Arthashastra. Book 5, Chapter 2: Tax the ripe, not the unripe
Book 5 · Chapter 2
Conduct of Courtiers
Tax the ripe, not the unripe
कोशं अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ।। ०५.२.०१ ।। जन-पदं महान्तं अल्प-प्रमाणं वाअदेव-मातृकं प्रभूत-धान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत । यथा-सारं मध्यं अवरं वा ।। ०५.२.०२ ।। दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणं प्रत्यन्तं अल्प-प्रमाणं वा न याचेत ।। ०५.२.०३ ।। धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ।। ०५.२.०४ ।। चतुर्थं अंशं धान्यानां बीज-भक्त-शुद्धं च हिरण्येन क्रीणीयात् ।। ०५.२.०५ ।। अरण्य-जातं श्रोत्रिय-स्वं च परिहरेत् ।। ०५.२.०६ ।। तदप्यनुग्रहेण क्रीणीयात् ।। ०५.२.०७ ।। तस्याकरणे वा समाहर्तृ-पुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः ।। ०५.२.०८ ।। प्रमाद-अवस्कन्नस्यात्ययं द्वि-गुणं उदाहरन्तो बीज-काले बीज-लेख्यं कुर्युः ।। ०५.२.०९ ।। निष्पन्ने हरित-पक्व-आदानं वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्यां देव-पितृ-पूजा-दान-अर्थं गव-अर्थं वा ।। ०५.२.१० ।। भिक्षुक-ग्राम-भृतक-अर्थं च राशि-मूलं परिहरेयुः ।। ०५.२.११ ।। स्व-सस्य-अपहारिणः प्रतिपातोअष्ट-गुणः ।। ०५.२.१२ ।। पर-सस्य-अपहारिणः पञ्चाशद्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ।। ०५.२.१३ ।। चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानां काष्ठ-वेणु-मांस-वल्लूराणां च गृह्णीयुः । दन्त-अजिनस्यार्धं ।। ०५.२.१४ ।। तदनिसृष्टं विक्रीणानस्य पूर्वः साहस-दण्डः ।। ०५.२.१५ ।। इति कर्षकेषु प्रणयः ।। ०५.२.१६ ।। सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ।। ०५.२.१७ ।। सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याश्चत्वारिंशत्-कराः ।। ०५.२.१८ ।। धान्य-रस-लोह-पण्याः शकट-व्यवहारिणश्च त्रिंशत्-कराः ।। ०५.२.१९ ।। काच-व्यवहारिणो महा-कारवश्च विंशति-कराः ।। ०५.२.२० ।। क्षुद्र-कारवो बन्धकी-पोषकाश्च दश-कराः ।। ०५.२.२१ ।। काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ।। ०५.२.२२ ।। कुशीलवा रूप-आजीवाश्च वेतन-अर्धं दद्युः ।। ०५.२.२३ ।। हिरण्य-करं कर्मण्यानाहारयेयुः । न चएषां कंचिदपराधं परिहरेयुः ।। ०५.२.२४ ।। ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन् ।। ०५.२.२५ ।। इति व्यवहारिषु प्रणयः ।। ०५.२.२६ ।। कुक्कुट-सूकरं अर्धं दद्यात् । क्षुद्र-पशवः षड्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राश्च दश-भागं ।। ०५.२.२७ ।। बन्धकी-पोषका राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशं संहरेयुः ।। ०५.२.२८ ।। इति योनि-पोषकेषु प्रणयः ।। ०५.२.२९ ।। सकृदेव न द्विः प्रयोज्यः ।। ०५.२.३० ।। तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौर-जानपदान्भिक्षेत ।। ०५.२.३१ ।। योग-पुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः ।। ०५.२.३२ ।। एतेन प्रदेशेन राजा पौर-जानपदान्भिक्षेत ।। ०५.२.३३ ।। कापटिकाश्चएनानल्पं प्रयच्छतः कुत्सयेयुः ।। ०५.२.३४ ।। सारतो वा हिरण्यं आढ्यान्याचेत । यथा-उपकारं वा । स्व-वशा वा यदुपहरेयुः ।। ०५.२.३५ ।। स्थानच्-छत्र-वेष्टन-विभूषाश्चएषां हिरण्येन प्रयच्छेत् ।। ०५.२.३६ ।। पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं देव-द्रव्यं वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः ।। ०५.२.३७ ।। देवता-अध्यक्षो दुर्ग-राष्ट्र-देवतानां यथा-स्वं एकस्थं कोशं कुर्यात् । तथैव चौपहरेत् ।। ०५.२.३८ ।। दैवत-चैत्यं सिद्ध-पुण्य-स्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रा-समाजाभ्यां आजीवेत् ।। ०५.२.३९ ।। चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनं अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ।। ०५.२.४० ।। मनुष्य-करं वा वृक्षे रक्षो-भयं प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानां हिरण्येन प्रतिकुर्युः ।। ०५.२.४१ ।। सुरुङ्गा-युक्ते वा कूपे नागं अनियत-शिरस्कं हिरण्य-उपहारेण दर्शयेत् ।। ०५.२.४२ ।। नाग-प्रतिमायां अन्तश्-छन्नायां चैत्यच्-छिद्रे वल्मीकच्-छिद्रे वा सर्प-दर्शनं आहारेण प्रतिबद्ध-संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ।। ०५.२.४३ ।। अश्रद्दधानानां आचमन-प्रोक्षणेषु रसं उपचार्य देवता-अभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा ।। ०५.२.४४ ।। योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। ०५.२.४५ ।। वैदेहक-व्यञ्जनो वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ।। ०५.२.४६ ।। स यदा पण्य-मूल्ये निक्षेप-प्रयोगैरुपचितः स्यात्तदाएनं रात्रौ मोषयेत् ।। ०५.२.४७ ।। एतेन रूप-दर्शकः सुवर्ण-कारश्च व्याख्यातौ ।। ०५.२.४८ ।। वैदेहक-व्यञ्जनो वा प्रख्यात-व्यवहारः प्रहवण-निमित्तं याचितकं अवक्रीतकं वा रूप्य-सुवर्ण-भाण्डं अनेकं गृह्णीयात् ।। ०५.२.४९ ।। समाजे वा सर्व-पण्य-संदोहेन प्रभूतं हिरण्य-सुवर्णं ऋणं गृह्णीयात् । प्रतिभाण्ड-मूल्यं च ।। ०५.२.५० ।। तदुभयं रात्रौ मोषयेत् ।। ०५.२.५१ ।। साध्वी-व्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्व-स्वान्याहरेयुः ।। ०५.२.५२ ।। दूष्य-कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ।। ०५.२.५३ ।। तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५४ ।। दूष्यं अभित्यक्तो वा श्रद्धेय-अपदेशं पण्यं हिरण्य-निक्षेपं ऋण-प्रयोगं दायं वा याचेत ।। ०५.२.५५ ।। दास-शब्देन वा दूष्यं आलम्बेत । भार्यां अस्य स्नुषां दुहितरं वा दासी-शब्देन भार्या-शब्देन वा ।। ०५.२.५६ ।। तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयं अर्थ-कामुकः" इति ।। ०५.२.५७ ।। तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५८ ।। सिद्ध-व्यञ्जनो वा दूष्यं जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यं राज-द्वारिकं स्त्री-हृदयं अरि-व्याधि-करं आयुष्यं पुत्रीयं वा कर्म जानामि" इति ।। ०५.२.५९ ।। प्रतिपन्नं चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धं उपहारं कारयेत् ।। ०५.२.६० ।। एक-रूपं चात्र हिरण्यं पूर्व-निखातं प्रेत-अङ्गं प्रेत-शिशुर्वा यत्र निहितः स्यात् । ततो हिरण्यं अस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ।। ०५.२.६१ ।। "प्रभूत-हिरण्य-हेतोः पुनरुपहारः कर्तव्य इति स्वयं एवएतेन हिरण्येन श्वो-भूते प्रभूतं औपहारिकं क्रीणीहि" इति ।। ०५.२.६२ ।। स तेन हिरण्येनाउपहारिक-क्रये गृह्येत ।। ०५.२.६३ ।। मातृ-व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ।। ०५.२.६४ ।। संसिद्धं एवास्य रात्रि-यागे वन-यागे वन-क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः ।। ०५.२.६५ ।। दूष्यस्य वा भृतक-व्यञ्जनो वेतन-हिरण्ये कूट-रूपं प्रक्षिप्य प्ररूपयेत् ।। ०५.२.६६ ।। कर्म-कर-व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणं उपनिदध्यात् । चिकित्सक-व्यञ्जनो वा गरं अगद-अपदेशेन ।। ०५.२.६७ ।। प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेक-भाण्डं अमित्र-शासनं च कापटिक-मुखेनऽचक्षीत । कारणं च ब्रूयात् ।। ०५.२.६८ ।। एवं दूष्येष्वधार्मिकेषु च वर्तेत । नैतरेषु ।। ०५.२.६९ ।। पक्वं पक्वं इवऽरामात्फलं राज्यादवाप्नुयात् । ।। ०५.२.७०अ ब ।। आत्मच्-छेद-भयादामं वर्जयेत्कोप-कारकं ।। ०५.२.७०च्द् ।।
✦ ✦ ✦
“Just as fruits are gathered from a garden as often as they become ripe, so revenue shall b…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.