Arthashastra. Book 7, Chapter 17: Aid to an ally in trouble
Book 7 · Chapter 17
The End of Sixfold Policy
Aid to an ally in trouble
शमः संधिः समाधिरित्येकोअर्थः ।। ०७.१७.०१ ।। राज्ञां विश्वास-उपगमः शमः संधिः समाधिरिति ।। ०७.१७.०२ ।। "सत्यं शपथो वा चलः संधिः । प्रतिभूः प्रतिग्रहो वा स्थावरः" इत्याचार्याः ।। ०७.१७.०३ ।। नैति कौटिल्यः ।। ०७.१७.०४ ।। सत्यं शपथो वा परत्रैह च स्थावरः संधिः । इह-अर्थ एव प्रतिभूः प्रतिग्रहो वा बल-अपेक्षः ।। ०७.१७.०५ ।। "संहिताः स्मः" इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ।। ०७.१७.०६ ।। तस्यातिक्रमे शपथेन अग्न्य्-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चएनं यः शपथं अतिक्रामेत्" इति ।। ०७.१७.०७ ।। शपथ-अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य-बन्धः प्रतिभूः ।। ०७.१७.०८ ।। तस्मिन्यः पर-अवग्रह-समर्थान्प्रतिभुवो गृह्णाति । सोअतिसंधत्ते ।। ०७.१७.०९ ।। विपरीतोअतिसंधीयते ।। ०७.१७.१० ।। बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ।। ०७.१७.११ ।। तस्मिन्यो दूष्य-अमात्यं दूष्य-अपत्यं वा ददाति । सोअतिसंधत्ते ।। ०७.१७.१२ ।। विपरीतोअतिसंधीयते ।। ०७.१७.१३ ।। प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ।। ०७.१७.१४ ।। अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत्तु कन्यां अतिसंधत्ते ।। ०७.१७.१५ ।। कन्या ह्यदायादा परेषां एवार्थायऽक्लेश्या(?) च ।। ०७.१७.१६ ।। विपरीतः पुत्रः ।। ०७.१७.१७ ।। पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृत-अस्त्रं एक-पुत्रं वा ददाति सोअतिसंधीयते ।। ०७.१७.१८ ।। विपरीतोअतिसंधत्ते ।। ०७.१७.१९ ।। जात्यादजात्यो हि लुप्त-दायाद-संतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-शक्ति-लोपात् । शूरादशूर उत्साह-शक्ति-लोपात् । कृत-अस्त्रादकृत-अस्त्रः प्रहर्तव्य-सम्पल्-लोपात् । एक-पुत्रादनेक-पुत्रो निरपेक्षत्वात् ।। ०७.१७.२० ।। जात्य-प्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्य-प्रकृतिरनुवर्तते । प्राज्ञं अजात्यं मन्त्र-अधिकारः ।। ०७.१७.२१ ।। मन्त्र-अधिकारेअपि वृद्ध-सम्योगाज्जात्यः प्राज्ञं अतिसंधत्ते ।। ०७.१७.२२ ।। प्राज्ञ-शूरयोः प्राज्ञं अशूरं मति-कर्मणां योगोअनुवर्तते । शूरं अप्राज्ञं विक्रम-अधिकारः ।। ०७.१७.२३ ।। विक्रम-अधिकारेअपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसंधत्तेश् ।। ०७.१७.२४ ।। शूर-कृत-अस्त्रयोः शूरं अकृत-अस्त्रं विक्रम-व्यवसायोअनुवर्तते । कृत-अस्त्रं अशूरं लक्ष्य-लम्भ-अधिकारः ।। ०७.१७.२५ ।। लक्ष्य-लम्भ-अधिकारेअपि स्थैर्य-प्रतिपत्त्य्-असम्मोषैः शूरः कृत-अस्त्रं अतिसंधत्ते ।। ०७.१७.२६ ।। बह्व्-एक-पुत्रयोर्बहु-पुत्र एकं दत्त्वा शेष-प्रतिष्टब्धः संधिं अतिक्रामति । नैतरः ।। ०७.१७.२७ ।। पुत्र-सर्व-स्व-दाने संधिश्चेत्पुत्र-फलतो विशेषः ।। ०७.१७.२८ ।। सम-फलयोः शक्त-प्रजननतो विशेषः ।। ०७.१७.२९ ।। शक्त-प्रजननयोरप्युपस्थित-प्रजननतो विशेषः ।। ०७.१७.३० ।। शक्तिमत्येक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिरात्मानं आदध्यात् । न चएक-पुत्रं इति ।। ०७.१७.३१ ।। अभ्युच्चीयमानः समाधि-मोक्षं कारयेत् ।। ०७.१७.३२ ।। कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः ।। ०७.१७.३३ ।। नटनर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिका वा पूर्व-प्रणिहिताः परं उपतिष्ठेरन् ।। ०७.१७.३४ ।। ते कुमारं परं-परयाउपतिष्ठेरन् ।। ०७.१७.३५ ।। तेषां अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ।। ०७.१७.३६ ।। ततस्तद्-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.३७ ।। तेन रूप-आजीवा भार्या-व्यञ्जनाश्च व्याख्याताः ।। ०७.१७.३८ ।। तेषां वा तूर्य-भाण्ड-फेलां गृहीत्वा निर्गच्छेत् ।। ०७.१७.३९ ।। सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैर्वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैर्निर्ह्रियेत ।। ०७.१७.४० ।। परिचारकच्-छद्मना वा किंचिदरूप-वेलायां आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ।। ०७.१७.४१ ।। तोय-आशये वा वारुणं योगं आतिष्ठेत् ।। ०७.१७.४२ ।। वैदेहक-व्यञ्जना वा पक्व-अन्न-फल-व्यवहारेणऽरक्षिषु रसं उपचारयेयुः ।। ०७.१७.४३ ।। दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तं आरक्षिषु मदन-योग-युक्तं अन्न-पानं रसं वा प्रयुज्यापगच्छेत् । आरक्षक-प्रोत्साहनेन वा ।। ०७.१७.४४ ।। नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जना वा रात्रौ समृद्ध-गृहाण्यादीपयेयुः आरक्षिणां वा ।। ०७.१७.४५ ।। वैदेहक-व्यञ्जना वा पण्य-संस्थां आदीपयेयुः ।। ०७.१७.४६ ।। अन्यद्वा शरीरं निक्षिप्य स्व-गृहं आदीपयेदनुपात-भयात् ।। ०७.१७.४७ ।। ततः संधिच्-छेद-खात-सुरुङ्गाभिरपगच्छेत् ।। ०७.१७.४८ ।। काच-कुम्भ-भाण्ड-भार-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.४९ ।। मुण्ड-जटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरच्-छद्मनां अन्यतमेन वा ।। ०७.१७.५० ।। प्रेत-व्यञ्जनो वा गूढैर्निर्ह्रियेत ।। ०७.१७.५१ ।। प्रेतं वा स्त्री-वेषेणानुगच्छेत् ।। ०७.१७.५२ ।। वन-चर-व्यञ्जनाश्चएनं अन्यतो यान्तं अन्यतोअपदिशेयुः ।। ०७.१७.५३ ।। ततोअन्यतो गच्छेत् ।। ०७.१७.५४ ।। चक्र-चराणां वा शकट-वाटैरपगच्छेत् ।। ०७.१७.५५ ।। आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ।। ०७.१७.५६ ।। सत्त्र-अभावे हिरण्यं रस-विद्धं वा भक्ष्य-जातं उभयतः-पन्थानं उत्सृजेत् ।। ०७.१७.५७ ।। ततोअन्यतोअपगच्छेत् ।। ०७.१७.५८ ।। गृहीतो वा साम-आदिभिरनुपातं अतिसंदध्यात् । रस-विद्धेन वा पथ्य्-अदनेन ।। ०७.१७.५९ ।। वारुण-योग-अग्नि-दाहेषु वा शरीरं अन्यदाधाय शत्रुं अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ।। ०७.१७.६० ।। उपात्तच्-छन्न-शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ।। ०७.१७.६१अ ।। शीघ्र-पातैरपसरेद्गूढ-प्रणिहितैः सह ।। ०७.१७.६१ब ।।
✦ ✦ ✦
“When an ally is in trouble, three questions decide the kind of help to send. Is the troubl…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.