Arthashastra. Book 5, Chapter 3: Salaries of officials. The price of an honest state
Book 5 · Chapter 3
Conduct of Courtiers
Salaries of officials. The price of an honest state
दुर्ग-जन-पद-शक्त्या भृत्य-कर्म समुदय-पादेन स्थापयेत् । कार्य-साधन-सहेन वा भृत्य-लाभेन ।। ०५.३.०१ ।। शरीरं अवेक्षेत । न धर्म-अर्थौ पीडयेत् ।। ०५.३.०२ ।। ऋत्विग्-आचार्य-मन्त्रि-पुरोहित-सेना-पति-युव-राज-राज-मातृ-राज-महिष्योअष्ट-चत्वारिंशत्-साहस्राः ।। ०५.३.०३ ।। एतावता भरणेनानास्पद्यत्वं अकोपकं चएषां भवति ।। ०५.३.०४ ।। दौवारिक-अन्तर्-वंशिक-प्रशास्तृ-समाहर्तृ-संनिधातारश्चतुर्-विंशति-साहस्राः ।। ०५.३.०५ ।। एतावता कर्मण्या भवन्ति ।। ०५.३.०६ ।। कुमार-कुमार-मातृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-राष्ट्र-अन्त-पालाश्च द्वादश-साहस्राः ।। ०५.३.०७ ।। स्वामि-परिबन्ध-बल-सहाया ह्येतावता भवन्ति ।। ०५.३.०८ ।। श्रेणी-मुख्या हस्त्य्-अश्व-रथ-मुख्याः प्रदेष्टारश्चाष्ट-साहस्राः ।। ०५.३.०९ ।। स्व-वर्ग-अनुकर्षिणो ह्येतावता भवन्ति ।। ०५.३.१० ।। पत्त्य्-अश्व-रथ-हस्त्य्-अध्यक्षा द्रव्य-हस्ति-वन-पालाश्च चतुः-साहस्राः ।। ०५.३.११ ।। रथिक-अनीकस्थ-चिकित्सक-अश्व-दमक-वर्धकयो योनि-पोषकाश्च द्वि-साहस्राः ।। ०५.३.१२ ।। कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-सूत-मागधाः पुरोहित-पुरुषाः सर्व-अध्यक्षाश्च साहस्राः ।। ०५.३.१३ ।। शिल्पवन्तः पादाताः संख्यायक-लेखक-आदि-वर्गश्च पञ्च-शताः ।। ०५.३.१४ ।। कुशीलवास्त्वर्ध-तृतीय-शताः । द्वि-गुण-वेतनाश्चएषां तूर्य-कराः ।। ०५.३.१५ ।। कारु-शिल्पिनो विंशति-शतिकाः ।। ०५.३.१६ ।। चतुष्पद-द्विपद-परिचारक-पारिकर्मिक-औपस्थायिक-पालक-विष्टि-बन्धकाः षष्टि-वेतनाः । आर्य-युक्त-आरोहक-माणवक-शैल-खनकाः सर्व-उपस्थायिनश्च ।। ०५.३.१७ ।। आचार्या विद्यावन्तश्च पूजा-वेतनानि यथा-अर्हं लभेरन्पञ्च-शत-अवरं सहस्र-परं ।। ०५.३.१८ ।। दश-पणिको योजने दूतो मध्यमः । दश-उत्तरे द्वि-गुण-वेतन आ-योजन-शतादिति ।। ०५.३.१९ ।। समान-विद्येभ्यस्त्रि-गुण-वेतनो राजा राज-सूय-आदिषु क्रतुषु ।। ०५.३.२० ।। राज्ञः सारथिः साहस्रः ।। ०५.३.२१ ।। कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः साहस्राः ।। ०५.३.२२ ।। ग्राम-भृतक-सत्त्रि-तीक्ष्ण-रसद-भिक्षुक्यः पञ्च-शताः ।। ०५.३.२३ ।। चार-संचारिणोअर्ध-तृतीय-शताः । प्रयास-वृद्ध-वेतना वा ।। ०५.३.२४ ।। शत-वर्ग-सहस्र-वर्गाणां अध्यक्षा भक्त-वेतन-लाभं आदेशं विक्षेपं च कुर्युः ।। ०५.३.२५ ।। अविक्षेपो राज-परिग्रह-दुर्ग-राष्ट्र-रक्ष-अवेक्षणेषु च ।। ०५.३.२६ ।। नित्य-मुख्याः स्युरनेक-मुख्याश्च ।। ०५.३.२७ ।। कर्मसु मृतानां पुत्र-दारा भक्त-वेतनं लभेरन् ।। ०५.३.२८ ।। बाल-वृद्ध-व्याधिताश्चएषां अनुग्राह्याः ।। ०५.३.२९ ।। प्रेत-व्याधित-सूतिका-कृत्येषु चएषां अर्थ-मान-कर्म कुर्यात् ।। ०५.३.३० ।। अल्प-कोशः कुप्य-पशु-क्षेत्राणि दद्यात् । अल्पं च हिरण्यं ।। ०५.३.३१ ।। शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात् । न ग्रामं ग्राम-संजात-व्यवहार-स्थापन-अर्थं ।। ०५.३.३२ ।। एतेन भृतानां अभृतानां च विद्या-कर्मभ्यां भक्त-वेतन-विशेषं च कुर्यात् ।। ०५.३.३३ ।। षष्टि-वेतनस्यऽढकं कृत्वा हिरण्य-अनुरूपं भक्तं कुर्यात् ।। ०५.३.३४ ।। पत्त्य्-अश्व-रथ-द्विपाः सूर्य-उदये बहिः संधि-दिवस-वर्जं शिल्प-योग्याः कुर्युः ।। ०५.३.३५ ।। तेषु राजा नित्य-युक्तः स्यात् । अभीक्ष्णं चएषां शिल्प-दर्शनं कुर्यात् ।। ०५.३.३६ ।। कृत-नर-इन्द्र-अङ्कं शस्त्र-आवरणं आयुध-अगारं प्रवेशयेत् ।। ०५.३.३७ ।। अशस्त्राश्चरेयुः । अन्यत्र मुद्रा-अनुज्ञातात् ।। ०५.३.३८ ।। नष्टं-विनष्टं वा द्वि-गुणं दद्यात् ।। ०५.३.३९ ।। विध्वस्त-गणनां च कुर्यात् ।। ०५.३.४० ।। सार्थिकानां शस्त्र-आवरणं अन्त-पाला गृह्णीयुः । समुद्रं अवचारयेयुर्वा ।। ०५.३.४१ ।। यात्रां अभ्युत्थितो वा सेनां उद्योजयेत् ।। ०५.३.४२ ।। ततो वैदेहक-व्यञ्जनाः सर्व-पण्यान्यायुधीयेभ्यो यात्रा-काले द्वि-गुण-प्रत्यादेयानि दद्युः ।। ०५.३.४३ ।। एवं राज-पण्य-योग-विक्रयो वेतन-प्रत्यादानं च भवति ।। ०५.३.४४ ।। एवं अवेक्षित-आय-व्ययः कोश-दण्ड-व्यसनं नावाप्नोति ।। ०५.३.४५ ।। इति भक्त-वेतन-विकल्पः ।। ०५.३.४६ ।। सत्त्रिणश्चऽयुधीयानां वेश्याः कारु-कुशीलवाः । ।। ०५.३.४७अ ब ।। दण्ड-वृद्धाश्च जानीयुः शौच-अशौचं अतन्द्रिताः ।। ०५.३.४७च्द् ।।
✦ ✦ ✦
“In accordance with the requirements of his forts and country parts, the king should fix un…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.