Arthashastra. Book 7, Chapter 15: The march of combined power
Book 7 · Chapter 15
The End of Sixfold Policy
The march of combined power
दुर्बलो राजा बलवताअभियुक्तस्तद्-विशिष्ट-बलं आश्रयेत यं इतरो मन्त्र-शक्त्या नातिसंदध्यात् ।। ०७.१५.०१ ।। तुल्य-मन्त्र-शक्तीनां आयत्त-सम्पदो वृद्ध-सम्योगाद्वा विशेषः ।। ०७.१५.०२ ।। विशिष्ट-बल-अभावे सम-बलैस्तुल्य-बल-संघैर्वा बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-शक्तिभ्यां अतिसंदध्यात् ।। ०७.१५.०३ ।। तुल्य-मन्त्र-प्रभाव-शक्तीनां विपुल-आरम्भतो विशेषः ।। ०७.१५.०४ ।। सम-बल-अभावे हीन-बलैः शुचिभिरुत्साहिभिः प्रत्यनीक-भूतैर्बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-उत्साह-शक्तिभिरतिसंदध्यात् ।। ०७.१५.०५ ।। तुल्य-उत्साह-शक्तीनां स्व-युद्ध-भूमि-लाभाद्विशेषः ।। ०७.१५.०६ ।। तुल्य-भूमीनां स्व-युद्ध-काल-लाभाद्विशेषः ।। ०७.१५.०७ ।। तुल्य-देश-कालानां युग्य-शस्त्र-आवरणतो विशेषः ।। ०७.१५.०८ ।। सहाय-अभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूत-सैन्योअपि भक्त-यवस-इन्धन-उदक-उपरोधं न कुर्यात्स्वयं च क्षय-व्ययाभ्यां युज्येत ।। ०७.१५.०९ ।। तुल्य-दुर्गाणां निचय-अपसारतो विशेषः ।। ०७.१५.१० ।। निचय-अपसार-सम्पन्नं हि मनुष्य-दुर्गं इच्छेदिति कौटिल्यः ०७.१५.१२अ ।तदेभिः कार्णैराश्रयेत "पार्ष्णि-ग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि । सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा ।। ०७.१५.११ ।। कृत्य-पक्ष-उपग्रहेण वाअस्य दुर्गे राष्ट्रे स्कन्ध-आवारे वा कोपं समुत्थापयिष्यामि । शस्त्र-अग्नि-रस-प्रणिधानैरौपनिषदिकैर्वा यथा-इष्टं आसन्नं हनिष्यामि ।। ०७.१५.१२ब ।। स्वयं-अधिष्ठितेन वा योग-प्रणिधानेन क्षय-व्ययं एनं उपनेष्यामि । क्षय-व्यय-प्रवास-उपतप्ते वाअस्य मित्र-वर्गे सैन्ये वा क्रमेणौपजापं प्राप्स्यामि ।। ०७.१५.१२क ।। वीवध-आसार-प्रसार-वधेन वाअस्य स्कन्ध-आवार-अवग्रहं करिष्यामि । दण्ड-उपनयेन वाअस्य रन्ध्रं उत्थाप्य सर्व-संदोहेन प्रहरिष्यामि । प्रतिहत-उत्साहेन वा यथा-इष्टं संधिं अवाप्स्यामि । मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति ।। ०७.१५.१२ड ।। निरासारं वाअस्य मूलं मित्र-अटवी-दण्डैरुद्धातयिष्यामि । महतो वा देशस्य योग-क्षेमं इहस्थः पालयिष्यामि । स्व-विक्षिप्तं मित्र-विक्षिप्तं वा मे सैन्यं इहस्थस्यएकस्थं अविषह्यं भविष्यति । निम्न-खात-रात्रि-युद्ध-विशारदं वा मे सैन्यं पथ्य-आबाध-मुक्तं आसन्ने कर्म करिष्यति ।। ०७.१५.१२ए ।। विरुद्ध-देश-कालं इह-आगतो वा स्वयं एव क्षय-व्ययाभ्यां न भविष्यति । महा-क्षय-व्यय-अभिगम्योअयं देशो दुर्ग-अटव्य्-अपसार-बाहुल्यात् ।। ०७.१५.१२फ़् ।। परेषां व्याधि-प्रायः सैन्य-व्यायामानां अलब्ध-भौमश्च । तं आपद्-गतः प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ।। ०७.१५.१२ग् ।। "कारण-अभावे बल-समुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत् ।। ०७.१५.१३ ।। अग्नि-पतङ्गवदमित्रे वा प्रविशेत् ।। ०७.१५.१४ ।। अन्यतर-सिद्धिर्हि त्यक्त-आत्मनो भवति" इत्याचार्याः ।। ०७.१५.१५ ।। नैति कौटिल्यः ।। ०७.१५.१६ ।। संधेयतां आत्मनः परस्य चौपलभ्य संदधीत ।। ०७.१५.१७ ।। विपर्यये विक्रमेण संधिं अपसारं वा लिप्सेत ।। ०७.१५.१८ ।। संधेयस्य वा दूतं प्रेषयेत् ।। ०७.१५.१९ ।। तेन वा प्रेषितं अर्थ-मानाभ्यां सत्कृत्य ब्रूयात्"इदं राज्ञः पण्य-अगारम् । इदं देवी-कुमाराणाम् । देवी-कुमार-वचनात् । इदं राज्यं अहं च त्वद्-अर्पणः" इति ।। ०७.१५.२० ।। लब्ध-संश्रयः समय-आचारिकवद्भर्तरि वर्तेत ।। ०७.१५.२१ ।। दुर्ग-आदीनि च कर्माणि आवाह-विवाह-पुत्र-अभिषेक-अश्व-पण्य-हस्ति-ग्रहण-सत्त्र-यात्रा-विहार-गमनानि चानुज्ञातः कुर्वीत ।। ०७.१५.२२ ।। स्व-भूम्य्-अवस्थित-प्रकृति-संधिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत ।। ०७.१५.२३ ।। दुष्ट-पौर-जानपदो वा न्याय-वृत्तिरन्यां भूमिं याचेत ।। ०७.१५.२४ ।। दुष्यवदुपांशु-दण्डेन वा प्रतिकुर्वीत ।। ०७.१५.२५ ।। उचितां वा मित्राद्भूमिं दीयमानां न प्रतिगृह्णीयात् ।। ०७.१५.२६ ।। मन्त्रि-पुरोहित-सेना-पति-युव-राजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत् । यथा-शक्ति चौपकुर्यात् ।। ०७.१५.२७ ।। दैवत-स्वस्ति-वाचनेषु तत्-परा आशिषो वाचयेत् ।। ०७.१५.२८ ।। सर्वत्रऽत्म-निसर्गं गुणं ब्रूयात् ।। ०७.१५.२९ ।। सम्युक्त-बलवत्-सेवी विरुद्धः शङ्कित-आदिभिः । ।। ०७.१५.३०अ ब ।। वर्तेत दण्ड-उपनतो भर्तर्येवं अवस्थितः ।। ०७.१५.३०च्द् ।।
✦ ✦ ✦
“When kings combine their forces, three questions must be settled before the column moves:…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.