Arthashastra. Book 7, Chapter 11: Recovery of a lost ally
Book 7 · Chapter 11
The End of Sixfold Policy
Recovery of a lost ally
"त्वं चाहं च शून्यं निवेशयावहे" इत्यनवसित-संधिः ।। ०७.११.०१ ।। तयोर्यः प्रत्युपस्थित-अर्थो यथा-उक्त-गुणां भूमिं निवेशयति सोअतिसंधत्ते ।। ०७.११.०२ ।। तत्रापि स्थलं औदकं वाइति महतः स्थलादल्पं औदकं श्रेयः । सातत्यादवस्थितत्वाच्च फलानां ।। ०७.११.०३ ।। स्थलयोरपि प्रभूत-पूर्व-अपर-सस्यं अल्प-वर्ष-पाकं असक्त-आरम्भं श्रेयः ।। ०७.११.०४ ।। औदकयोरपि धान्य-वापं अधान्य-वापात्श्रेयः ।। ०७.११.०५ ।। तयोरल्प-बहुत्वे धान्य-कान्तादल्पान्महदधान्य-कान्तं श्रेयः ।। ०७.११.०६ ।। महत्यवकाशे हि स्थाल्याश्चानूप्याश्चओषधयो भवन्ति ।। ०७.११.०७ ।। दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ।। ०७.११.०८ ।। कृत्रिमा हि भूमि-गुणाः ।। ०७.११.०९ ।। खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ।। ०७.११.१० ।। धान्य-मूला हि दुर्ग-आदीनां कर्मणां आरम्भाः ।। ०७.११.११ ।। महा-विषय-विक्रयो वा खनि-भोगः श्रेयान् ।। ०७.११.१२ ।। "द्रव्य-हस्ति-वन-भोगयोर्द्रव्य-वन-भोगः सर्व-कर्मणां योनिः प्रभूत-निधान-क्षमश्च । विपरीतो हस्ति-वन-भोगः" इत्याचार्याः ।। ०७.११.१३ ।। नैति कौटिल्यः ।। ०७.११.१४ ।। शक्यं द्रव्य-वनं अनेकं अनेकस्यां भूमौ वापयितुम् । न हस्ति-वनं ।। ०७.११.१५ ।। हस्ति-प्रधानो हि पर-अनीक-वध इति ।। ०७.११.१६ ।। वारि-स्थल-पथ-भोगयोरनित्यो वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ।। ०७.११.१७ ।। भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिरिति भिन्न-मनुष्या श्रेयसी ।। ०७.११.१८ ।। भिन्न-मनुष्या भोग्या भवति । अनुपजाप्या चान्येषाम् । अनापत्-सहा तु ।। ०७.११.१९ ।। विपरीता श्रेणी-मनुष्या । कोपे महा-दोषा ।। ०७.११.२० ।। तस्यां चातुर्वर्ण्य-निवेशे सर्व-भोग-सहत्वादवर-वर्ण-प्राया श्रेयसी । बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती । कृष्याश्चान्येषां चऽरम्भाणां प्रयोजकत्वात्गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहादाढ्य-वणिग्वती ।। ०७.११.२१ ।। भूमि-गुणानां अपाश्रयः श्रेयान् ।। ०७.११.२२ ।। दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिरिति पुरुष-अपाश्रया श्रेयसी ।। ०७.११.२३ ।। पुरुषवद्धि राज्यं ।। ०७.११.२४ ।। अपुरुषा गौर्वन्ध्येव किं दुहीत ।। ०७.११.२५ ।। महा-क्षय-व्यय-निवेशां तु भूमिं अवाप्तु-कामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराज-बीजिनं निरुत्साहं अपक्षं अन्याय-वृत्तिं व्यसनिनं दैव-प्रमाणं यत्-किंचन-कारिणं वा ।। ०७.११.२६ ।। महा-क्षय-व्यय-निवेशायां हि भूमौ दुर्बलो राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेनावसीदति ।। ०७.११.२७ ।। बलवानराज-बीजी क्षय-व्यय-भयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ।। ०७.११.२८ ।। निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षय-व्ययेनावभज्यते ।। ०७.११.२९ ।। कोशवानप्यपक्षः क्षय-व्यय-अनुग्रह-हीनत्वान्न कुतश्चित्प्राप्नोति ।। ०७.११.३० ।। अन्याय-वृत्तिर्निविष्टं अप्युत्थापयेत् ।। ०७.११.३१ ।। स कथं अनिविष्टं निवेशयेत् ।। ०७.११.३२ ।। तेन व्यसनी व्याख्यातः ।। ०७.११.३३ ।। दैव-प्रमाणो मानुष-हीनो निरारम्भो विपन्न-कर्म-आरम्भो वाअवसीदति ।। ०७.११.३४ ।। यत्-किंचन-कारी न किंचिदासादयति ।। ०७.११.३५ ।। स चएषां पापिष्ठतमो भवति ।। ०७.११.३६ ।। "यत्-किंचिद्-आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद्" इत्याचार्याः ।। ०७.११.३७ ।। यथा छिद्रं तथा विनाशं अप्यासादयेदिति कौटिल्यः ।। ०७.११.३८ ।। तेषां अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामस्तथा भूमिं अवस्थापयेत् ।। ०७.११.३९ ।। इत्यभिहित-संधिः ।। ०७.११.४० ।। गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः संधिं अवस्थाप्य दद्यात् ।। ०७.११.४१ ।। इत्यनिभृत-संधिः ।। ०७.११.४२ ।। समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ।। ०७.११.४३ ।। तेन हीनः क्रेता व्याख्यातः ।। ०७.११.४४ ।। एवं मित्रं हिरण्यं च सजनां अजनां च गां । ।। ०७.११.४५अ ब ।। लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ।। ०७.११.४५च्द् ।।
✦ ✦ ✦
“An ally who has drifted is not the same as an enemy who has arrived. He left because some…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.