Arthashastra. Book 7, Chapter 14: How to dissolve a coalition arrayed against you
Book 7 · Chapter 14
The End of Sixfold Policy
How to dissolve a coalition arrayed against you
सामवायिकैरेवं अभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रूयात्"त्वया मे संधिः । इदं हिरण्यम् । अहं च मित्रम् । द्वि-गुणा ते वृद्धिः । नार्हस्यात्म-क्षयेण मित्र-मुखानमित्रान्वर्धयितुम् । एते हि वृद्धास्त्वां एव परिभविष्यन्ति" इति ।। ०७.१४.०१ ।। भेदं वा ब्रूयात्"अनपकारो यथाअहं एतैः सम्भूयाभियुक्तस्तथा त्वां अप्येते संहित-बलाः स्वस्था व्यसने वाअभियोक्ष्यन्ते । बलं हि चित्तं विकरोति । तदेषां विघातय" इति ।। ०७.१४.०२ ।। भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत् । हीनाननुग्राह्य वा प्रधाने । यथा वा श्रेयोअभिमन्येत तथा ।। ०७.१४.०३ ।। वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.१४.०४ ।। फल-भूयस्त्वेन वा प्रधानं उपजाप्य संधिं कारयेत् ।। ०७.१४.०५ ।। अथौभय-वेतनाः फल-भूयस्त्वं दर्शयन्तः सामवायिकान्"अतिसंहिताः स्थ" इत्युद्द्दूषयेयुः ।। ०७.१४.०६ ।। दुष्टेषु संधिं दूषयेत् ।। ०७.१४.०७ ।। अथौभय-वेतना भूयो भेदं एषां कुर्युः "एवं तद्यदस्माभिर्दर्शितम्" इति ।। ०७.१४.०८ ।। भिन्नेष्वन्यतम-उपग्रहेण चेष्टेत ।। ०७.१४.०९ ।। प्रधान-अभावे सामवायिकानां उत्साहयितारं स्थिर-कर्माणं अनुरक्त-प्रकृक्तिं लोभाद्भयाद्वा संघातं उपागतं विजिगीषोर्भीतं राज्य-प्रतिसम्बद्धं मित्रं चल-अमित्रं वा पूर्वानुत्तर-अभावे साधयेत् उत्साहयितारं आत्म-निसर्गेण । स्थिर-कर्माणं सान्त्व-प्रणिपातेन । अनुरक्त-प्रकृतिं कन्या-दान-यापनाभ्याम् । लुब्धं अंश-द्वैगुण्येन । भीतं एभ्यः कोश-दण्ड-अनुग्रहेण । स्वतो भीतं विश्वास्य प्रतिभू-प्रदानेन । राज्य-प्रतिसम्बद्धं एकी-भाव-उपगमनेन । मित्रं उभयतः प्रिय-हिताभ्याम् । उपकार-त्यागेन वा । चल-अमित्रं अवधृतं अनपकार-उपकाराभ्याम् ।। ०७.१४.१० ।। यो वा यथाअयोगं भजेत तं तथा साधयेत् । साम-दान-भेद-दण्डैर्वा यथाआपत्सु व्याख्यास्यामः ।। ०७.१४.११ ।। व्यसन-उपघात-त्वरितो वा कोश-दण्डाभ्यां देशे काले कार्ये वाअवधृतं संधिं उपेयात् ।। ०७.१४.१२ ।। कृत-संधिर्हीनं आत्मानं प्रतिकुर्वीत ।। ०७.१४.१३ ।। पक्षे हीनो बन्धु-मित्र-पक्षं कुर्वीत । दुर्गं अविषह्यं वा ।। ०७.१४.१४ ।। दुर्ग-मित्र-प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ।। ०७.१४.१५ ।। मन्त्र-शक्ति-हीनः प्राज्ञ-पुरुष-उपचयं विद्या-वृद्ध-सम्योगं वा कुर्वीत ।। ०७.१४.१६ ।। तथा हि सद्यः श्रेयः प्राप्नोति ।। ०७.१४.१७ ।। प्रभाव-हीनः प्रकृति-योग-क्षेम-सिद्धौ यतेत ।। ०७.१४.१८ ।। जन-पदः सर्व-कर्मणां योनिः । ततः प्रभावः ।। ०७.१४.१९ ।। तस्य स्थानं आत्मनश्चऽपदि दुर्गं ।। ०७.१४.२० ।। सेतु-बन्धः सस्यानां योनिः ।। ०७.१४.२१ ।। नित्य-अनुषक्तो हि वर्ष-गुण-लाभः सेतु-वापेषु ।। ०७.१४.२२ ।। वणिक्-पथः पर-अतिसंधानस्य योनिः ।। ०७.१४.२३ ।। वणिक्-पथेन हि दण्ड-गूढ-पुरुष-अतिनयनं शस्त्र-आवरण-यान-वाहन-क्रयश्च क्रियते । प्रवेशो निर्णयनं च ।। ०७.१४.२४ ।। खनिः संग्राम-उपकरणानां योनिः । द्रव्य-वनं दुर्ग-कर्मणां यान-रथयोश्च । हस्ति-वनं हस्तिनाम् । गव-अश्व-खर-उष्ट्राणां च व्रजः ।। ०७.१४.२५ ।। तेषां अलाभे बन्धु-मित्र-कुलेभ्यः समार्जनं ।। ०७.१४.२६ ।। उत्साह-हीनः श्रेणी-प्रवीर-पुरुषाणां चोर-गण-आटविक-म्लेच्छ-जातीनां पर-अपकारिणां गूढ-पुरुषाणां च यथा-लाब्भं उपचयं कुर्वीत ।। ०७.१४.२७ ।। पर-मिश्र-अप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत ।। ०७.१४.२८ ।। एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । ।। ०७.१४.२९अ ब ।। सम्पन्नः प्रतिनिर्गच्छेत्पर-अवग्रहं आत्मनः ।। ०७.१४.२९च्द् ।।
✦ ✦ ✦
“When the conqueror is thus attacked by the combined army of his enemies, he may tell their…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.