Arthashastra. Book 6, Chapter 2: Mandala. Your neighbour's neighbour is your friend
Book 6 · Chapter 2
Source of Sovereign States
Mandala. Your neighbour's neighbour is your friend
शम-व्यायामौ योग-क्षेमयोर्योनिः ।। ०६.२.०१ ।। कर्म-आरम्भाणां योग-आराधनो व्यायामः ।। ०६.२.०२ ।। कर्म-फल-उपभोगानां क्षेम-आराधनः शमः ।। ०६.२.०३ ।। शम-व्यायामयोर्योनिः षाड्गुण्यं ।। ०६.२.०४ ।। क्षयः स्थानं वृद्धिरित्युदयास्तस्य ।। ०६.२.०५ ।। मानुषं नय-अपनयौ । दैवं अय-अनयौ ।। ०६.२.०६ ।। दैव-मानुषं हि कर्म लोकं यापयति ।। ०६.२.०७ ।। अदृष्ट-कारितं दैवं ।। ०६.२.०८ ।। तस्मिन्निष्टेन फलेन योगोअयः । अनिष्टेनानयः ।। ०६.२.०९ ।। दृष्ट-कारितं मानुषं ।। ०६.२.१० ।। तस्मिन्योग-क्षेम-निष्पत्तिर्नयः । विपत्तिरपनयः ।। ०६.२.११ ।। तच्चिन्त्यम् । अचिन्त्यं दैवं ।। ०६.२.१२ ।। राजा आत्म-द्रव्य-प्रकृति-सम्पन्नो नयस्याधिष्ठानं विजिगीषुः ।। ०६.२.१३ ।। तस्य समन्ततो मण्डली-भूता भूम्य्-अनन्तरा अरि-प्रकृतिः ।। ०६.२.१४ ।। तथाएव भूम्य्-एक-अन्तरा मित्र-प्रकृतिः ।। ०६.२.१५ ।। अरि-सम्पद्-युक्तः सामन्तः शत्रुः । व्यसनी यातव्यः । अनपाश्रयो दुर्बल-आश्रयो वाउच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ।। ०६.२.१६ ।। इत्यरि-विशेषाः ।। ०६.२.१७ ।। तस्मान्मित्रं अरि-मित्रं मित्र-मित्रं अरि-मित्र-मित्रं चऽनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात् । पश्चात्पार्ष्णि-ग्राह आक्रन्दः पार्ष्णि-ग्राह-आसार आक्रन्द-आसारः ।। ०६.२.१८ ।। भूम्य्-अनन्तरः प्रकृति-मित्रः । तुल्य-अभिजनः सहजः । विरुद्धो विरोधयिता वा कृत्रिमः ।। ०६.२.१९ ।। भूम्य्-एक-अन्तरं प्रकृति-मित्रम् । माता-पितृ-सम्बद्धं सहजम् । धन-जीवित-हेतोराश्रितं कृत्रिमं ।। ०६.२.२० ।। अरि-विजिगीष्वोर्भूम्य्-अनन्तरः संहत-असंहतयोरनुग्रह-समर्थो निग्रहे चासंहतयोर्मध्यमः ।। ०६.२.२१ ।। अरि-विजिगीषु-मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत-असंहतानां अरि-विजिगीषु-मध्यमानां अनुग्रह-समर्थो निग्रहे चासंहतानां उदासीनः ।। ०६.२.२२ ।। इति प्रकृतयः ।। ०६.२.२३ ।। विजिगीषुर्मित्रं मित्र-मित्रं वाअस्य प्रकृतयस्तिस्रः ।। ०६.२.२४ ।। ताः पञ्चभिरमात्य-जन-पद-दुर्ग-कोश-दण्ड-प्रकृतिभिरेक-एकशः सम्युक्ता मण्डलं अष्टादशकं भवति ।। ०६.२.२५ ।। अनेन मण्डल-पृथक्त्वं व्याख्यातं अरि-मध्यम-उदासीनानां ।। ०६.२.२६ ।। एवं चतुर्-मण्डल-संक्षेपः ।। ०६.२.२७ ।। द्वादश राज-प्रकृतयः षष्टिर्द्रव्य-प्रकृतयः । संक्षेपेण द्वि-सप्ततिः ।। ०६.२.२८ ।। तासां यथा-स्वं सम्पदः ।। ०६.२.२९ ।। शक्तिः सिद्धिश्च ।। ०६.२.३० ।। बलं शक्तिः ।। ०६.२.३१ ।। सुखं सिद्धिः ।। ०६.२.३२ ।। शक्तिस्त्रिविधा ज्ञान-बलं मन्त्र-शक्तिः । कोश-दण्ड-बलं प्रभु-शक्तिः । विक्रम-बलं उत्साह-शक्तिः ।। ०६.२.३३ ।। एवं सिद्धिस्त्रिविधाएव मन्त्र-शक्ति-साध्या मन्त्र-सिद्धिः । प्रभु-शक्ति-साध्या प्रभु-सिद्धिः । उत्साह-शक्ति-साध्या उत्साह-सिद्धिः ।। ०६.२.३४ ।। ताभिरभ्युच्चितो ज्यायान्भवति । अपचितो हीनः । तुल्य-शक्तिः समः ।। ०६.२.३५ ।। तस्मात्शक्तिं सिद्धिं च घटेतऽत्मन्यावेशयितुम् । साधारणो वा द्रव्य-प्रकृतिष्वानन्तर्येण शौच-वशेन वा ।। ०६.२.३६ ।। दूष्य-अमित्राभ्यां वाअपक्रष्टुं यतेत ।। ०६.२.३७ ।। यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ।। ०६.२.३८ ।। नेमिं एक-अन्तरान्राज्ञः कृत्वा चानन्तरानरान् । ।। ०६.२.३९अ ब ।। नाभिं आत्मानं आयच्छेन्नेता प्रकृति-मण्डले ।। ०६.२.३९च्द् ।। मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चौभयोः । ।। ०६.२.४०अ ब ।। उच्छेद्यः पीडनीयो वा बलवानपि जायते ।। ०६.२.४०च्द् ।।
✦ ✦ ✦
“Of states arranged in a circle, the one immediately bordering yours is the natural rival,…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.