Arthashastra. Book 7, Chapter 4: Asana. The discipline of doing nothing

Book 7 · Chapter 4

The End of Sixfold Policy

Asana. The discipline of doing nothing

संधि-विग्रहयोरासनं यानं च व्याख्यातं ।। ०७.४.०१ ।। स्थानं आसनं उपेक्षणं चैत्यासन-पर्यायाः ।। ०७.४.०२ ।। विशेषस्तु गुण-एकदेशे स्थानम् । स्व-वृद्धि-प्राप्त्य्-अर्थं आसनम् । उपायानां अप्रयोग उपेक्षणं ।। ०७.४.०३ ।। अतिसंधान-कामयोररि-विजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यऽसनं संधाय वा ।। ०७.४.०४ ।। यदा वा पश्येत्"स्व-दण्डैर्मित्र-अटवी-दण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यो विगृह्यऽसीत ।। ०७.४.०५ ।। यदा वा पश्येत्"उत्साह-युक्ता मे प्रकृतयः संहता विवृद्धाः स्व-कर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यऽसीत ।। ०७.४.०६ ।। यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयो दुर्भिक्ष-उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ।। ०७.४.०७अ ।। तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ।। ०७.४.०७ब ।। पर-वणिक्-पथाद्वा सरवन्ति मां एष्यन्ति विगृहीते । नैतरम् । दूष्य-अमित्र-अटवी-निग्रहं वा विगृहीतो न करिष्यति । तैरेव वा विग्रहं प्राप्स्यति । ।। ०७.४.०७क ।। मित्रं मे मित्र-भाव्यभिप्रयातो बह्व्-अल्प-कालं तनु-क्षय-व्ययं अर्थं प्राप्स्यति । गुणवतीं आदेयां वा भूमिम् । ।। ०७.४.०७ड ।। सर्व-संदोहेन वा मां अनादृत्य प्रयातु-कामः कथं न यायाद्" इति पर-वृद्धि-प्रतिघात-अर्थं प्रताप-अर्थं च विगृह्यऽसीत ।। ०७.४.०७ए ।। "तं एव हि प्रत्यावृत्तो ग्रसते" इत्याचार्याः ।। ०७.४.०८ ।। नैति कौटिल्यः ।। ०७.४.०९ ।। कर्शन-मात्रं अस्य कुर्यादव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनं ।। ०७.४.१० ।। एवं परस्य यातव्योअस्मै साहाय्यं अविनष्टः प्रयच्छेत् ।। ०७.४.११ ।। तस्मात्सर्व-संदोह-प्रकृतं विगृह्यऽसीत ।। ०७.४.१२ ।। विगृह्य-आसन-हेतु-प्रातिलोम्ये संधायऽसीत ।। ०७.४.१३ ।। विगृह्य-आसन-हेतुभिरभ्युच्चितः सर्व-संदोह-वर्जं विगृह्य यायात् ।। ०७.४.१४ ।। यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनं वाअस्य शीष-प्रकृतिभिरप्रतिकार्यम् । स्व-चक्र-पीडिता विरक्ता वाअस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम् । अग्न्य्-उदक-व्याधि-मरक-दुर्भिक्ष-निमित्तं क्षीण-युग्य-पुरुष-निचय-रक्षा-विधानः परः" इति तदा विगृह्य यायात् ।। ०७.४.१५ ।। यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ।। ०७.४.१६ ।। यदा वा फलं एक-हार्यं अल्प-कालं पश्येत्तदा पार्ष्णि-ग्राह-आसाराभ्यां विगृह्य यायात् ।। ०७.४.१७ ।। विपर्यये संधाय यायात् ।। ०७.४.१८ ।। यदा वा पश्येत्"न शक्यं एकेन यातुं अवश्यं च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायाद् । एकत्र निर्दिष्टेनांशेन । अनेकत्रानिर्दिष्टेनांशेन ।। ०७.४.१९ ।। तेषां असमवाये दण्डं अन्यतमस्मान्निविष्ट-अंशेन याचेत ।। ०७.४.२० ।। सम्भूय-अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेनांशेन । अध्रुवे लाभ-अंशेन ।। ०७.४.२१ ।। अंशो दण्ड-समः पूर्वः प्रयास-सम उत्तमः । ।। ०७.४.२२अ ब ।। विलोपो वा यथा-लाभं प्रक्षेप-सम एव वा ।। ०७.४.२२च्द् ।।

✦ ✦ ✦

When a king finds that neither his enemy is in a position to harm him nor he his enemy, th
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.