Arthashastra. Book 7, Chapter 5: Marching against an enemy in trouble. Pick the trouble before the army
Book 7 · Chapter 5
The End of Sixfold Policy
Marching against an enemy in trouble. Pick the trouble before the army
तुल्य-सामन्त-व्यसने यातव्यं अमित्रं वाइत्यमित्रं अभियायात् । तत्-सिद्धौ यातव्यं ।। ०७.५.०१ ।। अमित्र-सिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्य-सिद्धौ ।। ०७.५.०२ ।। गुरु-व्यसनं यातव्यं लघु-व्यसनं अमित्रं वाइति "गुरु-व्यसनं सौकर्यतो यायाद्" इत्याचार्याः ।। ०७.५.०३ ।। नैति कौटिल्यः ।। ०७.५.०४ ।। लघु-व्यसनं अमित्रं यायात् ।। ०७.५.०५ ।। लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति ।। ०७.५.०६ ।। सत्यं गुर्वपि गुरुतरं भवति ।। ०७.५.०७ ।। अनभियुक्तस्तु लघु-व्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत् । पार्ष्णिं वा गृह्णीयात् ।। ०७.५.०८ ।। यातव्य-यौगपद्ये गुरु-व्यसनं न्याय-वृत्तिं लघु-व्यसनं अन्याय-वृत्तिं विरक्त-प्रकृतिं वाइति विरक्त-प्रकृतिं यायात् ।। ०७.५.०९ ।। गुरु-व्यसनं न्याय-वृत्तिं अभियुक्तं प्रकृतयोअनुगृह्णन्ति । लघु-व्यसनं अन्याय-वृत्तिं उपेक्षन्ते । विरक्ता बलवन्तं अप्युच्छिन्दन्ति ।। ०७.५.१० ।। तस्माद्विरक्त-प्रकृतिं एव यायात् ।। ०७.५.११ ।। क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वाइति क्षीण-लुब्ध-प्रकृतिं यायात् । क्षीण-लुब्धा हि प्रकृतयः सुखेनौपजापं पीडां वाउपगच्छन्ति । नापचरिताः प्रधान-अवग्रह-साध्याः" इत्याचार्याः ।। ०७.५.१२ ।। नैति कौटिल्यः ।। ०७.५.१३ ।। क्षीण-लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ-हिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०७.५.१४ ।। तस्मादपचरित-प्रकृतिं एव यायात् ।। ०७.५.१५ ।। बलवन्तं अन्याय-वृत्तिं दुर्बलं वा न्याय-वृत्तिं इति बलवन्तं अन्याय-वृत्तिं यायात् ।। ०७.५.१६ ।। बलवन्तं अन्याय-वृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति । निष्पातयन्ति । अमित्रं वाअस्य भजन्ते ।। ०७.५.१७ ।। दुर्बलं तु न्याय-वृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ।। ०७.५.१८ ।। अवक्षेपेण हि सतां असतां प्रग्रहेण च । ।। ०७.५.१९अ ब ।। अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः ।। ०७.५.१९च्द् ।। उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ।। ०७.५.२०अ ब ।। अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ।। ०७.५.२०च्द् ।। अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ।। ०७.५.२१अ ब ।। अप्रदानैश्च देयानां अदेयानां च साधनैः ।। ०७.५.२१च्द् ।। अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः । ।। ०७.५.२२अ ब ।। अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः ।। ०७.५.२२च्द् ।। अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ।। ०७.५.२३अ ब ।। अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ।। ०७.५.२३च्द् ।। पातैः पुरुष-काराणां कर्मणां गुण-दूषणैः । ।। ०७.५.२४अ ब ।। उपघातैः प्रधानानां मान्यानां चावमाननैः ।। ०७.५.२४च्द् ।। विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ।। ०७.५.२५अ ब ।। कृतस्याप्रतिकारेण स्थितस्याकरणेन च ।। ०७.५.२५च्द् ।। राज्ञः प्रमाद-आलस्याभ्यां योग-क्षेम-वधेन वा । ।। ०७.५.२६अ ब ।। प्रकृतीनां क्षयो लोभो वैराग्यं चौपजायते ।। ०७.५.२६च्द् ।। क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागतां । ।। ०७.५.२७अ ब ।। विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयं ।। ०७.५.२७च्द् ।। तस्मात्प्रकृतीनां क्षय-लोभ-विराग-कारणानि नौत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ।। ०७.५.२८ ।। क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ।। ०७.५.२९ ।। क्षीणाः पीडन-उच्छेदन-भयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ।। ०७.५.३० ।। लुब्धा लोभेनासंतुष्टाः पर-उपजापं लिप्सन्ते ।। ०७.५.३१ ।। विरक्ताः पर-अभियोगं अभ्युत्तिष्ठन्ते ।। ०७.५.३२ ।। तासां हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारश्च । युग्य-पुरुष-क्षयो हिरण्य-धान्य-साध्यः ।। ०७.५.३३ ।। लोभ ऐकदेशिको मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुं आदातुं वा ।। ०७.५.३४ ।। विरागः प्रधान-अवग्रह-साध्यः ।। ०७.५.३५ ।। निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम् । अनापत्-सहास्तु ।। ०७.५.३६ ।। प्रकृति-मुख्य-प्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्-सहाश्च ।। ०७.५.३७ ।। सामवायिकानां अपि संधि-विग्रह-कारणान्यवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ।। ०७.५.३८ ।। शक्तिमान्हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ चासिद्धौ च यथा-स्थित-कारीइति ।। ०७.५.३९ ।। तेषां ज्यायसाएकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः ।। ०७.५.४० ।। ज्यायसा ह्यवगृहीतश्चरति । समाभ्यां अतिसंधान-आधिक्ये वा ।। ०७.५.४१ ।। तौ हि सुखौ भेदयितुम् । दुष्टश्चएको द्वाभ्यां नियन्तुं भेद-उपग्रहं चौपगन्तुं इति ।। ०७.५.४२ ।। समेनएकेन द्वाभ्यां हीनाभ्यां वाइति द्वाभ्यां हीनाभ्यां श्रेयः ।। ०७.५.४३ ।। तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ।। ०७.५.४४ ।। कार्य-सिद्धौ तु कृत-अर्थाज्ज्यायसो गूढः स-अपदेशं अपस्रवेत् । ।। ०७.५.४५अ ब ।। अशुचेः शुचि-वृत्तात्तु प्रतीक्षेतऽ विसर्जनात् ।। ०७.५.४५च्द् ।। सत्त्रादपसरेद्यत्तः कलत्रं अपनीय वा । ।। ०७.५.४६अ ब ।। समादपि हि लब्ध-अर्थाद्विश्वस्तस्य भयं भवेत् ।। ०७.५.४६च्द् ।। ज्यायस्त्वे चापि लब्ध-अर्थः समोअपि परिकल्पते । ।। ०७.५.४७अ ब ।। अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्त-विकारिणी ।। ०७.५.४७च्द् ।। विशिष्टादल्पं अप्यंशं लब्ध्वा तुष्ट-मुखो व्रजेत् । ।। ०७.५.४८अ ब ।। अनंशो वा ततोअस्याङ्के प्रहृत्य द्वि-गुणं हरेत् ।। ०७.५.४८च्द् ।। कृत-अर्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ।। ०७.५.४९अ ब ।। अपि जीयेत न जयेन्मण्डल-इष्टस्तथा भवेत् ।। ०७.५.४९च्द् ।।
✦ ✦ ✦
“When the protective power of fortifications and stores of the enemies is on its decay, whe…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.