Arthashastra. Book 7, Chapter 13: When two strong powers fight, the third decides
Book 7 · Chapter 13
The End of Sixfold Policy
When two strong powers fight, the third decides
संहत्यारि-विजिगीष्वोरमित्रयोः पर-अभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्ति-सम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०१ ।। शक्ति-सम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । न हीन-शक्तिरलब्ध-लाभः ।। ०७.१३.०२ ।। शक्ति-साम्ये यो विपुल-आरम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०३ ।। विपुल-आरम्भो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । नाल्प-आरम्भः सक्त-चक्रः ।। ०७.१३.०४ ।। आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०५ ।। शून्य-मूलो ह्यस्य सुकरो भवति । नैक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ।। ०७.१३.०६ ।। बल-उपादान-साम्ये यश्चल-अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०७ ।। चल-अमित्रं प्रयातो हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् । न स्थित-अमित्रं प्रयातः ।। ०७.१३.०८ ।। असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ।। ०७.१३.०९ ।। तेन पूर्वे व्याख्याताः ।। ०७.१३.१० ।। शत्रु-साम्ये यो धार्मिक-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.११ ।। धार्मिक-अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति । अधार्मिक-अभियोगी सम्प्रियः ।। ०७.१३.१२ ।। तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनां पार्ष्णि-ग्रहणं व्याख्यातं ।। ०७.१३.१३ ।। मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे त एव हेतवः ।। ०७.१३.१४ ।। मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्र-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१५ ।। मित्र-अभियोगी हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् ।। ०७.१३.१६ ।। सुकरो हि मित्रेण संधिर्नामित्रेण ।। ०७.१३.१७ ।। मित्रं अमित्रं चौद्धरतोर्योअमित्र-उद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१८ ।। वृद्ध-मित्रो ह्यमित्र-उद्धारी पार्ष्णि-ग्राहं उच्छिन्द्यात् । नैतरः स्व-पक्ष-उपघाती ।। ०७.१३.१९ ।। तयोरलब्ध-लाभ-अपगमने यस्य-अमित्रो महतो लाभाद्वियुक्तः क्षय-व्यय-अधिको वा स पार्ष्णि-ग्राहोअतिसंधत्ते ।। ०७.१३.२० ।। लब्ध-लाभ-अपगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहोअतिसंधत्ते । यस्य वा यातव्यः शत्रोर्विग्रह-अपकार-समर्थः स्यात् ।। ०७.१३.२१ ।। पार्ष्णि-ग्राहयोरपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सोअतिसंधत्ते ।। ०७.१३.२२ ।। पार्श्व-स्थायी हि यातव्य-अभिसारो मूल-आबाधकश्च भवति । मूल-आबाधक एव पश्चात्-स्थायी ।। ०७.१३.२३ ।। पार्ष्णि-ग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टा-निरोधकाः । ।। ०७.१३.२४अ ब ।। सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ।। ०७.१३.२४च्द् ।। अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ।। ०७.१३.२५अ ब ।। प्रतिघातो बलवतो दुर्ग-अटव्य्-अपसारवान् ।। ०७.१३.२५च्द् ।। मध्यमं त्वरि-विजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्ध-लाभ-अपगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रं आप्नोति सोअतिसंधत्ते ।। ०७.१३.२६ ।। संधेयश्च शत्रुरुपकुर्वाणो । न मित्रं मित्र-भावादुत्क्रान्तं ।। ०७.१३.२७ ।। तेनौदासीन-लिप्सा व्याख्याता ।। ०७.१३.२८ ।। "पार्ष्णि-ग्रहण-अभियानयोस्तु मन्त्र-युद्धादभ्युच्चयः ।। ०७.१३.२९ ।। व्यायाम-युद्धे हि क्षय-व्ययाभ्यां उभयोरवृद्धिः ।। कश्०७.१३.३० ।। जित्वाअपि हि क्षिण-दण्ड-कोशः पराजितो भवति" इत्याचार्याः ।। ०७.१३.३१ ।। नैति कौटिल्यः ।। ०७.१३.३२ ।। सुमहताअपि क्षय-व्ययेन शत्रु-विनाशोअभ्युपगन्तव्यः ।। ०७.१३.३३ ।। तुल्ये क्षय-व्यये यः पुरस्ताद्दूष्य-बलं घातयित्वा निह्शल्यः पश्चाद्वश्य-बलो युध्येत सोअतिसंधत्ते ।। ०७.१३.३४ ।। द्वयोरपि पुरस्ताद्दूष्य-बल-घातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्त-दूष्यं च घातयेत्सोअतिसंधत्ते ।। ०७.१३.३५ ।। तेनामित्र-अटवी-बल-घातो व्याख्यातः ।। ०७.१३.३६ ।। पार्ष्णि-ग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ।। ०७.१३.३७अ ब ।। विजिगीषुस्तदा तत्र नेत्रं एतत्समाचरेत् ।। ०७.१३.३७च्द् ।। पार्ष्णि-ग्राहो भवेन्नेता शत्रोर्मित्र-अभियोगिनः । ।। ०७.१३.३८अ ब ।। विग्राह्य पूर्वं आक्रन्दं पार्ष्णि-ग्राह-अभिसारिणा ।। ०७.१३.३८च्द् ।। आक्रन्देनाभियुञ्जानः पार्ष्णि-ग्राहं निवारयेत् । ।। ०७.१३.३९अ ब ।। तथाआक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणं ।। ०७.१३.३९च्द् ।। अरि-मित्रेण मित्रं च पुरस्तादवघट्टयेत् । ।। ०७.१३.४०अ ब ।। मित्र-मित्रं अरेश्चापि मित्र-मित्रेण वारयेत् ।। ०७.१३.४०च्द् ।। मित्रेण ग्राहयेत्पार्ष्णिं अभियुक्तोअभियोगिनः । ।। ०७.१३.४१अ ब ।। मित्र-मित्रेण चऽक्रन्दं पार्ष्णि-ग्राहान्निवारयेत् ।। ०७.१३.४१च्द् ।। एवं मण्डलं आत्म-अर्थं विजिगीषुर्निवेशयेत् । ।। ०७.१३.४२अ ब ।। पृष्ठतश्च पुरस्ताच्च मित्र-प्रकृति-सम्पदा ।। ०७.१३.४२च्द् ।। कृत्स्ने च मण्डले नित्यं दूतान्गूढांश्च वासयेत् । ।। ०७.१३.४३अ ब ।। मित्र-भूतः सपत्नानां हत्वा हत्वा च संवृतः ।। ०७.१३.४३च्द् ।। असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ।। ०७.१३.४४अ ब ।। निह्संशयं विपद्यन्ते भिन्न-प्लव इवौदधौ ।। ०७.१३.४४च्द् ।।
✦ ✦ ✦
“When two kings of equal strength make war upon each other, let the third sit at a distance…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.