Arthashastra. Book 6, Chapter 1: Svami. The leader is the first limb
Book 6 · Chapter 1
Source of Sovereign States
Svami. The leader is the first limb
स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः ।। ०६.१.०१ ।। तत्र स्वामि-सम्पत् ।। ०६.१.०२ ।। महा-कुलीनो दैव-बुद्धि-सत्त्व-सम्पन्नो वृद्ध-दर्शी धार्मिकः सत्य-वागविसंवादकः कृतज्ञः स्थूल-लक्षो महा-उत्साहोअदीर्घ-सूत्रः शक्य-सामन्तो दृढ-बुद्धिरक्षुद्र-परिषत्को विनय-काम इत्याभिगामिका गुणाः ।। ०६.१.०३ ।। शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिवेशाः प्रज्ञा-गुणाः ।। ०६.१.०४ ।। शौर्यं अमर्षः शीघ्रता दाक्ष्यं चौत्साह-गुणाः ।। ०६.१.०५ ।। वाग्मी प्रगल्भः स्मृति-मति-बलवानुदग्रः स्व्-अवग्रहः कृत-शिल्पोअव्यसनो दण्ड-नाय्युपकार-अपकारयोर्दृष्ट-प्रतीकारी ह्रीमानापत्-प्रकृत्योर्विनियोक्ता दीर्घ-दूर-दर्शी देश-काल-पुरुष-कार-कार्य-प्रधानः संधि-विक्रम-त्याग-सम्यम-पण-परच्-छिद्र-विभागी संवृतोअदीन-अभिहास्य-जिह्म-भ्रुकुटी-क्षणः काम-क्रोध-लोभ-स्तम्भ-चापल-उपताप-पैशुन्य-हीनः शक्लः स्मित-उदग्र-अभिभाषी वृद्ध-उपदेश-आचार इत्यात्म-सम्पत् ।। ०६.१.०६ ।। अमात्य-सम्पदुक्ता पुरस्तात् ।। ०६.१.०७ ।। मध्ये चान्ते च स्थानवानात्म-धारणः पर-धारणश्चऽपदि स्व-आरक्षः स्व-आजीवः शत्रु-द्वेषी शक्य-सामन्तः पङ्क-पाषाण-उषर-विषम-कण्टक-श्रेणी-व्याल-मृग-अटवी-हीनः कान्तः सीता-खनि-द्रव्य-हस्ति-वनवान्गव्यः पौरुषेयो गुप्त-गोचरः पशुमानदेव-मातृको वारि-स्थल-पथाभ्यां उपेतः सार-चित्र-बहु-पण्यो दण्ड-कर-सहः कर्म-शील-कर्षकोअबालिश-स्वाम्य्-अवर-वर्ण-प्रायो भक्त-शुचि-मनुष्य इति जन-पद-सम्पत् ।। ०६.१.०८ ।। दुर्ग-सम्पदुक्ता पुरस्तात् ।। ०६.१.०९ ।। धर्म-अधिगतः पूर्वैः स्वयं वा हेम-रूप्य-प्रायश्चित्र-स्थूल-रत्न-हिरण्यो दीर्घां अप्यापदं अनायतिं सहेतैति कोश-सम्पत् ।। ०६.१.१० ।। पितृ-पैतामहो नित्यो वश्यस्तुष्ट-भृत-पुत्र-दारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःख-सहो बहु-युद्धः सर्व-युद्ध-प्रहरण-विद्या-विशारदः सह-वृद्धि-क्षयिकत्वादद्वैध्यः क्षत्र-प्राय इति दण्ड-सम्पत् ।। ०६.१.११ ।। पितृ-पैतामहं नित्यं वश्यं अद्वैध्यं महल्-लघु-समुत्थं इति मित्र-सम्पत् ।। ०६.१.१२ ।। अराज-बीजी लुब्धः क्षुद्र-परिषत्को विरक्त-प्रकृतिरन्याय-वृत्तिरयुक्तो व्यसनी निरुत्साहो दैव-प्रमाणो यत्-किंचन-कार्य-गतिरननुबन्धः क्लीबो नित्य-अपकारी चैत्यमित्र-सम्पत् ।। ०६.१.१३ ।। एवं-भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ।। ०६.१.१४ ।। अरि-वर्जाः प्रकृतयः सप्तएताः स्व-गुण-उदयाः । ।। ०६.१.१५अ ब ।। उक्ताः प्रत्यङ्ग-भूतास्ताः प्रकृता राज-सम्पदः ।। ०६.१.१५च्द् ।। सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः । ।। ०६.१.१६अ ब ।। विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ।। ०६.१.१६च्द् ।। ततः स दुष्ट-प्रकृतिश्चातुरन्तोअप्यनात्मवान् । ।। ०६.१.१७अ ब ।। हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशं ।। ०६.१.१७च्द् ।। आत्मवांस्त्वल्प-देशोअपि युक्तः प्रकृति-सम्पदा । ।। ०६.१.१८अ ब ।। नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ।। ०६.१.१८च्द् ।।
✦ ✦ ✦
“The svami is the head and the heart of the seven limbs. Born of high family or risen by hi…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.