Arthashastra. Book 4, Chapter 12: Sexual offences and the duty to protect
Book 4 · Chapter 12
Removal of Thorns
Sexual offences and the duty to protect
सवर्णां अप्राप्त-फलां प्रकुर्वतो हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१२.०१ ।। मृतायां वधः ।। ०४.१२.०२ ।। प्राप्त-फलां प्रकुर्वतो मध्यमा-प्रदेशिनी-वधो । द्वि-शतो वा दण्डः ।। ०४.१२.०३ ।। पितुश्चावहीनं दद्यात् ।। ०४.१२.०४ ।। न च प्राकाम्यं अकामायां लब्भेत ।। ०४.१२.०५ ।। सकामायां चतुष्-पञ्चाशत्-पणो दण्डः । स्त्रियास्त्वर्ध-दण्डः ।। ०४.१२.०६ ।। पर-शुल्क-अवरुद्धायां हस्त-वधः । चतुः-शतो वा दण्डः । शुल्क-दानं च ।। ०४.१२.०७ ।। सप्त-आर्तव-प्रजातां वरणादूर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात् । न च पितुरवहीनं दद्यात् ।। ०४.१२.०८ ।। ऋतु-प्रतिरोधिभिः स्वाम्यादपक्रामति ।। ०४.१२.०९ ।। त्रि-वर्ष-प्रजात-आर्तवायास्तुल्यो गन्तुं अदोषः । ततः परं अतुल्योअप्यनलंकृतायाः ।। ०४.१२.१० ।। पितृ-द्रव्य-आदाने स्तेयं भजेत ।। ०४.१२.११ ।। परं उद्दिश्यान्यस्य विन्दतो द्वि-शतो दण्डः ।। ०४.१२.१२ ।। न च प्राकांयं अकामायां लभेत ।। ०४.१२.१३ ।। कन्यां अन्यां दर्शयित्वाअन्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम् । हीनायां द्वि-गुणः ।। ०४.१२.१४ ।। प्रकर्मण्यकुमार्याश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ।। ०४.१२.१५ ।। अवस्थाय तज्-जातं पश्चात्-कृता द्वि-गुणं दद्यात् ।। ०४.१२.१६ ।। अन्य-शोणित-उपधाने द्विशतो दण्डः । मिथ्या-अभिशंसिनश्च पुंसः ।। ०४.१२.१७ ।। शुल्क-व्यय-कर्मणी च जीयेत ।। ०४.१२.१८ ।। न च प्राकांयं अकामायां लभेत ।। ०४.१२.१९ ।। स्त्री-प्रकृता सकामा समाना द्वादश-पणं दण्डं दद्यात् । प्रकर्त्री द्वि-गुणं ।। ०४.१२.२० ।। अकामायाः शत्यो दण्ड आत्म-राग-अर्थम् । शुल्क-दानं च ।। ०४.१२.२१ ।। स्वयं प्रकृता राज-दास्यं गच्छेत् ।। ०४.१२.२२ ।। बहिर्-ग्रामस्य प्रकृतायां मिथ्या-अभिशंसने च द्वि-गुणो दण्डः ।। ०४.१२.२३ ।। प्रसह्य कन्यां अपहरतो द्वि-शतः । ससुवर्णां उत्तमः ।। ०४.१२.२४ ।। बहूनां कन्या-अपहारिणां पृथग्यथा-उक्ता दण्डाः ।। ०४.१२.२५ ।। गणिका-दुहितरं प्रकुर्वतश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्कं मातुर्भोगः षोडश-गुणः ।। ०४.१२.२६ ।। दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्-विंशति-पणो दण्डः शुल्क-आबन्ध्य-दानं च ।। ०४.१२.२७ ।। निष्क्रय-अनुरूपां दासीं प्रकुर्वतो द्वादश-पणो दण्डो वस्त्र-आबन्ध्य-दानं च ।। ०४.१२.२८ ।। साचिव्य-अवकाश-दाने कर्तृ-समो दण्डः ।। ०४.१२.२९ ।। प्रोषित-पतिकां अपचरन्तीं पति-बन्धुस्तत्-पुरुषो वा संगृह्णीयात् ।। ०४.१२.३० ।। संगृहीता पतिं आकाङ्क्षेत ।। ०४.१२.३१ ।। पतिश्चेत्क्षमेत विसृज्येतौभयं ।। ०४.१२.३२ ।। अक्षमायां स्त्रियाः कर्ण-नास-आच्छेदनम् । वधं जारश्च प्राप्नुयात् ।। ०४.१२.३३ ।। जारं चोर इत्यभिहरतः पञ्च-शतो दण्डः । हिरण्येन मुञ्चतस्तद्-अष्ट-गुणः ।। ०४.१२.३४ ।। केशाकेशिकं संग्रहणम् । उपलिङ्गनाद्वा शरीर-उपभोगानाम् । तज्-जातेभ्यः(तज्-ज्ञातेभ्यः? च्फ़्-ण्१२-६०)) । स्त्री-वचनाद्वा ।। ०४.१२.३५ ।। पर-चक्र-अटवी-हृतां ओघ-प्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत-भाव-उत्सृष्टां वा पर-स्त्रियं निस्तारयित्वा यथा-संभाषितं समुपभुञ्जीत ।। ०४.१२.३६ ।। जाति-विशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात् ।। ०४.१२.३७ ।। चोर-हस्तान्नदी-वेगाद्दुर्भिक्षाद्देश-विभ्रमात् । ।। ०४.१२.३८अ ब ।। निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृताइति वा ।। ०४.१२.३८च्द् ।। भुञ्जीत स्त्रियं अन्येषां यथा-संभाषितं नरः । ।। ०४.१२.३९अ ब ।। न तु राज-प्रतापेन प्रमुक्तां स्वजनेन वा ।। ०४.१२.३९च्द् ।। न चौत्तमां न चाकामां पूर्व-अपत्यवतीं न च । ।। ०४.१२.४०अ ब ।। ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ।। ०४.१२.४०च्द् ।।
✦ ✦ ✦
“The treatise marks sexual offences as a distinct category, with heavier penalties where th…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.