Arthashastra. Book 5, Chapter 6: Bridging the king's death. The minister's continuity protocol
Book 5 · Chapter 6
Conduct of Courtiers
Bridging the king's death. The minister's continuity protocol
राज-व्यसनं एवं अमात्यः प्रतिकुर्वीत ।। ०५.६.०१ ।। प्रागेव मरण-आबाध-भयाद्राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरं दर्शनं स्थापयेद्"देश-पीडा-अपहं अमित्र-अपहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ।। ०५.६.०२ ।। राज-व्यञ्जनं अरूप-वेलायां प्रकृतीनां दर्शयेत् । मित्र-अमित्र-दूतानां च ।। ०५.६.०३ ।। तैश्च यथा-उचितां संभाषां अमात्य-मुखो गच्छेत् ।। ०५.६.०४ ।। दौवारिक-अन्तर्-वंशिक-मुखश्च यथा-उक्तं राज-प्रणिधिं अनुवर्तयेत् ।। ०५.६.०५ ।। अपकारिषु च हेडं प्रसादं वा प्रकृति-कान्तं दर्शयेत् । प्रसादं एवौपकारिषु ।। ०५.६.०६ ।। आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्तस्थौ वा कोश-दण्डावेकस्थौ कारयेत् । कुल्य-कुमार-मुख्यांश्चान्य-अपदेशेन ।। ०५.६.०७ ।। यश्च मुख्यः पक्षवान्दुर्ग-अटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत् ।। ०५.६.०८ ।। बह्व्-आबाधं वा यात्रां प्रेषयेत् । मित्र-कुलं वा ।। ०५.६.०९ ।। यस्माच्च सामन्तादाबाधं पश्येत्तं उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेनावग्राहयेत् । स्व-मित्रेण वा ।। ०५.६.१० ।। ततः संधिं अदूष्यं कारयेत् ।। ०५.६.११ ।। आटविक-अमित्रैर्वा वैरं ग्राहयेत् ।। ०५.६.१२ ।। तत्-कुलीनं अपरुद्धं वा भूंय्-एक-देशेनौपग्राहयेत् ।। ०५.६.१३ ।। कुल्य-कुमार-मुख्य-उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत् ।। ०५.६.१४ ।। दाण्ड-कर्मिकवद्वा राज्य-कण्टकानुद्धृत्य राज्यं कारयेत् ।। ०५.६.१५ ।। यदि वा कश्चिन्मुख्यः सामन्त-आदीनां अन्यतमः कोपं भजेत तं "एहि । राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ।। ०५.६.१६ ।। आपत्-प्रतीकारेण वा साधयेत् ।। ०५.६.१७ ।। युव-राजे वा क्रमेण राज्य-भारं आरोप्य राज-व्यसनं ख्यापयेत् ।। ०५.६.१८ ।। पर-भूमौ राज-व्यसने मित्रेणामित्र-व्यञ्जनेन शत्रोः संधिं अवस्थाप्यापगच्छेत् ।। ०५.६.१९ ।। सामन्त-आदीनां अन्यतमं वाअस्य दुर्गे स्थापयित्वाअपगच्छेत् ।। ०५.६.२० ।। कुमारं अभिषिच्य वा प्रतिव्यूहेत ।। ०५.६.२१ ।। परेणाभियुक्तो वा यथा-उक्तं आपत्-प्रतीकारं कुर्यात् ।। ०५.६.२२ ।। एवं एक-ऐश्वर्यं अमात्यः कारयेदिति कौटिल्यः ।। ०५.६.२३ ।। "नएवम्" इति भारद्वाजः ।। ०५.६.२४ ।। "प्रम्रियमाणे वा राजन्यमात्यः कुल्य-कुमार-मुख्यान्परस्परं मुख्येषु वा विक्रमयेत् ।। ०५.६.२५ ।। विक्रान्तं प्रकृति-कोपेन घातयेत् ।। ०५.६.२६ ।। कुल्य-कुमार-मुख्यानुपांशु-दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ।। ०५.६.२७ ।। राज्य-कारणाद्द्हि पिता पुत्रान्पुत्राश्च पितरं अभिद्रुह्यन्ति । किं अङ्ग पुनरमात्य-प्रकृतिर्ह्येक-प्रग्रहो राज्यस्य ।। ०५.६.२८ ।। तत्स्वयं उपस्थितं नावमन्येत ।। ०५.६.२९ ।। "स्वयं आरूढा हि स्त्री त्यज्यमानाअभिशपति" इति लोक-प्रवादः ।। ०५.६.३० ।। कालश्च सकृदभ्येति यं नरं काल-काङ्क्षिणं । ।। ०५.६.३१अ ब ।। दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ।। ०५.६.३१च्द् ।। प्रकृति-कोपकं अधर्मिष्ठं अनैकान्तिकं चएतदिति कौटिल्यः ।। ०५.६.३२ ।। राज-पुत्रं आत्म-संपन्नं राज्ये स्थापयेत् ।। ०५.६.३३ ।। संपन्न-अभावेअव्यसनिनं कुमारं राज-कन्यां गर्भिणीं देवीं वा पुरस्-कृत्य महा-मात्रान्संनिपात्य ब्रूयात्"अयं वो निक्षेपः । पितरं अस्यावेक्षध्वं सत्त्व-अभिजनं आत्मनश्च । ध्वज-मात्रोअयं भवन्त एव स्वामिनः । कथं वा क्रियताम्" इति ।। ०५.६.३४ ।। तथा ब्रुवाणं योग-पुरुषा ब्रूयुः "कोअन्यो भवत्-पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम्" इति ।। ०५.६.३५ ।। "तथा" इत्यमात्यः कुमारं राज-कन्यां गर्भिणीं देवीं वाअधिकुर्वीत । बन्धु-संबन्धिनां मित्र-अमित्र-दूतानां च दर्शयेत् ।। ०५.६.३६ ।। भक्त-वेतन-विशेषं अमात्यानां आयुधीयानां च कारयेत् । "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ।। ०५.६.३७ ।। एवं दुर्ग-राष्ट्र-मुख्यानाभाषेत । यथा-अर्हं च मित्र-अमित्र-पक्षं ।। ०५.६.३८ ।। विनय-कर्मणि च कुमारस्य प्रयतेत ।। ०५.६.३९ ।। कन्यायां समान-जातीयादपत्यं उत्पाद्य वाअभिषिञ्चेत् ।। ०५.६.४० ।। मातुश्चित्त-क्षोभ-भयात्कुल्यं अल्प-सत्त्वं छात्रं च लक्षण्यं उपनिदध्यात् ।। ०५.६.४१ ।। ऋतौ चएनां रक्षेत् ।। ०५.६.४२ ।। न चऽत्म-अर्थं कंचिदुत्कृष्टं उपभोगं कारयेत् ।। ०५.६.४३ ।। राज-अर्थं तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान्कारयेत् ।। ०५.६.४४ ।। यौवनस्थं च याचेत विश्रमं चित्त-कारणात् । ।। ०५.६.४५अ ब ।। परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ।। ०५.६.४५च्द् ।। निवेद्य पुत्र-रक्षा-अर्थं गूढ-सार-परिग्रहान् । ।। ०५.६.४६अ ब ।। अरण्यं दीर्घ-सत्त्रं वा सेवेतऽरुच्यतां गतः ।। ०५.६.४६च्द् ।। मुख्यैरवगृहीतं वा राजानं तत्-प्रिय-आश्रितः । ।। ०५.६.४७अ ब ।। इतिहास-पुराणाभ्यां बोधयेदर्थ-शास्त्रवित् ।। ०५.६.४७च्द् ।। सिद्ध-व्यञ्जन-रूपो वा योगं आस्थाय पार्थिवं । ।। ०५.६.४८अ ब ।। लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् ।। ०५.६.४८च्द् ।।
✦ ✦ ✦
“The minister shall thus avert the calamities in which the king is involved; long before th…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.