Arthashastra. Book 7, Chapter 6: Samsraya. When to seek shelter under the stronger
Book 7 · Chapter 6
The End of Sixfold Policy
Samsraya. When to seek shelter under the stronger
विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसंदध्यात् ।। ०७.६.०१ ।। सामन्तं संहित-प्रयाणे योजयेत्"त्वं इतो याहि । अहं इतो यास्यामि । समानो लाभः" इति ।। ०७.६.०२ ।। लाभ-साम्ये संधिः । वैषम्ये विक्रमः ।। ०७.६.०३ ।। संधिः परिपणितश्चापरिपणितश्च ।। ०७.६.०४ ।। "त्वं एतं देशं याहि । अहं इमं देशं यास्यामि" इति परिपणित-देशः ।। ०७.६.०५ ।। "त्वं एतावन्तं कालं चेष्टस्व । अहं एतावन्तं कालं चेष्टिष्ये" इति परिपणित-कालः ।। ०७.६.०६ ।। "त्वं एतावत्-कार्यं साधय । अहं इदं कार्यं साधयिष्यामि" इति परिपणित-अर्थः ।। ०७.६.०७ ।। यदि वा मन्येत "शैल-वन-नदी-दुर्गं अटवी-व्यवहितं छिन्न-धान्य-पुरुष-वीवध-आसारं अयवस-इन्धन-उदकं अविज्ञातं प्रकृष्टं अन्य-भाव-देशीयं वा सैन्य-व्यायामानां अलब्ध-भौमं वा देशं परो यास्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-देशं संधिं उपेयात् ।। ०७.६.०८ ।। यदि वा मन्येत "प्रवर्ष-उष्ण-शीतं अतिव्याधि-प्रायं उपक्षीण-आहार-उपभोगं सैन्य-व्यायामानां चाउपरोधिकं कार्य-साधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-कालं संधिं उपेयात् ।। ०७.६.०९ ।। यदि वा मन्येत "प्रत्यादेयं प्रकृति-कोपकं दीर्घ-कालं महा-क्षय-व्ययं अल्पं अनर्थ-अनुबन्धं अकल्यं अधर्म्यं मध्यम-उदासीन-विरुद्धं मित्र-उपघातकं वा कार्यं परः साधयिष्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-अर्थं संधिं उपेयात् ।। ०७.६.१० ।। एवं देश-कालयोः काल-कार्ययोर्देश-कार्ययोर्देश-काल-कार्याणां चावस्थापनात्सप्त-विधः परिपणितः ।। ०७.६.११ ।। तस्मिन्प्रागेवऽरभ्य प्रतिष्ठाप्य च स्व-कर्माणि पर-कर्मसु विक्रमेत ।। ०७.६.१२ ।। व्यसन-त्वर-अवमान-आलस्य-युक्तं अज्ञं वा शत्रुं अतिसंधातु-कामो देश-काल-कार्याणां अनवस्थापनात्"संहितौ स्वः" इति संधि-विश्वासेन परच्-छिद्रं आसाद्य प्रहरेदित्यपरिपणितः ।। ०७.६.१३ ।। तत्रएतद्भवति ।। ०७.६.१४ ।। सामन्तेनएव सामन्तं विद्वानायोज्य विग्रहे । ।। ०७.६.१५अ ब ।। ततोअन्यस्य हरेद्भूमिं छित्त्वा पक्षं समन्ततः ।। ०७.६.१५च्द् ।। संधेरकृत-चिकीर्षा कृत-श्लेषणं कृत-विदूषणं अवशीर्ण-क्रिया च ।। ०७.६.१६ ।। विक्रमस्य प्रकाश-युद्धं कूट-युद्धं तूष्णीं-युद्धं ।। ०७.६.१७ ।। इति संधि-विक्रमौ ।। ०७.६.१८ ।। अपूर्वस्य संधेः स-अनुबन्धैः साम-आदिभिः पर्येषणं सम-हीन-ज्यायसां च यथा-बलं अवस्थापनं अकृत-चिकीर्षा ।। ०७.६.१९ ।। कृतस्य प्रिय-हिताभ्यां उभयतः परिपालनं यथा-सम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च "कथं परस्मान्न भिद्येत" इति कृत-श्लेषणं ।। ०७.६.२० ।। परस्यापसंधेयतां दूष्य-अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत-विदूषणं ।। ०७.६.२१ ।। भृत्येन मित्रेण वा दोष-अपसृतेन प्रतिसंधानं अवशीर्ण-क्रिया ।। ०७.६.२२ ।। तस्यां गत-आगतश्चतुर्-विधः कारणाद्गत-आगतो । विपरीतः । कारणाद्गतोअकारणादागतो । विपरीतश्चैति ।। ०७.६.२३ ।। स्वामिनो दोषेण गतो गुणेनऽगतः परस्य गुणेन गतो दोषेणऽगत इति कारणाद्गत-आगतः संधेयः ।। ०७.६.२४ ।। स्व-दोषेण गत-आगतो गुणं उभयोः परित्यज्य अकारणाद्गत-आगतः चल-बुद्धिरसंधेयः ।। ०७.६.२५ ।। स्वामिनो दोषेण गतः परस्मात्स्व-दोषेणऽगत इति कारणाद्गतोअकारणादागतः तर्कयितव्यः "पर-प्रयुक्तः स्वेन वा दोषेणापकर्तु-कामः । परस्यौच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघात-भयादागतः । परं वा मां उच्छेत्तु-कामं परित्यज्यऽनृशंस्यादागतः" इति ।। ०७.६.२६ ।। ज्ञात्वा कल्याण-बुद्धिं पूजयेद् । अन्यथा-बुद्धिं अपकृष्टं वासयेत् ।। ०७.६.२७ ।। स्व-दोषेण गतः पर-दोषेणऽगत इत्यकारणाद्गतः कारणादागतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति । उचितोअयं अस्य वासः । परत्रास्य जनो न रमते । मित्रैर्मे संहितः । शत्रुभिर्विगृहीतः । लुब्ध-क्रूरादाविग्नः शत्रु-संहिताद्वा परस्मात्" इति ।। ०७.६.२८ ।। ज्ञात्वा यथा-बुद्ध्यवस्थापयितव्यः ।। ०७.६.२९ ।। "कृत-प्रणाशः शक्ति-हानिर्विद्या-पण्यत्वं आशा-निर्वेदो देश-लौल्यं अविश्वासो बलवद्-विग्रहो वा परित्याग-स्थानम्" इत्याचार्याः ।। ०७.६.३० ।। भयं अवृत्तिरमर्ष इति कौटिल्यः ।। ०७.६.३१ ।। इहापकारी त्याज्यः । पर-अपकारी संधेयः । उभय-अपकारी तर्कयितव्य इति समानं ।। ०७.६.३२ ।। असंधेयेन त्ववश्यं संधातव्ये यतः प्रभावस्ततः प्रतिविदध्यात् ।। ०७.६.३३ ।। स-उपकारं व्यवहितं गुप्तं आयुः-क्षयादिति । ।। ०७.६.३४अ ब ।। वासयेदरि-पक्षीयं अवशीर्ण-क्रिया-विधौ ।। ०७.६.३४च्द् ।। विक्रमयेद्भर्तरि वा सिद्धं वा दण्ड-चारिणं ।। ०७.६.३५अ ब ।। कुर्यादमित्र-अटवीषु प्रत्यन्ते वाअन्यतः क्षिपेत् ।। ०७.६.३५च्द् ।। पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतं ।। ०७.६.३६अ ब ।। तस्यएव दोषेण-अदूष्य पर-संधेय-कारणात् ।। ०७.६.३६च्द् ।। अथ वा शमयेदेनं आयत्य्-अर्थं उपांशुना ।। ०७.६.३७अ ब ।। आयत्यां च वध-प्रेप्सुं दृष्ट्वा हन्याद्गत-आगतं ।। ०७.६.३७च्द् ।। अरितोअभ्यागतो दोषः शत्रु-संवास-कारितः ।। ०७.६.३८अ ब ।। सर्प-संवास-धर्मित्वान्नित्य-उद्वेगेन दूषितः ।। ०७.६.३८च्द् ।। जायते प्लक्ष-बीज-आशात्कपोतादिव शाल्मलेः ।। ०७.६.३९अ ब ।। उद्वेग-जननो नित्यं पश्चादपि भय-आवहः ।। ०७.६.३९च्द् ।। प्रकाश-युद्धं निर्दिष्टे देशे काले च विक्रमः ।। ०७.६.४०अ ब ।। विभीषणं अवस्कन्दः प्रमाद-व्यसन-अर्दनं ।। ०७.६.४०च्द् ।। एकत्र त्याग-घातौ च कूट-युद्धस्य मातृका ।। ०७.६.४१अ ब ।। योग-गूढ-उपजाप-अर्थं तूष्णीं-युद्धस्य लक्षणं ।। ०७.६.४१च्द् ।।
✦ ✦ ✦
“He whose treasury is empty, whose army is weakened, whose forts are unfinished. Let such a…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.