Arthashastra. Book 5, Chapter 1: Replenishing the treasury. Emergency levies from those most able to bear them
Book 5 · Chapter 1
Conduct of Courtiers
Replenishing the treasury. Emergency levies from those most able to bear them
दुर्ग-राष्ट्रयोः कण्टक-शोधनं उक्तं ।। ०५.१.०१ ।। राज-राज्ययोर्वक्ष्यामः ।। ०५.१.०२ ।। राजानं अवगृह्यौपजीविनः शत्रु-साधारणा वा ये मुख्यास्तेषु गूढ-पुरुष-प्रणिधिः कृत्य-पक्ष-उपग्रहो वा सिद्धिः यथा-उक्तं पुरस्ताद् । उपजापोअपसर्पो वा यथा पारग्रामिके वक्ष्यामः ।। ०५.१.०३ ।। राज्य-उपघातिनस्तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म-रुचिरुपांशु-दण्डं प्रयुञ्जीत ।। ०५.१.०४ ।। दूष्य-महा-मात्र-भ्रातरं असत्-कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ।। ०५.१.०५ ।। तं राजा दूष्य-द्रव्य-उपभोग-अतिसर्गेण दूष्ये विक्रमयेत् ।। ०५.१.०६ ।। शस्त्रेण रसेन वा विक्रान्तं तत्रएव घातयेद्"भ्रातृ-घातकोअयम्" इति ।। ०५.१.०७ ।। तेन पारशवः परिचारिका-पुत्रश्च व्याख्यातौ ।। ०५.१.०८ ।। दूष्यं-महामात्रं वा सत्त्रि-प्रोत्साहितो भ्राता दायं याचेत ।। ०५.१.०९ ।। तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद्"हतोअयं दाय-कामुकः" इति ।। ०५.१.१० ।। ततो हत-पक्षं उपगृह्यैतरं निगृह्णीयात् ।। ०५.१.११ ।। दूष्य-समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ।। ०५.१.१२ ।। तं रात्रौ इति समानं ।। ०५.१.१३ ।। दूष्य-महा-मात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारानधिचरति । भ्राता वा भ्रातुः । तयोः कापटिक-मुखः कलहः पूर्वेण व्याख्यातः ।। ०५.१.१४ ।। दूष्य-महा-मात्र-पुत्रं आत्म-संभावितं वा सत्त्री "राज-पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इत्युपजपेत् ।। ०५.१.१५ ।। प्रतिपन्नं राजा रहसि पूजयेत्"प्राप्त-यौवराज्य-कालं त्वां महा-मात्र-भयान्नाभिषिञ्चामि" इति ।। ०५.१.१६ ।। तं सत्त्री महा-मात्र-वधे योजयेत् ।। ०५.१.१७ ।। विक्रान्तं तत्रएव घातयेत्"पितृ-घातकोअयम्" इति ।। ०५.१.१८ ।। भिक्षुकी वा दूष्य-भार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंदध्यात् ।। ०५.१.१९ ।। इत्याप्य-प्रयोगः ।। ०५.१.२० ।। दूष्य-महा-मात्रं अटवीं पर-ग्रामं वा हन्तुं कान्तार-व्यवहिते वा देशे राष्ट्र-पालं अन्त-पालं वा स्थापयितुं नागर-स्थानं वा कुपितं अवग्राहितुं सार्थ-अतिवाह्यं प्रत्यन्ते वा सप्रत्यादेयं आदातुं फल्गु-बलं तीक्ष्ण-युक्तं प्रेषयेत् ।। ०५.१.२१ ।। रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक-व्यञ्जना वा हन्युः "अभियोगे हतः" इति ।। ०५.१.२२ ।। यात्रा-विहार-गतो वा दूष्य-महा-मात्रान्दर्शनायऽह्वयेत् ।। ०५.१.२३ ।। ते गूढ-शस्त्रैस्तीक्ष्णैः सह प्रविष्टा मध्यम-कक्ष्यायां आत्म-विचयं अन्तः-प्रवेशन-अर्थं दद्युः ।। ०५.१.२४ ।। ततो दौवारिक-अभिगृहीतास्तीक्ष्णाः "दूष्य-प्रयुक्ताः स्म" इति ब्रूयुः ।। ०५.१.२५ ।। ते तद्-अभिविख्याप्य दूष्यान्हन्युः ।। ०५.१.२६ ।। तीक्ष्ण-स्थाने चान्ये वध्याः ।। ०५.१.२७ ।। बहिर्-विहार-गतो वा दूष्यानासन्न-आवासान्पूजयेत् ।। ०५.१.२८ ।। तेषां देवी-व्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येतैति समानं पूर्वेण ।। ०५.१.२९ ।। दूष्य-महा-मात्रं वा "सूदो भक्ष-कारो वा ते शोभनः" इति स्तवेन भक्ष्य-भोज्यं याचेत । बहिर्वा क्वचिदध्व-गतः पानीयं ।। ०५.१.३० ।। तद्-उभयं रसेन योजयित्वा प्रतिस्वादने तावेवौपयोजयेत् ।। ०५.१.३१ ।। तद्-अभिविख्याप्य "रसदौ" इति घातयेत् ।। ०५.१.३२ ।। अभिचार-शीलं वा सिद्ध-व्यञ्जनो "गोधा-कूर्म-कर्कटक-कूटानां लक्षण्यानां अन्यतम-प्राशनेन मनोरथानवाप्स्यसि" इति ग्राहयेत् ।। ०५.१.३३ ।। प्रतिपन्नं कर्मणि रसेन लोह-मुसलैर्वा घातयेत्"कर्म-व्यापदा हतः" इति ।। ०५.१.३४ ।। चिकित्सक-व्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य-आहार-योगेषु रसेनातिसंदध्यात् ।। ०५.१.३५ ।। सूद-आरालिक-व्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसंदध्युः ।। ०५.१.३६ ।। इत्युपनिषत्-प्रतिषेधः ।। ०५.१.३७ ।। उभय-दूष्य-प्रतिषेधस्तु ।। ०५.१.३८ ।। यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यं एव फल्गु-बल-तीक्ष्ण-युक्तं प्रेषयेत् । गच्छ । अमुष्मिन्दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा । वल्लभाद्वा हिरण्यं आहारय । वल्लभ-कन्यां वा प्रसह्यऽनय । दुर्ग-सेतु-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्मणां अन्यतमद्वा कारय राष्ट्र-पाल्यं अन्त-पाल्यं वा यश्च त्वा प्रतिषेधयेन् ।। ०५.१.३९ ।। ।। न वा ते साहाय्यं दद्यात्स बन्धव्यः स्यात्" इति ।। तथैवैतरेषां प्रेषयेद्"अमुष्याविनयः प्रतिषेद्धव्यः" इति ।। ०५.१.४० ।। तं एतेषु कलह-स्थानेषु कर्म-प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ।। ०५.१.४१ ।। तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४२ ।। पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा-क्षेत्र-खल-वेश्म-मर्यादासु द्रव्य-उपकरण-सस्य-वाहन-हिंसासु प्रेक्षा-कृत्यौत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते येअमुना कलहायन्तेः इति ।। ०५.१.४३ ।। तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४४ ।। येषां वा दूष्याणां जात-मूलाः कलहास्तेषां क्षेत्र-खल-वेश्मान्यादीपयित्वा बन्धु-संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ।। ०५.१.४५ ।। तेन दोषेणैतरे नियन्तव्याः ।। ०४.४.४६ ।। दुर्ग-राष्ट्र-दूष्यान्वा सत्त्रिणः परस्परस्यऽवेशनिकान्कारयेयुः ।। ०५.१.४७ ।। तत्र रसदा रसं दद्युः ।। ०५.१.४८ ।। तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४९ ।। भिक्षुकी वा दूष्य-राष्ट्र-मुख्यं "दूष्य-राष्ट्र-मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्युपजपेत् ।। ०५.१.५० ।। प्रतिपन्नस्यऽभरणं आदाय स्वामिने दर्शयेत्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यां स्नुषां दुहितरं वाअभिमन्यते" इति ।। ०५.१.५१ ।। तयोः कलहो रात्रौ इति समानं ।। ०५.१.५२ ।। दूष्य-दण्ड-उपनतेषु तु युव-राजः सेना-पतिर्वा किंचिदपकृत्यापक्रान्तो विक्रमेत ।। ०५.१.५३ ।। ततो राजा दूष्य-दण्ड-उपनतानेव प्रेषयेत्फल्गु-बल-तीक्ष्ण-युक्तानिति समानाः सर्व एव योगाः ।। ०५.१.५४ ।। तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृ-दायं लभेत ।। ०५.१.५५ ।। एवं अस्य पुत्र-पौत्राननुवर्तते राज्यं अपास्त-पुरुष-दोषं ।। ०५.१.५६ ।। स्व-पक्षे पर-पक्षे वा तूष्णीं दण्डं प्रयोजयेत् । ।। ०५.१.५७अ ब ।। आयत्यां च तदात्वे च क्षमावानविशङ्कितः ।। ०५.१.५७च्द् ।।
✦ ✦ ✦
“When the treasury runs dry from war, calamity, or extraordinary outlay, the king shall not…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.