Arthashastra. Book 4, Chapter 8: Interrogation has limits. Confession is not proof
Book 4 · Chapter 8
Removal of Thorns
Interrogation has limits. Confession is not proof
मुषित-संनिधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देश-जाति-गोत्र-नाम-कर्म-सार-सहाय-निवासाननुयुञ्जीत ।। ०४.८.०१ ।। तांश्चापदेशैः प्रतिसमानयेत् ।। ०४.८.०२ ।। ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणादित्यनुयुञ्जीत ।। ०४.८.०३ ।। तस्यापसार-प्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्म-प्राप्तः ।। ०४.८.०४ ।। त्रि-रात्रादूर्ध्वं अग्राह्यः शङ्कितकः पृच्छा-अभावादन्यत्रौपकरण-दर्शनात् ।। ०४.८.०५ ।। अचोरं चोर इत्यभिव्याहरतश्चोर-समो दण्डः । चोरं प्रच्छादयतश्च ।। ०४.८.०६ ।। चोरेणाभिशस्तो वैर-द्वेषाभ्यां अपदिष्टकः शुद्धः स्यात् ।। ०४.८.०७ ।। शुद्धं परिवासयतः पूर्वः साहस-दण्डः ।। ०४.८.०८ ।। शङ्का-निष्पन्नं उपकरण-मन्त्रि-सहाय-रूप-वैयावृत्य-करान्निष्पादयेत् ।। ०४.८.०९ ।। कर्मणश्च प्रदेश-द्रव्य-आदान-अंश-विभागैः प्रतिसमानयेत् ।। ०४.८.१० ।। एतेषां कारणानां अनभिसंधाने विप्रलपन्तं अचोरं विद्यात् ।। ०४.८.११ ।। दृश्यते ह्यचोरोअपि चोर-मार्गे यदृच्छया संनिपाते चोर-वेष-शस्त्र-भाण्ड-सामान्येन गृह्यमाणश्चोर-भाण्डस्यौपवासेन वा । यथाअणि-माण्डव्यः कर्म-क्लेश-भयादचोरः "चोरोअस्मि" इति ब्रुवाणः ।। ०४.८.१२ ।। तस्मात्समाप्त-करणं नियमयेत् ।। ०४.८.१३ ।। मन्द-अपराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्-पिपासा-अध्व-क्लान्तं अत्याशितं आमक-अशितं दुर्बलं वा न कर्म कारयेत् ।। ०४.८.१४ ।। तुल्य शील-पुंश्चली-प्रापाविक-कथा-अवकाश-भोजन-दातृभिरपसर्पयेत् ।। ०४.८.१५ ।। एवं अतिसंदध्यात् । यथा वा निक्षेप-अपहारे व्याख्यातं ।। ०४.८.१६ ।। आप्त-दोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मास-अवर-प्रजातां ।। ०४.८.१७ ।। स्त्रियास्त्वर्ध-कर्म । वाक्य-अनुयोगो वा ।। ०४.८.१८ ।। ब्राह्मणस्य सत्त्रि-परिग्रहः श्रुतवतस्तपस्विनश्च ।। ०४.८.१९ ।। तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च । कर्मणा व्यापादनेन च ।। ०४.८.२० ।। व्यावहारिकं कर्म-चतुष्कं षड्दण्डाः । सप्त कशाः । द्वावुपरि-निबन्धौ । उदक-नालिका च ।। ०४.८.२१ ।। परं पाप-कर्मणां नव वेत्र-लताः । द्वादश कशाः । द्वावूरु-वेष्टौ । विंशतिर्नक्त-माल-लताः । द्वात्रिंशत्-तलाः । द्वौ वृश्चिक-बन्धौ । उल्लंबने च द्वे । सूची हस्तस्य । यवागू-पीतस्य एक-पर्व-दहनं अङ्गुल्याः । स्नेह-पीतस्य प्रतापनं एकं अहः । शिशिर-रात्रौ बल्बज-अग्र-शय्या च ।। ०४.८.२२ ।। इत्यष्टादशकं कर्म ।। ०४.८.२३ ।। तस्य-उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खर-पट्टादागमयेत् ।। ०४.८.२४ ।। दिवस-अन्तरं एक-एकं च कर्म कारयेत् ।। ०४.८.२५ ।। पूर्व-कृत-अपदानं प्रतिज्ञायापहरन्तं एक-देश-दृष्ट-द्रव्यं कर्मणा रूपेण वा गृहीतं राज-कोशं अवस्तृणन्तं कर्म-वध्यं वा राज-वचनात्समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत् ।। ०४.८.२६ ।। सर्व-अपराधेष्वपीडनीयो ब्राह्मणः ।। ०४.८.२७ ।। तस्याभिशस्त-अङ्को ललाटे स्याद्व्यवहार-पतनाय । स्तेयो श्वा । मनुष्य-वधे कबन्धः । गुरु-तल्पे भगम् । सुरा-पाने मद्य-ध्वजः ।। ०४.८.२८ ।। ब्राह्मणं पाप-कर्माणं उद्घुष्याङ्क-कृत-व्रणं । ।। ०४.८.२९अ ब ।। कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ।। ०४.८.२९च्द् ।।
✦ ✦ ✦
“A man shall not be put to harsh questioning on the strength of rumour alone. Witnesses mus…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.