं आत्मनः प्रतिग्रह-कारणं उपलिङ्गनं वा दायक-दापक-निबन्धक-प्रतिग्राहक-उपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत् ।। ०४.६.१२ ।। उज्झित-प्रनष्ट-निष्पतित-उपलब्धस्य देश-काल-लाभ-उपलिङ्गनेन शुद्धिः ।। ०४.६.१३ ।। अशुद्धस्तच्च तावच्च दण्डं दद्यात् ।। ०४.६.१४ ।। अन्यथा स्तेय-दण्डं भजेत इति रूप-अभिग्रहः । ।। ०४.६.१५ ।। कर्म-अभिग्रहस्तु मुषित-वेश्मनः प्रवेश-निष्कसनं अद्वारेण । द्वारस्य संधिना बीजेन वा वेधम् । उत्तम-अगारस्य जाल-वात-अयन-नीप्र-वेधम् । आरोहण-अवतरणे च कुड्यस्य वेधम् । उपखननं वा गूढ-द्रव्य-निक्षेपण-ग्रहण-उपायम् । उपदेश-उपलभ्यं अभ्यन्तरच्-छेद-उत्कर-परिमर्द-उपकरणं अभ्यन्तर-कृतं विद्यात् ।। ०४.६.१६ ।। विपर्यये बाह्य-कृतम् । उभयत उभय-कृतं ।। ०४.६.१७ ।। अभ्यन्तर-कृते पुरुषं आसन्नं व्यसनिनं क्रूर-सहायं तस्कर-उपकरण-संसर्गं । स्त्रियं वा दरिद्र-कुलां अन्य-प्रसक्तां वा । ।। ०४.६.१८अ ।। परिचारक-जनं वा तद्-विध-आचारम् । अतिस्वप्नं । निद्रा-क्लान्तम् । आविग्नं- शुष्क-भिन्न-स्वर-मुख-वर्णम् । अनवस्थितम् । ।। ०४.६.१८ब ।। अतिप्रलापिनम् । उच्च-आरोहण-संरब्ध-गात्रं । विलून-निघृष्ट-भिन्न-पाटित-शरीर-वस्त्रं । जात-किण-संरब्ध-हस्त-पादं । ।। ०४.६.१८क ।। पांसु-पूर्ण-केश-नखं विलून-भुग्न-केश-नखं वा । सम्यक्-स्नात-अनुलिप्तं तैल-प्रमृष्ट-गात्रं सद्यो-दौत-हस्त-पादं वा । ।। ०४.६.१८ड ।। पांसु-पिच्छिलेषु तुल्य-पाद-पद-निक्षेपं । प्रवेश-निष्कसनयोर्वा तुल्य-माल्य-मद्य-गन्ध-वस्त्रच्-छेद-विलेपन-स्वेदं परीक्षेत ।। ०४.६.१८ए ।। चोरं पारदारिकं वा विद्यात् ।। ०४.६.१९ ।। सगोप-स्थानिको बाह्यं प्रदेष्टा चोर-मार्गणं । ।। ०४.६.२०अ ब ।। कुर्यान्नागरिकश्चान्तर्-दुर्गे निर्दिष्ट-हेतुभिः ।। ०४.६.२०च्द् ।।

✦ ✦ ✦

When a man's house begins to glitter without a visible trade, when his stores swell while
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.