Arthashastra. Book 7, Chapter 18: Decisions in council

Book 7 · Chapter 18

The End of Sixfold Policy

Decisions in council

मध्यमस्यऽत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ।। ०७.१८.०१ ।। द्वितीया चतुर्थी षष्ठी च विकृतयः ।। ०७.१८.०२ ।। तच्चेदुभयं मध्यमोअनुगृह्णीयात् । विजिगीषुर्मध्यम-अनुलोमः स्यात् ।। ०७.१८.०३ ।। न चेदनुगृह्णीयात् । प्रकृत्य्-अनुलोमः स्यात् ।। ०७.१८.०४ ।। मद्यमश्चेद्विजिगीषोर्मित्रं मित्र-भावि लिप्सेत । मित्रस्यऽत्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ।। ०७.१८.०५ ।। मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः । सम्भूयास्य यात्रां विहनाम" इति ।। ०७.१८.०६ ।। तच्चेन्मण्डलं अनुगृह्णीयात् । मध्यम-अवग्रहेणऽत्मानं उपबृंहयेत् ।। ०७.१८.०७ ।। न चेदनुगृह्णीयात् । कोश-दण्डाभ्यां मित्रं अनुगृह्य ये मध्यम-द्वेषिणो राजानः परस्पर-अनुगृहीता वा बहवस्तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्पराद्वा शङ्किता नौत्तिष्ठेरन् । तेषां प्रधानं एकं आसन्नं वा साम-दानाभ्यां लभेत ।। ०७.१८.०८ ।। द्वि-गुणो द्वितीयं त्रि-गुनस्तृतीयं ।। ०७.१८.०९ ।। एवं अभ्युच्चितो मध्यमं अवगृह्णीयात् ।। ०७.१८.१० ।। देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात् । दूष्येषु वा कर्म-संधिं ।। ०७.१८.११ ।। कर्शनीयं वाअस्य मित्रं मध्यमो लिप्सेत । प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ।। ०७.१८.१२ ।। कर्शितं एनं त्रायेत ।। ०७.१८.१३ ।। उच्छेदनीयं वाअस्य मित्रं मध्यमो लिप्सेत । कर्शितं एनं त्रायेत मध्यम-वृद्धि-भयात् ।। ०७.१८.१४ ।। उच्छिन्नं वा भूम्य्-अनुग्रहेण हस्ते कुर्यादन्यत्रापसार-भयात् ।। ०७.१८.१५ ।। कर्शनीय-उच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ।। ०७.१८.१६ ।। विजिगीषोर्वा तयोर्मित्राण्यवग्रह-समर्थानि स्युः । संधिं उपेयात् ।। ०७.१८.१७ ।। अमित्रं वाअस्य मध्यमो लिप्सेत । संधिं उपेयात् ।। ०७.१८.१८ ।। एवं स्व-अर्थश्च कृतो भवति मध्यमस्य प्रियं च ।। ०७.१८.१९ ।। मध्यमश्चेत्स्व-मित्रं मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ।। ०७.१८.२० ।। स-अपेक्षं वा "नार्हसि मित्रं उच्छेत्तुम्" इति वारयेत् ।। ०७.१८.२१ ।। उपेक्षेत वा "मण्डलं अस्य कुप्यतु स्व-पक्ष-वधात्" इति ।। ०७.१८.२२ ।। अमित्रं आत्मनो वा मध्यमो लिप्सेत । कोश-दण्डाभ्यां एनं अदृश्यमानोअनुगृह्णीयात् ।। ०७.१८.२३ ।। उदासीनं वा मध्यमो लिप्सेत । अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ।। ०७.१८.२४ ।। मध्यम-उदासीनयोर्यो मण्डलस्याभिप्रेतस्तं आश्रयेत ।। ०७.१८.२५ ।। मध्यम-चरितेनौदासीन-चरितं व्याख्यातं ।। ०७.१८.२६ ।। उदासीनश्चेन्मध्यमं लिप्सेत । यतः शत्रुं अतिसंदध्यान्मित्रस्यौपकारं कुर्यादुदासीनं वा दण्ड-उपकारिणं लभेत ततः परिणमेत ।। ०७.१८.२७ ।। एवं उपबृह्यऽत्मानं अरि-प्रकृतिं कर्शयेन्मित्र-प्रकृतिं चौपगृह्णीयात् ।। ०७.१८.२८ ।। सत्यप्यमित्र-भावे तस्यानात्मवान्नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथग्-अर्थ-अभिप्रयातः सम्भूय-यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधी-भाविक इति मित्र-भाविनः । ।। ०७.१८.२९अ ।। सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि-ग्राहो वा स्वयं उपनतः प्रताप-उपनतो वा दण्ड-उपनत इति भृत्य-भाविनः सामन्ताः ।। ०७.१८.२९ब ।। तैर्भूम्य्-एक-अन्तरा व्याख्याताः ।। ०७.१८.३० ।। तेषां शत्रु-विरोधे यन्मित्रं एक-अर्थतां व्रजेत् । ।। ०७.१८.३१अ ब ।। शक्त्या तद्-अनुगृह्णीयाद्विषहेत यया परं ।। ०७.१८.३१च्द् ।। प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यतां । ।। ०७.१८.३२अ ब ।। सामन्त-एक-अन्तराभ्यां तत्-प्रकृतिभ्यां विरोधयेत् ।। ०७.१८.३२च्द् ।। तत्-कुलीन-अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ।। ०७.१८.३३अ ब ।। यथा वाअनुग्रह-अपेक्षं वश्यं तिष्ठेत्तथा चरेत् ।। ०७.१८.३३च्द् ।। नौपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितं । ।। ०७.१८.३४अ ब ।। तदहीनं अवृद्धं च स्थापयेन्मित्रं अर्थवित् ।। ०७.१८.३४च्द् ।। अर्थ-युक्त्या चलं मित्रं संधिं यदुपगच्छति । ।। ०७.१८.३५अ ब ।। तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ।। ०७.१८.३५च्द् ।। अरि-साधारणं यद्वा तिष्ठेत्तदरितः शठं । ।। ०७.१८.३६अ ब ।। भेदयेद्भिन्नं उच्छिन्द्यात्ततः शत्रुं अनन्तरं ।। ०७.१८.३६च्द् ।। उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ।। ०७.१८.३७अ ब ।। ततो विग्रह-संतप्तं उपकारे निवेशयेत् ।। ०७.१८.३७च्द् ।। अमित्रं विजिगीषुं च यत्संचरति दुर्बलं । ।। ०७.१८.३८अ ब ।। तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्-मुखं ।। ०७.१८.३८च्द् ।। अपनीय ततोअन्यस्यां भूमौ वा सम्निवेशयेत् । ।। ०७.१८.३९अ ब ।। निवेश्य पूर्वं तत्रान्यद्दण्ड-अनुग्रह-हेतुना ।। ०७.१८.३९च्द् ।। अपकुर्यात्समर्थं वा नौपकुर्याद्यदापदि । ।। ०७.१८.४०अ ब ।। उच्छिन्द्यादेव तन्-मित्रं विश्वस्याङ्कं उपस्थितं ।। ०७.१८.४०च्द् ।। मित्र-व्यसनतो वाअरिरुत्तिष्ठेद्योअनवग्रहः । ।। ०७.१८.४१अ ब ।। मित्रेणएव भवेत्साध्यश्छादित-व्यसनेन सः ।। ०७.१८.४१च्द् ।। अमित्र-व्यसनान्मित्रं उत्थितं यद्विरज्यति । ।। ०७.१८.४१अ ब ।। अरि-व्यसन-सिद्ध्या तत्-शत्रुणाएव प्रसिध्यति ।। ०७.१८.४१च्द् ।। वृद्धिं क्षयं च स्थानं च कर्शन-उच्छेदनं तथा ।। ०७.१८.४२अ ब ।। सर्व-उपायान्समादध्यादेतान्यश्चार्थ-शास्त्रवित् । ।। ०७.१८.४२च्द् ।। एवं अन्योन्य-संचारं षाड्गुण्यं योअनुपश्यति ।। ०७.१८.४३अ ब ।। स बुद्धि-निगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ।। ०७.१८.४३च्द् ।।

✦ ✦ ✦

Let the council be small, the chamber closed, and the speaking unhurried. Each minister sh
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.