Arthashastra. Book 7, Chapter 2: Why peace beats war when the outcomes are equal
Book 7 · Chapter 2
The End of Sixfold Policy
Why peace beats war when the outcomes are equal
संधि-विग्रहयोस्तुल्यायां वृद्धौ संधिं उपेयात् ।। ०७.२.०१ ।। विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवाया भवन्ति ।। ०७.२.०२ ।। तेनऽसन-यानयोरासनं व्याख्यातं ।। ०७.२.०३ ।। द्वैधी-भाव-संश्रययोर्द्वैधी-भावं गच्छेत् ।। ०७.२.०४ ।। द्वैधी-भूतो हि स्व-कर्म-प्रधान आत्मन एवौपकरोति । संश्रितस्तु परस्यौपकरोति । नऽत्मनः ।। ०७.२.०५ ।। यद्-बलः सामन्तस्तद्-विशिष्ट-बलं आश्रयेत् ।। ०७.२.०६ ।। तद्-विशिष्ट-बल-अभावे तं एवऽश्रितः कोश-दण्ड-भूमीनां अन्यतमेनास्यौपकर्तुं अदृष्टः प्रयतेत ।। ०७.२.०७ ।। महा-दोषो हि विशिष्ट-बल-समागमो राज्ञाम् । अन्यत्रारि-विगृहीतात् ।। ०७.२.०८ ।। अशक्ये दण्ड-उपनतवद्वर्तेत ।। ०७.२.०९ ।। यदा चास्य प्राण-हरं व्याधिं अन्तः-कोपं शत्रु-वृद्धिं मित्र-व्यसनं उपस्थितं वा तन्-निमित्तां आत्मनश्च वृद्धिं पश्येत्तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेनापयायात् ।। ०७.२.१० ।। स्व-विषयस्थो वा नौपगच्छेत् ।। ०७.२.११ ।। आसन्नो वाअस्य च्छिद्रेषु प्रहरेत् ।। ०७.२.१२ ।। बलीयसोर्वा मध्य-गतस्त्राण-समर्थं आश्रयेत । यस्य वाअन्तर्धिः स्यात् । उभौ वा ।। ०७.२.१३ ।। कपाल-संश्रयस्तिष्ठेत् । मूल-हरं इतरस्यैतरं अपदिशन् ।। ०७.२.१४ ।। भेदं उभयोर्वा परस्पर-अपदेशं प्रयुञ्जीत । भिन्नयोरुपांशु-दण्डं ।। ०७.२.१५ ।। पार्श्वस्थो वा बलस्थयोरासन्न-भयात्प्रतिकुर्वीत ।। ०७.२.१६ ।। दुर्ग-अपाश्रयो वा द्वैधी-भूतस्तिष्ठेत् ।। ०७.२.१७ ।। संधि-विग्रह-क्रम-हेतुभिर्वा चेष्टेत ।। ०७.२.१८ ।। दूष्य-अमित्र-आटविकानुभयोरुपगृह्णीयात् ।। ०७.२.१९ ।। एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ।। ०७.२.२० ।। द्वाभ्यां उपहतो वा मण्डल-अपाश्रयस्तिष्ठेत् । मध्यमं उदासीनं वा संश्रयेत ।। ०७.२.२१ ।। तेन सहएकं उपगृह्यैतरं उच्छिन्द्याद् । उभौ वा ।। ०७.२.२२ ।। द्वाभ्यां उच्छिन्नो वा मध्यम-उदासीनयोस्तत्-पक्षीयाणां वा राज्ञां न्याय-वृत्तिं आश्रयेत ।। ०७.२.२३ ।। तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम् । यत्रस्थो वा शक्नुयादात्मानं उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिरासन्नः सम्बन्धो वा । मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ।। ०७.२.२४ ।। प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ।। ०७.२.२५अ ब ।। प्रियो यस्य स तं गच्छेदित्याश्रय-गतिः परा ।। ०७.२.२५च्द् ।।
✦ ✦ ✦
“When the advantages derivable from peace and war are of equal character, one should prefer…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.