Arthashastra. Book 7, Chapter 12: Recovery of lost territory
Book 7 · Chapter 12
The End of Sixfold Policy
Recovery of lost territory
"त्वं चाहं च दुर्गं कारयावहे" इति कर्म-संधिः ।। ०७.१२.०१ ।। तयोर्यो दैव-कृतं अविषह्यं अल्प-व्यय-आरम्भं दुर्गं कारयति सोअतिसंधत्ते ।। ०७.१२.०२ ।। तत्रापि स्थल-नदी-पर्वत-दुर्गाणां उत्तर-उत्तरं श्रेयः ।। ०७.१२.०३ ।। सेतु-बन्धयोरप्याहार्य-उदकात्सह-उदकः श्रेयान् ।। ०७.१२.०४ ।। सह-उदकयोरपि प्रभूत-वाप-स्थानः श्रेयान् ।। ०७.१२.०५ ।। द्रव्य-वनयोरपि यो महत्-सारवद्-द्रव्य-अटवीकं विषय-अन्ते नदी-मातृकं द्रव्य-वनं छेदयति सोअतिसंधत्ते ।। ०७.१२.०६ ।। नदी-मातृकं हि स्व्-आजीवं अपाश्रयश्चऽपदि भवति ।। ०७.१२.०७ ।। हस्ति-वनयोरपि यो बहु-शूर-मृगं दुर्बल-प्रतिवेशं-अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनं बध्नाति सोअतिसंधत्ते ।। ०७.१२.०८ ।। तत्रापि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरं श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूरा बहूनशूरान्भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनो भवन्ति" इत्याचार्याः ।। ०७.१२.०९ ।। नैति कौटिल्यः ।। ०७.१२.१० ।। कुण्ठा बहवः श्रेयांसः । स्कन्ध-विनियोगादनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे । परेषां दुर्धर्षा विभीषणाश्च ।। ०७.१२.११ ।। बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यं शौर्यं आधातुम् । न त्वेवाल्पेषु शूरेषु बहुत्वं इति ।। ०७.१२.१२ ।। खन्योरपि यः प्रभूत-सारां अदुर्ग-मार्गां अल्प-व्यय-आरम्भां खनिं खानयति । सोअतिसंधत्ते ।। ०७.१२.१३ ।। तत्रापि महा-सारं अल्पं अल्प-सारं वा प्रभूतं इति "महा-सारं अल्पं श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुर्हि प्रभूतं अल्प-सारं अत्यर्घेण ग्रसते" इत्याचार्याः ।। ०७.१२.१४ ।। नैति कौटिल्यः ।। ०७.१२.१५ ।। चिरादल्पो महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यादल्प-सारस्य ।। ०७.१२.१६ ।। एतेन वणिक्-पथो व्याख्यातः ।। ०७.१२.१७ ।। तत्रापि "वारि-स्थल-पथयोर्वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयश्च" इत्याचार्याः ।। ०७.१२.१८ ।। नैति कौटिल्यः ।। ०७.१२.१९ ।। सम्रुद्ध-गतिरसार्वकालिकः प्रकृष्ट-भय-योनिर्निष्प्रतीकारश्च वारि-पथः । विपरीतः स्थल-पथः ।। ०७.१२.२० ।। वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात्श्रेयान् । नदी-पथो वा । सातत्याद्विषह्य-आबाधत्वाच्च ।। ०७.१२.२१ ।। स्थल-पथेअपि "हैमवतो दक्षिणा-पथात्श्रेयान् । हस्त्य्-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इत्याचार्याः" ।। ०७.१२.२२ ।। नैति कौटिल्यः ।। ०७.१२.२३ ।। कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याश्च प्रभूततरा दक्षिणा-पथे ।। ०७.१२.२४ ।। दक्षिणा-पथेअपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिरल्प-व्यय-व्यायामो वा वणिक्-पथः श्रेयान् । प्रभूत-विषयो वा फल्गु-पुण्यः ।। ०७.१२.२५ ।। तेन पूर्वः पश्चिमश्च वणिक्-पथो व्याख्यातः ।। ०७.१२.२६ ।। तत्रापि चक्र-पाद-पथयोश्चक्र-पथो विपुल-आरम्भत्वात्श्रेयान् । देश-काल-सम्भावनो वा खर-उष्ट्र-पथः ।। ०७.१२.२७ ।। आभ्यां अंस-पथो व्याख्यातः ।। ०७.१२.२८ ।। पर-कर्म-उदयो नेतुः क्षयो वृद्धिर्विपर्यये ।। ०७.१२.२९ ।। तुल्ये कर्म-पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ।। ०७.१२.३० ।। अल्प-आगम-अतिव्ययता क्षयो वृद्धिर्विपर्यये ।। ०७.१२.३१ ।। समाय-व्ययता स्थानं कर्मसु ज्ञेयं आत्मनः ।। ०७.१२.३२ ।। तस्मादल्प-व्यय-आरम्भं दुर्ग-आदिषु महा-उदयं ।। ०७.१२.३३ ।। कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्म-संधयः ।। ०७.१२.३४ ।।
✦ ✦ ✦
“Territory once lost is not regained by a single bold march. The country has learnt new hab…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.