Arthashastra. Book 4, Chapter 13: The night patrol and the city that refuses to sleep on duty
Book 4 · Chapter 13
Removal of Thorns
The night patrol and the city that refuses to sleep on duty
ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः । क्षत्रियं मध्यमः । वैश्यं पूर्वः साहस-दण्डः । शूद्रं चतुष्-पञ्चाशत्-पणो दण्डः ।। ०४.१३.०१ ।। स्वयं ग्रसितारो निर्विषयाः कार्याः ।। ०४.१३.०२ ।। पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ।। ०४.१३.०३ ।। दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ।। ०४.१३.०४ ।। भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्त-प्रवेशाश्चादण्ड्याः । अन्यत्र प्रतिषेधात् ।। ०४.१३.०५ ।। स्व-वेश्मनो विरात्रादूर्ध्वं परिवारं आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनो मध्यमः । ग्राम-आराम-वाट-भेदिनश्च ।। ०४.१३.०६ ।। ग्रामेष्वन्तः सार्थिका ज्ञात-सारा वसेयुः ।। ०४.१३.०७ ।। मुषितं प्रवासितं चएषां अनिर्गतं रात्रौ ग्राम-स्वामी दद्यात् ।। ०४.१३.०८ ।। ग्राम-अन्तरेषु वा मुषितं प्रवासितं विवीत-अध्यक्षो दद्यात् ।। ०४.१३.०९ ।। अविवीतानां चोर-रज्जुकः ।। ०४.१३.१० ।। तथाअप्यगुप्तानां सीम-अवरोधेन विचयं दद्युः ।। ०४.१३.११ ।। असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ।। ०४.१३.१२ ।। दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्ध-स्तंभं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूट-अवपातं वा कृत्वा हिंसायां दण्ड-पारुष्यं विद्यात् ।। ०४.१३.१३ ।। वृक्षच्-छेदने दंय-रश्मि-हरणे चतुष्पदानां अदान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ।। ०४.१३.१४ ।। हस्तिना रोषितेन हतो द्रोण-अन्नं मद्य-कुंभं माल्य-अनुलेपनं दन्त-प्रमार्जनं च पटं दद्यात् ।। ०४.१३.१५ ।। अश्व-मेध-अवभृथ-स्नानेन तुल्यो हस्तिना वध इति पाद-प्रक्षालनं ।। ०४.१३.१६ ।। उदासीन-वधे यातुरुत्तमो दण्डः ।। ०४.१३.१७ ।। शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ।। ०४.१३.१८ ।। शृङ्गि-दंष्ट्रिभ्यां अन्योन्यं घातयतस्तच्च तावच्च दण्डः ।। ०४.१३.१९ ।। देव-पशुं ऋषभं उक्षाणं गो-कुमारीं वा वाहयतः पञ्च-शतो दण्डः । प्रवासयत उत्तमः ।। ०४.१३.२० ।। लोम-दोह-वाहन-प्रजनन-उपकारिणां क्षुद्र-पशूनां अदाने तच्च तावच्च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ।। ०४.१३.२१ ।। छिन्न-नस्यं भग्न-युगं तिर्यक्-प्रतिमुख-आगतं प्रत्यासरद्वा चक्र-युक्तं याता पशु-मनुष्य-संबाधे वा हिंसायां अदण्ड्यः ।। ०४.१३.२२ ।। अन्यथा यथा-उक्तं मानुष-प्राणि-हिंसायां दण्डं अभ्यावहेत् ।। ०४.१३.२३ ।। अमानुष-प्राणि-वधे प्राणि-दानं च ।। ०४.१३.२४ ।। बाले यातरि यानस्थः स्वामी दण्ड्यः । अस्वामिनि यानस्थः । प्राप्त-व्यवहारो वा याता ।। ०४.१३.२५ ।। बाल-अधिष्ठितं अपुरुषं वा यानं राजा हरेत् ।। ०४.१३.२६ ।। कृत्य-अभिचाराभ्यां यत्-परं आपादयेत्तद्-आपादयितव्यः ।। ०४.१३.२७ ।। कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दार-अर्थिनो भर्तरि भार्याया वा संवदन-करणं ।। ०४.१३.२८ ।। अन्यथा-हिंसायां मध्यमः साहस-दण्डः ।। ०४.१३.२९ ।। माता-पित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाअधिचरतस्त्रि-लिङ्गच्-छेदनं वधश्च ।। ०४.१३.३० ।। सकामा तदेव लभेत । दास-परिचारक-आहितक-भुक्ता च ।। ०४.१३.३१ ।। ब्राह्मण्यां अगुप्तायां क्षत्रियस्यौत्तमः । सर्व-स्वं वैश्यस्य । शूद्रः कट-अग्निना दह्येत ।। ०४.१३.३२ ।। सर्वत्र राज-भार्या-गमने कुंभी-पाकः ।। ०४.१३.३३ ।। श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयं गच्छेत् । श्व-पाकत्वं वा शूद्रः ।। ०४.१३.३४ ।। श्व-पाकस्यऽर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनं ।। ०४.१३.३५ ।। प्रव्रजिता-गमने चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३६ ।। सकामा तदेव लभेत ।। ०४.१३.३७ ।। रूप-आजीवायाः प्रसह्य-उपभोगे द्वादश-पणो दण्डः ।। ०४.१३.३८ ।। बहूनां एकां अधिचरतां पृथक्चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३९ ।। स्त्रियं अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषं अधिमेहतश्च ।। ०४.१३.४० ।। मैथुने द्वादश-पणस्तिर्यग्-योनिष्वनात्मनः । ।। ०४.१३.४१अ ब ।। दैवत-प्रतिमानां च गमने द्वि-गुणः स्मृतः ।। ०४.१३.४१च्द् ।। अदण्ड्य-दण्डने राज्ञो दण्डस्त्रिंशद्-गुणोअंभसि । ।। ०४.१३.४२अ ब ।। वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परं ।। ०४.१३.४२च्द् ।। तेन तत्पूयते पापं राज्ञो दण्ड-अपचारजं । ।। ०४.१३.४३अ ब ।। शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ।। ०४.१३.४३च्द् ।।
✦ ✦ ✦
“Six watches divide the night, and at every watch the patrol moves. Drums sound the hours,…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.