Arthashastra. Book 5, Chapter 5: The courtier's hours. When to speak, when to be present, when to vanish

Book 5 · Chapter 5

Conduct of Courtiers

The courtier's hours. When to speak, when to be present, when to vanish

नियुक्तः कर्मसु व्यय-विशुद्धं उदयं दर्शयेत् ।। ०५.५.०१ ।। आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं "इदं एवम्" इति विशेषयेच्च ।। ०५.५.०२ ।। मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तं नएनं अनुवर्तेत प्रशंसाभिः ।। ०५.५.०३ ।। आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ।। ०५.५.०४ ।। इङ्गित-आकारौ चास्य लक्षयेत् ।। ०५.५.०५ ।। काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ।। ०५.५.०६ ।। दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ।। ०५.५.०७ ।। एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ।। ०५.५.०८ ।। संदर्शने कोपः । वाक्यस्याश्रवण-प्रतिषेधौ । आसन-चक्षुषोरदानम् । वर्ण-स्वर-भेदः । एक-अक्षि-भ्रुकुट्य्-ओष्ठ-निर्भोगः । स्वेद-श्वास-स्मितानां अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्माद्-व्रजनम् । वर्धनं अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्यौपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या-अभिभाषणम् । राज-दर्शिनां च तद्-वृत्त-अन्यत्वं ।। ०५.५.०९ ।। वृत्ति-विकारं चावेक्षेताप्यमानुषाणां ।। ०५.५.१० ।। "अयं उच्चैः सिञ्चति" इति कात्यायनः प्रवव्राज । "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः । "तृणम्" इति दीर्घश्चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वं प्राशंसीत्" इति पिशुनः । प्रति-रवणे शुनः पिशुन-पुत्रः ।। ०५.५.११ ।। अर्थ-मान-अवक्षेपे च परित्यागः ।। ०५.५.१२ ।। स्वामि-शीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत ।। ०५.५.१३ ।। मित्रं उपकृष्टं वाअस्य गच्छेत् ।। ०५.५.१४ ।। तत्रस्थो दोष-निर्घातं मित्रैर्भर्तरि चऽचरेत् । ।। ०५.५.१५अ ब ।। ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ।। ०५.५.१५च्द् ।।

✦ ✦ ✦

A courtier who would last shall study the divisions of the king's day. In the hour of acco
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.