Arthashastra. Book 5, Chapter 4: The four temptations that test a minister's loyalty
Book 5 · Chapter 4
Conduct of Courtiers
The four temptations that test a minister's loyalty
लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-संपन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। ०५.४.०१ ।। यं वा मन्येत "यथाअहं आश्रय-ईप्सुरेवं असौ विनय-ईप्सुराभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनं अप्येनं आश्रयेत । न त्वेवानात्म-संपन्नं ।। ०५.४.०२ ।। अनात्मवा हि नीति-शास्त्र-द्वेषादनर्थ्य-संयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ।। ०५.४.०३ ।। आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगं दद्यात् ।। ०५.४.०४ ।। अविसंवादाद्द्हि स्थान-स्थैर्यं अवाप्नोति ।। ०५.४.०५ ।। मति-कर्मसु पृष्ठस्तदात्वे चऽयत्यां च धर्म-अर्थ-संयुक्तं समर्थं प्रवीणवदपरिषद्-भीरुः कथयेत् ।। ०५.४.०६ ।। ईप्सितः पणेत "धर्म-अर्थ-अनुयोगं अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणं मत्-संयोगे तदात्वे च दण्ड-धारणं इति न कुर्याः । पक्षं वृत्तिं गुह्यं च मे नौपहन्याः । संज्ञया च त्वां काम-क्रोध-दण्डनेषु वारयेयम्" इति ।। ०५.४.०७ ।। आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतः संनिकृष्ट-विप्रकृष्टः पर-आसनं ।। ०५.४.०८ ।। विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वात-ष्ठीवने च शब्दवती न कुर्यात् ।। ०५.४.०९ ।। मिथः कथनं अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञो वेषं उद्धत-कुहकानां च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्ष्य्-ओष्ठ-निर्भोगं भ्रुकुटी-कर्म वाक्य-अवक्षेपणं च ब्रुवति । बलवत्संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैर्द्वेष्य-पक्ष-अवक्षिप्तानर्थ्यैश्च प्रतिसंसर्गं एक-अर्थ-चर्यां संघातं च वर्जयेत् ।। ०५.४.१० ।। अहीन-कालं राज-अर्थं स्व-अर्थं प्रिय-हितैः सह । ।। ०५.४.११अ ब ।। पर-अर्थं देश-काले च ब्रूयाद्धर्म-अर्थ-संहितं ।। ०५.४.११च्द् ।। पृष्टः प्रिय-हितं ब्रूयान्न ब्रूयादहितं प्रियं । ।। ०५.४.१२अ ब ।। अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ।। ०५.४.१२च्द् ।। तूष्णीं वा प्रतिवाक्ये स्याद्वेष्य-आदींश्च न वर्णयेत् । ।। ०५.४.१३अ ब ।। अप्रिया अपि दक्षाः स्युस्तद्-भावाद्ये बहिष्-कृताः ।। ०५.४.१३च्द् ।। अनर्थ्याश्च प्रिया दृष्टाश्चित्त-ज्ञान-अनुवर्तिनः । ।। ०५.४.१४अ ब ।। अभिहास्येष्वभिहसेद्घोर-हासांश्च वर्जयेत् ।। ०५.४.१४च्द् ।। परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ।। ०५.४.१५अ ब ।। तितिक्षेतऽत्मनश्चैव क्षमावान्पृथिवी-समः ।। ०५.४.१५च्द् ।। आत्म-रक्षा हि सततं पूर्वं कार्या विजानता । ।। ०५.४.१६अ ब ।। अग्नाविव हि संप्रोक्ता वृत्ती राजाउपजीविनां ।। ०५.४.१६च्द् ।। एक-देशं दहेदग्निः शरीरं वा परं गतः । ।। ०५.४.१७अ ब ।। सपुत्र-दारं राजा तु घातयेदर्धयेत वा ।। ०५.४.१७च्द् ।।
✦ ✦ ✦
“Kautilya teaches that no minister enters the inner council until his soul has been tested…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.