Arthashastra. Book 4, Chapter 10: Interrogation has rules, even in antiquity
Book 4 · Chapter 10
Removal of Thorns
Interrogation has rules, even in antiquity
तीर्थ-घात-ग्रन्थि-भेद-ऊर्ध्व-कराणां प्रथमेअपराधे संदेशच्-छेदनं चतुष्-पञ्चाशत्-पणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो वा दण्डः । तृतीये दक्षिण-हस्त-वधश्चतुः-शतो वा दण्डः । चतुर्थे यथा-कामी वधः ।। ०४.१०.०१ ।। पञ्च-विंशति-पण-अवरेषु कुक्कुट-नकुल-मार्जार-श्व-सूकर-स्तेयेषु हिंसायां वा चतुष्-पञ्चाशत्-पणो दण्डः । नास-अग्रच्-छेदनं वा चण्डाल-अरण्य-चराणां अर्ध-दण्डाः ।। ०४.१०.०२ ।। पाश-जाल-कूट-अवपातेषु बद्धानां मृग-पशु-पक्षि-व्याल-मत्स्यानां आदाने तच्च तावच्च दण्डः ।। ०४.१०.०३ ।। मृग-द्रव्य-वनान्मृग-द्रव्य-अपहारे शात्यो दण्डः ।। ०४.१०.०४ ।। बिंब-विहार-मृग-पक्षि-स्तेये हिंसायां वा द्वि-गुणो दण्डः ।। ०४.१०.०५ ।। कारु-शिल्पि-कुशीलव-तपस्विनां क्षुद्रक-द्रव्य-अपहारे शत्यो दण्डः । स्थूलक-द्रव्य-अपहारे द्वि-शतः । कृषि-द्रव्य-अपहारे च ।। ०४.१०.०६ ।। दुर्गं अकृत-प्रवेशस्य प्रविशतः प्राकारच्-छिद्राद्वा निक्षेपं गृहीत्वाअपसरतः काण्डरा-वधो । द्वि-शातो वा दण्डः ।। ०४.१०.०७ ।। चक्र-युक्तं नावं क्षुद्र-पशुं वाअपहरत एक-पाद-वधः । त्रि-शतो वा दण्डः ।। ०४.१०.०८ ।। कूट-काकण्य्-अक्ष-अराला-शलाका-हस्त-विषम-कारिण एक-हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१०.०९ ।। स्तेन-पारदारिकयोः साचिव्य-कर्मणि स्त्रियाः संगृहीतायाश्च कर्ण-नासाच्-छेदनम् । पञ्च-शतो वा दण्डः । पुंषो द्वि-गुणः ।। ०४.१०.१० ।। महा-पशुं एकं दासं दासीं वाअपहरतः प्रेत-भाण्डं वा विक्रीणानस्य द्वि-पाद-वधः । षट्-छतो वा दण्डः ।। ०४.१०.११ ।। वर्ण-उत्तमानां गुरूणां च हस्त-पाद-लङ्घने राज-यान-वाहन-आद्य्-आरोहणे चएक-हस्त-पाद-वधः । सप्त-शतो वा दण्डः ।। ०४.१०.१२ ।। शूद्रस्य ब्राह्मण-वादिनो देव-द्रव्यं अवस्तृणतो राज-द्विष्टं आदिशतो द्वि-नेत्र-भेदिनश्च योग-अञ्जनेनान्धत्वम् । अष्ट-शतो वा दण्डः ।। ०४.१०.१३ ।। चोरं पारदारिकं वा मोक्षयतो राज-शासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा सहिरण्यं अपरहतः कूट-व्यवहारिणो विमांस-विक्रयिणश्च वाम-हस्त-द्वि-पाद-वधो । नव-शतो वा दण्डः ।। ०४.१०.१४ ।। मानुष-मांस-विक्रये वधः ।। ०४.१०.१५ ।। देव-पशु-प्रतिमा-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-रत्न-सस्य-अपहारिण उत्तमो दण्डः । शुद्ध-वधो वा ।। ०४.१०.१६ ।। पुरुषं चापराधं च कारणं गुरु-लाघवं । ।। ०४.१०.१७अ ब ।। अनुबन्धं तदात्वं च देश-कालौ समीक्ष्य च ।। ०४.१०.१७च्द् ।। उत्तम-अवर-मध्यत्वं प्रदेष्टा दण्ड-कर्मणि । ।। ०४.१०.१८अ ब ।। राज्ञश्च प्रकृतीनां च कल्पयेदन्तरा स्थितः ।। ०४.१०.१८च्द् ।।
✦ ✦ ✦
“The treatise sets out who may be questioned harshly and who may not. Sparing minors, the a…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.